YouVersion Logo
Search Icon

प्रेरिता 9

9
साऊलस्‍य ह्नदयपरिवर्तनम्‌
1साऊलः इदानीम्‌ अपि प्रभोः शिष्‍यान्‌ तर्जयति स्‍म। सः तान्‌ सर्वान्‌ हन्‍तुम्‌ इच्‍छति स्‍म। 2सः प्रधानयाजकस्‍य समीपे गत्‍वा दमिश्‍कस्‍य सभागृहाणां नामपत्राणि याचितवान्‌, येषु तस्‍मै अधिकारः दत्तः यत्‌ सः नवीनपन्‍थस्‍य अनुगामिनाम्‌ अन्‍वेषणं कृत्‍वा तान्‌ सर्वान्‌ स्‍त्रीः पुरुषान्‌ च बध्‍वा येरुसलेमनगरे आनयतु।
3यदा सः यात्रां कुर्वन्‌ दमिश्‍कम्‌ आगच्‍छत्‌, तदा अकस्‍मात्‌ नभात्‌ एका ज्‍योतिः तं सर्वतः दृश्‍यते स्‍म। 4सः भूमौ अपतत्‌, तम्‌ एका वाणी श्रुयते स्‍म, “साऊल! साऊल! त्‍वं मयि उपरि किमर्थम्‌ अत्‍याचारं करोषि?” 5सोऽवदत्‌, “प्रभो ! कस्‍त्‍वम्‌?” उत्तरं प्राप्‍तं - “अहम्‌ येशुः मसीहः अस्‍मि, यस्‍मिन्‌ त्‍वम्‌ अत्‍याचारं करोषि। 6उत्तिष्‍ठ! नगरं च गच्‍छ। त्‍वया यत्‌ करणीयं तत्‌ तुभ्‍यम्‌ कथयिष्‍यते।” 7तेन सह यात्रां कुर्वन्‍तः जनाः अचम्‍भिताः जाताः। ते वाणीं तु शृण्‍वन्‍तः आसन्‌, परन्‍तु कमपि न दृष्‍टवन्‍तः। 8साऊलः भूम्‍याः उत्तिष्‍ठवान्‌, किन्‍तु नेत्राभ्‍याम्‌ किन्न्‍चितापि द्रष्‍टुं न अशक्‍नोत्‌। अतएव ते तस्‍य हस्‍तं धृत्‍वा दमिश्‍कं नीतवन्‍तः। 9सःत्रीणि दिनानि यावत्‌ अन्‍धः आसीत्‌। तेन भोजनं पानम्‌ आदयः अपि त्‍यक्‍तमासीत्‌।
10-12दमिश्‍के हनन्‍याहः नाम एकः शिष्‍यः वसति स्‍म। प्रभुः तं दर्शनं दत्‍वा अवदत्‌, “हनन्‍याह!” सः प्रत्‍युतरत्‌, “प्रभो! प्रस्‍तुतोऽस्‍मि।” प्रभुः तम्‌ अवदत्‌, “शीघ्रं “सीधी” नाम वीथिकायां गच्‍छ, यहूदः गृहे तरसुसनिवासिनः साऊलस्‍य अनुवेषणं कुरु। सः अधुना प्रार्थयति। साऊलः दर्शने अपश्‍यत्‌ यत्‌ हनन्‍याहनाम व्‍यक्‍तिः तस्‍य समीपे आगत्‍वा तस्‍मिन्‌ उपरि हस्‍तं स्‍थापयति, येन सः दृष्‍टिं प्रापयेत्‌।” 13हनन्‍याहः आपत्तिं कृत्‍वा अकथयत्‌, “प्रभो! मया अनेकैः जनैः श्रुतं यत्‌ अयं जनः येरुसलेमनगरे भवतः धर्मात्‍मानाम्‌ उपरि अत्‍याचारम्‌ अकरोत्‌। 14तस्‍मै महापुरोहितैः अधिकारः प्राप्‍तः, यत्‌ सः अत्र तान्‌ सर्वान्‌ बन्‍धनं कुर्यात्‌, ये तव नाम्‍नः याचनां कुर्वन्‍ति।” 15प्रभुः हनन्‍याहम्‌ अवदत्‌, “गच्‍छ! सः मम कृपापात्रः अभवत्‌। सः अन्‍यजातीनाम्‌ नृपाणाम्‌ इस्राएलिनाम्‌ च सम्‍मुखे मम नाम्‍नः प्रचारं करिष्‍यति। 16अहं स्‍वयं कथयिष्‍यामि यत्‌ मम नाम्‍नि सः अत्‍यधिकं कष्‍टं सहिष्‍यति।” 17इदं श्रुत्‍वा हनन्‍याहः गत्‍वा तस्‍मिन्‌ गृहे च प्राविशत्‌। तेन साऊलस्‍य मस्‍तके हस्‍तः स्‍थापितः कथितम्‌ च - “भ्रातः साऊल! प्रभुः येशुः मसीहः भवन्‍तम्‌ आगच्‍छन्‌ समये मार्गे दृश्‍यते स्‍म। सः माम्‌ अप्रेषयत्‌, येन तुभ्‍यं दृष्‍टिः प्रापयेत्‌। भवान्‌ दिव्‍यात्‍मना च परिपूर्णः भविष्‍यति।” 18तत्‌ क्षणम्‌ इत्‍थं प्रतीयते स्‍म यत्‌ तस्‍य नेत्राभ्‍याम्‌ आवरणे पततः। तस्‍मै दृष्‍टिः प्राप्‍ता, तत्‌ क्षणमेव सः जलसंस्‍कारम्‌ अगृह्‌णात्‌। 19तेन भोजनं कृतं, तस्‍य शरीरे शक्‍तिः आगता।
दमिश्‍के साऊलस्‍य धर्मप्रचारः
साऊलः किन्न्‍चित्‌ कालं यावत्‌ दमिश्‍कस्‍य शिष्‍यैः सह अतिष्‍ठत्‌। 20सः शीघ्रमेव सभागृहेषु येशोः मसीहस्‍य विषये प्रचारितवान्‌, यत्‌ सः परमेश्‍वरस्‍य पुत्रः अस्‍ति। 21सर्वे श्रोतारः अचम्‍भिताः जाताः अवदन्‌ च, “किम्‌ अयं सः एव नास्‍ति, यः येरुसलेमनगरे अस्‍य नाम्‍नः अनुयायिनः हन्‍तुम्‌ इच्‍छति स्‍म? किं तस्‍य आगमनस्‍य उद्देश्‍यः तान्‌ बद्‌ध्‍वा महापुरोहितानां समक्षे आनीतुं नासीत्‌?” 22किन्‍तु साऊलस्‍य सामर्थ्‍यः वर्द्धते स्‍म। सः अस्‍य सत्‍यस्‍य प्रमाणं ददाति स्‍म यत्‌ येशुः एवः मसीहः अस्‍ति। दमिश्‍कवासिनः यहूदिनः अचम्‍भिताः आसन्‌।
23इत्‍थं बहुदिनानि व्‍यतीतानि। तत्‍पश्‍चात्‌ यहूदिनः तं हन्‍तुम्‌ उपजापं कृतवन्‍तः 24परन्‍तु येन केन प्रकारेण साऊलः उपजापं जानीतवान्‌। तं हन्‍तुं अहोरात्रम्‌ च नगरस्‍य द्वारेषु द्वारपालाः नियुक्‍ताः आसन्‌, 25किन्‍तु साऊलस्‍य शिष्‍याः तं रात्रौ बर्हिनीतवन्‍तः। ते तं पिटके स्‍थायित्‍वा प्राकारात्‌ अवातरन्‌।
साऊलस्‍य येरुसलेमस्‍य यात्रा
26यदा साऊलः येरुसलेमनगरम्‌ आगतः, तदा सः शिष्‍यानां मध्‍ये गन्‍तुं प्रयत्‍नम्‌ अकरोत्‌ किन्‍तु ते सर्वे तस्‍मात्‌ भीताः आसन्‌। ते न विश्‍वसन्‍ति स्‍म यत्‌ सः येशोः मसीहस्‍य शिष्‍यः अभवत्‌। 27तदा बरनबासः तं प्रेरितानां मध्‍ये नीत्‍वा अकथयत्‌ - “मार्गे साऊलेन प्रभोः दर्शनं दृष्‍टम्‌, प्रभुना सह वार्तालापम्‌ अपि अभवत्‌। इदमपि अकथयत्‌ यत्‌ साऊलः दमिश्‍कनगरे निर्भीकतया येशोः नाम्‍नः प्रचारितवान्‌। 28अस्‍य पश्‍चात्‌ साऊलः येरुसलेमे प्रेरितैः सह गमनागनं कृतवान्‌, निर्भीकतया येशोः नाम्‍नः प्रचारितवान्‌।” 29सः यूनानीभाषिभिः यहूदिभिः सह वार्तालापं, वादविवादं च करोति स्‍म। परन्‍तु ते तं हन्‍तुम्‌ इच्‍छन्‍ति स्‍म। 30यदा भ्रातरः इदं गुप्‍तकथनं ज्ञातवन्‍तः, तदा ते साऊलं कैसरियां नीत्‍वा तारसुसं प्रेषितवन्‍तः।
कलीसियायाः शान्‍तिपूर्णः विकासः
31तस्‍मिन्‌ समये समस्‍तयहूदाप्रदेशेषु गलीलस्‍य तथा सामरीप्रदेशेषु च कलीसिया शान्‍तिं प्राप्‍तवती। तस्‍याः चहुँदिशि विकासः भवति स्‍म। कलीसिया प्रभौ श्रद्धयती, पवित्रात्‍मनः सान्‍त्‍वनया बलम्‌ सामर्थ्‍यम्‌ प्रात्‍वा उत्तरोत्तरा वर्द्धतेस्‍म।
लुद्दानगरे पतरसः
32पतरसः सर्वतः भ्रमन्‌, एकस्‍मिन्‌ दिने लुद्दायां परमेश्‍वरस्‍य प्रजानाम्‌ समक्षे अपि आगतः। 33तत्र सः एनियासः नाम अर्द्धांगरोगिनम्‌ अपश्‍यत्‌, यः अष्‍टवर्षंयावत्‌ शय्‍यायाम्‌ आसीत्‌। 34-35पतरसः तं सम्‍बोधितवान्‌, “एनियास! येशुः मसीहः त्‍वं स्‍वस्‍थं करोति। उत्तिष्‍ठ! स्‍वशय्‍यां स्‍वयमेव सज्‍जीं कुरु। सः तत्‌ क्षणमेव उत्‍थितः। लुद्दायाः शारोनस्‍य च सर्वे निवासिनः तम्‌ अपश्‍यन्‌ च प्रभुं स्‍वीकृतवन्‍तः।
याफानगरे तबियायै जीवनदानम्‌
36याफानगरे तबिया नाम शिष्‍या निवसति स्‍म। तबियायाः युनानीभाषायाम्‌ अनुवादः दोरकासः अर्थात्‌ “मृगी“ भवति। सा अति परोपकारी दानी च आसीत्‌। 37तेषु दिनेषु सा अतिरुग्‍णा भूत्‍वा अम्रियत। जनाः तां स्‍नापयित्‍वा गृहस्‍य उपरिकक्षे शाययितवन्‍तः। 38लुद्दा याफानगरस्‍य अतिदूरं नास्‍ति, शिष्‍याः अशृण्‍वन्‌ च यत्‌ पतरसः तत्र अस्‍ति। अतएव ते द्वौ जनौ प्रेषयित्‍वा तम्‌ अनुरोधं कृतवन्‍तः यत्‌ सः अतिशीघ्रं तेषां मध्‍ये आगच्‍छतु।
39पतरसः तत्‌क्षणमेव तैः सह अचलत्‌। यदा सः याफाम्‌ आगतः, तदा जनाः, तम्‌ उपरि कोष्‍ठे नीतवन्‍तः। तत्र विधवाः रुदन्‍त्‍यः तं परितः आगताः। तान्‌ कंचुकान्‌, वस्‍त्राणि च अदर्शयन्‌, यानि तया जीवितावस्‍थायां निर्मितानि। 40पतरसेन सर्वे बहिकृताः, जानू भूमौ स्‍थापयित्‍वा अप्रार्थयत्‌। तत्‍पश्‍चात्‌ शवं प्रति मुखं कृत्‍वा अकथयत्‌ - “तबिथे! उत्तिष्‍ठ!” सा नेत्रे उन्‍मीलतवती, पतरसं दृष्‍ट्‌वा उत्‍थितवती च। 41पतरसः तां हस्‍तं दत्‍वा उत्‍थापयत्‌। विश्‍वासिनः विधवाः च आहूय तां, तेषां समक्षे उपस्‍थापयत्‌ 42इयं घटना समस्‍तयाफायां प्रचारिता। बहवः जनाः प्रभौ विश्‍वासं कृतवन्‍तः। 43पतरसः किन्न्‍चित्‌ दिनानि यावत्‌ सिमोनचर्मकारस्‍य गृहे अतिष्‍ठत्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in