प्रेरिता 8
8
1साऊलः अस्याः हत्यायाः समर्थनं करोति स्म। तस्मिन् एव दिने येरुसलेमनगरे कलीसियायां क्रूरः अत्याचारः आरब्धः। प्रेरितानां अतिरिक्ताः सर्वे जनाः यहूदायां तथा सामरीप्रदेशेषु पलायितवन्तः? 2भक्तजनाः स्तीफनुसस्य कृते विलपन्तः तं समाधौ स्थापितवन्तः। 3तस्मिन् समये साऊलः कलीसियायां उपरि अत्याचारं करोति स्म। सः प्रतिगृहस्य अभ्यन्तरं गत्वा नरनारीः च आकृष्य कारागारे स्थापयति स्म।
सामरीप्रदेशे फिलिपः
4ये जनाः दिशि दिशि प्रसरिताः आसन् ते भ्रमित्वा शुभसमाचारस्य प्रचारं कुर्वन्ति स्म।
5फिलिपः सामरीप्रदेशस्य एकस्मिन् नगरे गत्वा तत्र मसीहस्य प्रचारं करोति स्म। जनाः तस्य शिक्षाम् अवहितं भूत्वा शृण्वन्ति स्म। 6अस्य कारणम् आसीत् यत् सर्वे तेन दृष्टः चमत्कारानां चर्चाम् अशृण्वन् अथवा तान् स्वयम् अपश्यन्। 7दुष्टात्मानः उच्चैः आलपन्तः अनेकेभ्यः जनेभ्यः बहिः गच्छन्ति स्म। अनेकाः रोगिनः अर्द्धांगरोगिणः, खन्न्जाः च स्वस्थाः क्रियन्ते स्म, 8अतः तस्मिन् नगरे आनन्दः आच्छादितवान्।
ऐंद्रजालिकः सिमोनः
9सिमोनः नाम पुरुषः फिलिफस्य पूर्वमेव तस्मिन् नगरे आगतः आसीत्। सः अभिचारं दर्शयित्वा स्वयं सामरीदेशस्य जनान् चकितं करोति स्म। सः जनैः महन्मन्यः आसीत्। 10-11आबालवृद्धाश्च सर्वे तं बहुमन्यन्ते स्म। ते अवदन् “अयं परमेश्वरस्य सा शक्तिः अस्ति या महाशक्तिः कथ्यते।” “बहुदिनानि यावत् तस्य अभिचारेण जनाः चकिताः आसन्। 12किन्तु फिलिपस्य उपदेशं श्रुत्वा सर्वे स्त्र्यिः पुरुषाश्च मसीहस्य नामनि जलसंस्कारं गृहीतवन्तः। 13सिमोनः अपि मसीहस्य शिक्षायां विश्वासम् अकरोत्। मसीहस्य अनुगामी भूत्वा सः सर्वदा फिलिपेन सह एव निवसति स्म। सः फिलिपस्य चिह्नानि, चमत्कारान् च दृष्ट्वा अचम्भितः अभवत्।
14यदा येरुसलेमस्य प्रेरिताः अशृण्वन् यत् सामरिभिः मसीहस्य शिक्षा स्वीकृता ते पतरसयोहनौ तेषां समीपे प्रेषितवन्तः। 15तौ तत्र गत्वा सामरिभ्यः प्रार्थनां कृतवन्तौ यत् ते पवित्रात्मानम् आप्नुयुः। 16पवित्रात्मा अद्यः यावत् एकस्मिन् उपरि अपि न अवतरत्। तेभ्यः केवलं येशोः मसीहस्य नाम्नि जलसंस्कारः दीयते स्म। 17पतरसः योहनश्च तेषाम् उपरि हस्तौ स्थापितवन्तौ, तत्क्षणमेव तेषु उपरि पवित्रात्मा अवतरत्।
18सिमोनेन दृष्टं यत् प्रेरितयोः हस्तयोः स्थापिते सति जनेभ्यः पवित्रात्मा प्राप्तः, अतः सः ताभ्याम् रुप्यकाणि आनीय अवदत् - 19“मह्यम् अपि तं सामर्थ्यम् दद्याताम्, येन अहमपि यस्य उपरि हस्तं स्थापयामि, तस्मै पवित्रात्मा आप्नुयात्।” 20इदं श्रुत्वा पतरसः प्रत्युतरत् - “तव रुप्यकाणि नरके गच्छन्तु त्वया सहैव। यतः त्वं परमेश्वरस्य वरदानं रुप्यकेण प्राप्तुम् इच्छसि। 21मम शिक्षायां तव कोऽपि अधिकारः नास्ति। यतः तव हृदयं परमेश्वरं प्रति निष्कपटं नास्ति। 22त्वं स्व पापस्य कृते पश्चात्तापं कुरु। परमेश्वरं प्रार्थनां कुरु, येन सः तव इमं विचारं क्षाम्यतु। 23अहं पश्यामि त्वं पित्तस्य तिक्तेन पूर्णः असि, अधर्मस्य बन्धने बधः असि।” 24सिमोनः प्रत्युत्तरम् अददात्, “मह्यम् परमेश्वरस्य कृपायै प्रार्थनां कुर्यात् यया त्वया उक्तस्य वचनस्य एकः अंशः अपि मयि न पतेत्।”
25पतरसः योहनश्च साक्षीं दत्वा, प्रभोः संदेशम् अश्रावयताम्। तत्पश्चात् प्रत्यावर्तताम्। तौ सामरिणां बहुषु ग्रामेषु शुभसमाचारम् अश्रावयताम्।
26परमेश्वरस्य देवदूतः फिलिपम् अवदत्, “उत्तिष्ठ, येरुसलेमनगरात् गाजानं प्रति गच्छन् दक्षिणदिशां प्रति गच्छतु। अयं मार्गः निर्जनः अस्ति।” सः उत्थाय गन्तुम् आरब्धवान्। 27तस्मिन् एवक्षणे एकः इथोपियाई हृतपुंसत्वनरः, येरुसलेमस्य तीर्थयात्रायाः पश्चात् प्रत्यागच्छति स्म। 28सः इथियोपियायाः महाराज्ञयाः कन्दाकायाः उच्चाधिकारी मुख्यः कोषाध्यक्षः च आसीत्। सः स्व रथे उपविश्य भविष्यवक्तुः यशायाहस्य ग्रन्थं पठन् आसीत्। 29आत्मा फिलिपम् अवदत् - “पुरं गत्वा रथेन सह चलतु।” 30फिलिपः धावित्वा तं यशायाहस्य ग्रन्थं पठन्तं श्रुत्वा अपृच्छत् “भवान् यत् पठति, किं तत् अवगच्छति?” 31सः प्रत्युत्तरम् अददात् - “यावत् कोऽपि मां न अवगच्छेत्, तावत् अहं कथं अवगमिष्यामि?” तेन फिलिपः रथे आरोहणाय निवेदितः। 32सः धर्मग्रन्थस्य इमं प्रसंगं पठन् आसीत्-
यथा मेषः वधाय नयते।
मेषः ऊर्णकर्तकाणां समक्षे निशब्दः तिष्ठति,
तथैव सः स्वमुखं न जृंभवान्।
33तस्य दशा दयनीया आसीत्,
तेन सह न्यायः न कृतः।
तस्य वंशावल्याः चर्चा कः कर्तुम् समर्थः?
यतः तस्य जीवनं पृथिव्यां समाप्तं क्रियते।
34हृतपुंसत्वः महाशयः पृष्टवान् - “भवान् कृपया मां कथय, नबी कस्य विषये कथयति? स्व विषये, अन्यस्य विषये वा?” 35तदा फिलिपः धर्मग्रन्थस्य इमं प्रसंगम्आधारं कृत्वा तस्मै येशोः मसीहस्य शुभसमाचारं श्रावयति स्म। 36यात्रां कुर्वन्तौ तौ एकस्य जलाशयस्य समीपे आगच्छताम्। सः महाशयः अवदत् - “अत्र जलमस्ति। मम जलसंस्कारग्रहणे का बाधा?” 37फिलिपः प्रत्युतरत्, चेत् भवान् सम्पूर्णहृदयेन विश्वसिति तदा का अपि बाधा न अस्ति। सः अवदत्, अहं विश्वसिमि यत् येशुः मसीहः परमेश्वरस्य पुत्रः अस्ति। 38-39सः रथं रोद्धुम् आदिष्टवान्। तदा द्वौ जले प्रविष्टौ, फिलिपः तस्मै जलसंस्कारम् अददात्। यदा तौ जलात् बहिः आगच्छताम्, तदा परमेश्वरस्य आत्मा फिलिपम् उत्थाय नीतवान्। सः पुनः तं न अपश्यत् तथापि आनन्देन सह स्व मार्गे अगच्छत्। 40फिलिपः स्वम् अशदोदनगरे प्राप्तः। कैसरियायां प्रापिते सति सर्वेषु नगरेषु शुभसमाचारं प्रचारितवान्।
Currently Selected:
प्रेरिता 8: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.