प्रेरिता 10
10
रोमनशतपतिः करनेलियुसः
1कैसरियायां “इतालवी” नाम्नः सैन्यस्य शतपतिः करनेलियुसः निवसति स्म। 2सः, तस्य समस्तपरिवारः च अपि धर्मपरायणः ईश्वरभक्तः च आसीत्। सः जनतायै अत्यधिकं भिक्षादानं ददाति स्म। सः सर्वदा परमेश्वरस्य प्रार्थनायां लीनः अतिष्ठत्। 3तेन एकस्मिन् दिने तृतीयस्य पहरस्य पश्चात् एकं दिव्यं दर्शनं दृष्टं यत् परमेश्वरस्य दूतः तस्य समीपे आगत्य अवदत्, “करनेलियुस!” 4सः तस्मिन् स्थिरदृष्ट्या दृष्ट्वा, भयभीतं भूत्वा उवाच, “महोदय! किं भवान् वक्तुं इच्छसि?” स्वर्गदूतः अवदत् - “भवतः प्रार्थनाः भिक्षादानं च परमेश्वरस्य पार्श्वे अधिगच्छन्, त्वं तेन स्मृतः। 5-6इदानीं भवान् जनान् याफां प्रेषय। सिमोनं, यः पतरसः कथ्यते अत्र आह्वय। सः चर्मकारसिमोनस्य गृहे तिष्ठति। तस्य गृहं समुद्रस्य तटे अस्ति।”
7स्वर्गदूतस्य स्वर्गे गते सति स्व द्वौ सेवकौ एकं धर्मपरायणं सैनिकं च आह्वयत्। 8तान् सम्यक् सर्वम् कथयित्वा याफां प्रेषितवान्।
9अन्यस्मिन् दिने यदा ते यात्रां कुर्वन्तः नगरं समीपे आगच्छन् तदा पतरसः मध्याह्णकाले पटले प्रार्थनां कर्तुम् अगच्छत्, 10सः अति क्षुधितः आसीत्, अतएव भोजनम् अकामयत्। जनाः भोजनं पाचयन्ति स्म, तत् क्षणमेव पतरसः आत्मना आविष्टः भूतः। 11तेन दृष्टं-स्वर्गः सम्मुखे वर्तते, तत्रतः एक विशालः प्रच्छदपटस्य इव किंचित पात्रम् अवतरति। तस्य चतुष्कोणाः पृथिव्यां स्थापयन्ते स्म; 12तस्मिन् सर्वप्रकाराणां ग्राम्याः पशवः, वन्यपशवः, सरीसृपाः जीवजन्तवः, नभसः पक्षिणः च सन्ति। 13तेन एका वाणी श्रुता, “पतरस! उत्तिष्ठ! जहि, खाद च।” 14परन्तु पतरसः अवदत् - “प्रभो! कदापि न। मया कदापि, किमपि अशुद्धवस्तु न खादितम्।” 15सा वाणी द्वितीयवारं श्रुयते स्म, “परमेश्वरेण यत् शुद्धं घोषितं, तत् अशुद्धं मा कथय।” 16त्रयवारम् एवं अभवत्। तत्पश्चात् तत् वस्तु पुनः स्वर्गे उपरि उत्थापयितम् आसीत्।
17-19पतरसेन इदं न अवगतम्, यत् तेन यः दृश्यः दृष्टः तस्य कः अर्थः भवितुं शक्नोति। तस्मिन् एव क्षणे करनेलियुसेन प्रेषिताः जनाः सिमोनस्य गृहस्य अनुसन्धानं कुर्वन्तः द्वारस्य समीपे अगच्छन्, “किं सिमोनः, यः पतरसः कथ्यते, अस्मिन् एव गृहे तिष्ठति?” पतरसः तस्मिन् समये अपि दिव्यदर्शनस्य विषये एव चिन्तन् आसीत्, तत्क्षणमेव आत्मा तम् अवदत्, “पश्य! त्रयः जनाः त्वम् अन्वेषणं कुर्वन्ति। 20-21त्वं शीघ्रं अधः आगत्य निर्भीकभूत्वा तैः सह गच्छ, यतः ते मया प्रेषिताः।” पतरसः अधः आगत्य तान् अवदत्, “भवन्तः यम् अनुवेषणं कुर्वन्ति, सः अहमेव।” भवन्तः अत्र कथं आगताः?” 22ते उत्तरं दतवन्तः, “शतपतिः करनेलियुसः धार्मिकः ईश्वरभक्तः च अस्ति। समस्तयहूदीजनतया सः बहुमन्यते। सः एकेन देवदूतेन आज्ञा प्राप्ता यत् सः भवन्तं स्वगृहं आहवयतु भवतः शिक्षां शृणोतु च।” 23पतरसः तान् अन्तः नीत्वा तेषाम् आतिथ्य-सत्कारं कृतवान्।
इतरेद्युः सः तैः सह आगच्छत्। याफानगरस्य केचित् भ्रातरः अपि तेन सह आसन्। 24सः आगामिनि दिवसे कैसरियाम् आगच्छत्। करनेलियुसः स्वसंबंधिनः घनिष्ठमित्राणि च आहूय तेषां प्रतीक्षते स्म। 25यदा पतरसः तेषां पार्श्वे आगतः तदा करनेलियुसः तस्य चरणयोः पतित्वा अप्रणमत्। 26पतरसः तम् इदं वदन् उत्थापयत्, “उत्तिष्ठ, अहमपि मनुष्यः अस्मि।” 27तेन सह वार्तां कुर्वन् गृहस्य अभ्यन्तरे जगाम। तत्र बहवः जनाः आसन्। तान् दृष्ट्वा 28पतरसः अकथयत्, “भवन्तः जानन्ति यत् अयहूदिना सह सम्पर्कः अथवा तस्य गृहे प्रवेशः यहूदिने पूर्णतः निषिद्धः, किन्तु परमेश्वरः मयि प्रकटितवान् यत् कम् अपि जनम् अशुद्धम् अपवित्रं च मा अवगच्छ। 29अतएव तव आह्वाने अहम् आगतः अस्मि। अधुना अहम् प्रष्टुम् इच्छामि, त्वया अहं किमर्थम् आहूतः अस्मि?” 30-31करनेलियुसः प्रत्युतरत्- “चतुर्णाम् दिनानाम् पूर्वम् अस्मिन् एव समये अहं स्वगृहे प्रार्थनां कुर्वन् आस्म। तत्क्षणमेव श्वेतवस्त्रधारी एकः पुरुषः मां पुरतः स्थितः। सः अवदत्, “करनेलियुस! तव प्रार्थनाः श्रुताः सन्ति, परमेश्वरेण तव भिक्षादानानि स्मृतानि च। 32-33भवान् जनान् जोप्पां प्रेषयित्वा सिमोनं यः पतरसः कथ्यते, आह्वय। सः चर्मकारसिमोनस्य गृहे, समुद्रस्य तटे तिष्ठति। अहं त्वां शीघ्रम् आह्वयम्, भवान् आगन्तुं च कृपाम् अकरोत्। परमेश्वरेण भवान् ये ये आदिष्ठाः, तान् श्रोतुं वयं सर्वे भवन्तं पुरतः उपस्थिताः स्म।”
पतरसस्य भाषणम्
34पतरसः अवदत्, “अधुना अहं सम्यक्रूपेण अवगच्छम्, यत् परमेश्वरः केन सह अपि पक्षपातं न करोति। 35मनुष्यः कस्याचित् जात्याः अपि भवेत्, यदि सः परमेश्वरे श्रद्ध्यया धर्माचरणं करोति, तदा सः परमेश्वरस्य कृपापात्रः भविष्यति।
36परमेश्वरः इस्राएलिजनेभ्यः स्व संदेशं प्रेषितवान्, अस्मभ्यम् येशुमसीहेन, यः सर्वेषां गुरुः अस्ति, शान्त्याः शुभसमाचारम् अश्रावयत्। 37-38नासरतनिवासिनः येशोः विषये यहूदादेशे यत् अभवत्, तत् भवन्तः जानन्ति। तत् सर्वम् गलीलप्रदेशे आरब्धम् - तस्य जलसंस्कारात् पश्चात् यस्य प्रचारः योहनेन कृतः आसीत्। परमेश्वरः तं येशुं पवित्रात्मना, सामर्थ्येण च विभूषितवान्, सः सर्वतः भ्रमित्वा परोकारान् अकरोत्। दुष्टात्मना वशीभूतजनान् स्वस्थाः अकरोत्, यतः तेन सहः परमेश्वरः आसीत्। 39यत् किन्न्चित् तेन यहूदाप्रदेशे येरुसलेमनगरे च कृतम्, वयं तस्य साक्षिणः। तम् एव येशुं निष्ठुराः जनाः क्रूसकाष्ठे आरोपयित्वा अह्नन् 40परन्तु सः परमेश्वरेण तृतीयदिने पुनः जीवितः कृतः, प्रकटीकृतः च - 41समस्तजनतायाः समक्षे नहि, किन्तु साक्षिणां समक्षे, ये परमेश्वरेण प्रथमेव निर्वाचिताः, ते साक्षिणः वयमेव स्मः। मृतकानां पुनरुत्थानस्य पश्चात् वयं तेन सह खादितं पीतं च। 42सः अस्मान् आदिष्टवान् यत् वयं जनताभ्यः उपदेशं दत्वा घोषणां कुर्याम यत् परमेश्वरेण सः एव जीवितानां मृतकानां च न्यायकर्ता नियुक्तः। 43तस्य एव विषये सर्वे भविष्यवक्तारः घोषणां कुर्वन्ति यत् यः अपि तस्य शिक्षायां विश्वासं करिष्यति, तस्मै तस्य नाम्ना दोषेभ्यः क्षमा मिलिष्यति।
अयहूदिषु पवित्रात्मनः अवतरणम्
44पतरसः कथयन् एव आसीत्, तत्क्षणमेव पवित्रात्मा सर्वेषु श्रोतृषु अवतरत् 45पतरसेन सह आगताः यहूदीविश्वासिनः इमं दृष्ट्वा चकिताः भूतवन्तः, यत् अयहूदिभ्यः अपि पवित्रात्मनः वरदानं प्राप्तम्, 46यतः ते अयहूदिनः भिन्नाः भिन्नाः भाषाः वदन्तः परमेश्वरस्य स्तुतिं कुर्वन्तः शृण्वन्ति स्म। पतरसेन कथितम् - 47“एतेभ्यः अस्माकम् इव पवित्रात्मनः वरदानं प्राप्तम् तदा किं कश्चित् अपि एतेभ्यः जलसंस्कारं दातुम् अस्वीकरिष्यति?” 48सः तेभ्यः येशुमसीहस्य नाम्नि जलसंस्कारं दातुम् अप्रार्थयत्। तत् पश्चात् ते पतरसं निवेदितवन्तः, “भवान् किन्न्चितदिनानि यावत् अस्माकम् अतिथिः भवेत्।”
Currently Selected:
प्रेरिता 10: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.