YouVersion Logo
Search Icon

प्रेरिता 7

7
स्‍तीफनुस्‍य भाषणं
1प्रधानमहापुरोहितः तम्‌ अपृच्‍छत्‌ - “किं इदं वचनं सत्‍यम्‌?” 2-3सः प्रत्‍युत्तरवान्‌, “भ्रातरः गुरुजनाः च, मम वचनानि शृणुयुः। अस्‍माकं पिता अब्राहमः हराने निवसनात्‌ पूर्वम्‌ मेसोपोतामियायां निवसति स्‍म, तदा महिमामयः परमेश्‍वरः तं दर्शनं दत्‍वा अवदत्‌ - ‘स्‍वदेशं, स्‍वकुटुम्‍बं च त्‍यक्‍त्‌वा तस्‍मिन्‌ देशे गच्‍छ, यम्‌ अहं त्‍वां दर्शयामि।’ 4इदं श्रुत्‍वा सः कसदियानां देशं त्‍यक्‍त्‌वा हराने अवसत्‌। तस्‍य पितरि मृते सति परमेश्‍वरः तं तत्रतः दूरीकृत्‍य अस्‍मिन्‌ देशे आनयत्‌, यत्र भवन्‍तः इदानीं वसन्‍ति। 5अस्‍मिन्‌ देशे परमेश्‍वरः तस्‍मै विरासतरूपेण न क्षेत्रं, न पादस्‍थापनाय अपि स्‍थानम्‌ अददात्; किन्‍तु सः प्रतिज्ञां कृतवान्‌ यत्‌ इमं देशं तुभ्‍यम्‌, तत्‍पश्‍चात्‌ तव वंशजेभ्‍यः प्रदास्‍याभि, यद्यपि तत्‌ समये अब्राहमस्‍य कोऽपि सन्‍तानः नासीत्‌। 6-7परमेश्‍वेरण कथितम्‌ ‘अब्राहमस्‍य वंशजः देशे परदेशिनः इव निवस्‍यन्‍ति। ते जनाः तान्‌ दासीकृत्‍य चतुः शत वर्षाणिपर्यन्‍तम्‌ तेषु अत्‍याचारं करिष्‍यन्‍ति।’ परमेश्‍वरः पुनः अवदत्‌ - ‘अहम्‌ तस्‍य राष्‍ट्रस्‍य न्‍यायं करिष्‍यामि, येषां ते दासाः भविष्‍यन्‍ति।’ तत्‍पश्‍चात्‌ ते तत्रतः प्रस्‍थानं कृत्‍य, अत्र मम उपासनां करिष्‍यन्‍ति। 8तदा परमेश्‍वरः अब्राहमाय लिंगाग्रचर्मछेदनस्‍य विधानम्‌ अकरोत्‌। अब्राहमस्‍य इसहाकः पुत्रः अभवत्‌, अष्‍टमेदिवसे तस्‍यापि लिंगाग्रचर्मछेदनम्‌ अभवत्‌। इसहाकेन याकूबः, याकूबात्‌ द्वादशः कुलपतयः उत्‍पन्‍नाः जाताः।
9“कुलपतयः ईर्ष्‍यया युसुफं विक्रीणन्‍ति स्‍म। इत्‍थं सः मिस्रदेशं नीतः, किन्‍तु परमेश्‍वरः तेन सह अतिष्‍ठत्‌। 10सः सर्वविपत्तिभ्‍यः तस्‍य उद्धारम्‌ अकरोत्‌। परमेश्‍वरः तस्‍मै ईदृशंम्‌ अकरोत्‌, यत्‌ युसुफः मिस्रदेशस्‍य नृपफिराउनस्‍य दृष्‍टौ प्रियतरः बुद्धिमान्‌ च अभवत्‌। नृपेण सः मिस्रस्‍य अधिपतिः, तस्‍य समस्‍तस्‍य राजभवनस्‍य च अधिकारी नियुक्‍तः। 11तस्‍मिन्‌ समये समस्‍त मिस्रदेशे कनानदेशे च दुर्भिक्षः अति संकटः च अभवताम्‌। अतः अस्‍माकं पूर्वजेभ्‍यः भोजनं न प्राप्‍यते स्‍म। 12यदा याकूबः अशृणोत्‌ यत्‌ मिश्रदेशे अन्‍नं प्राप्‍यते तदा सः अस्‍माकं पूर्वजान्‌ तत्र प्रथमवारं अप्रेषयत्‌। 13द्वितीये अध्‍वगमने युसुफः स्‍वभ्रातॄन्‌ स्‍व परिचयम्‌ अददात्‌। 14फराउनः अपि तस्‍य वंशम्‌ अजानत्‌। तदनन्‍तरं यूसुफः स्‍व पितरं याकूबं, तस्‍य समस्‍तपरिवारं च तत्र निवसितुम्‌ निमन्‍त्रितवान्‌। सर्वे मिलित्‍वा ते पंचसप्‍ततिः जनाः आसन्‌। 15याकूबः मिश्रदेशम्‌ आगच्‍छत्‌। तत्र सः, अस्‍माकं पूर्वजाश्‍च अभ्रियन्‍त। 16किन्न्‍चत्‌ कालानन्‍तरं तेषाम्‌ अवशेषाः शकेमदेशे आनीताः, तस्‍मिन्‌ शवागारे स्‍थापिताः यम्‌ अब्राहमेन शेखेमदेशे एम्‍मोरस्‍य पुत्रेभ्‍यः रजतेन क्रीतमासीत्‌।
17“परमेश्‍वरेण अब्राहमाय या प्रतिज्ञा कृता आसीत्‌, तस्‍याः समाप्‍त्‍याः समयः आसन्‍नः आसीत्‌, तदा अस्‍माकं जनानां संख्‍या उत्तरोत्तरा वर्द्धते स्‍म। 18तस्‍मिन्‌ समये मिस्रदेशे एकः नृपः अभवत्‌, यः युसुफस्‍य विषये किन्न्‍चतापि न जानाति स्‍म। 19सः अस्‍माकं जनैः सह कपटं व्‍यवहरन्‌ तेषाम्‌ उपरि अत्‍याचारम्‌ अकरोत्‌। अस्‍माकं पूर्वजाः वाध्‍याः कृताः यत्‌ ते नवजातशिशून्‌ बहिः क्षिपिष्‍यन्‍ति, येन ते मरिष्‍यन्‍ति।
20ईदृशे समये मूसः जन्‍म अभवत्‌। मूसाः उत्‍पन्‍नसमये अतिसुन्‍दरः आसीत्‌। त्रिमासं यावत्‌ स्‍व पितुः गृहे पालितः। 21यदा सः क्षिपितः तदा फिराउनस्‍य पुत्री स्‍व पुत्रस्‍य इव तस्‍य पालनं कृतवती। 22सः मिस्रिणाम्‌ सर्वानां विद्यानां च प्रशिक्षणं प्राप्‍तवान्‌। सः शक्‍तिशाली वक्‍ता कर्मवीरश्‍च अभवत्‌।
23“यदा सः चत्‍वारिंशतस्‍य आसीत्‌, तदा स्‍व इस्राएलीभ्रातृभिः सह मिलितुम्‌ निश्‍चितवान्‌। 24तेषु एकेन सह दुर्व्‍यवहारं दृष्‍टवा, तेन तस्‍य पक्षः गृहीतः। मिस्रीं हत्‍वा अत्‍याचारस्‍य प्रतिशोधं गृहीतवान्‌। 25तस्‍य विचारः आसीत्‌ यत्‌ तस्‍य भ्रातरः तम्‌ उद्धारकर्ता अवगमिष्‍यन्‍ति। परन्‍तु तस्‍य भ्रातरः एवम्‌ न अवगच्‍छन्‌। 26अन्‍यस्‍मिन्‌ दिने मूसाः द्वौ इस्राएलिनौ युद्धं कुर्वन्‍तौ अपश्‍यत्‌। सः तयोः मेलयितुं प्रायतत्‌, “मित्रे! भवन्‍तौ भ्रातरौ स्‍तः, परस्‍परं किमर्थम्‌ आघातं कुरुतः।” 27यः मनुष्‍यः अन्‍यायं कुर्वन्‌ आसीत्‌, हस्‍तेन प्रक्षिपन्‌ मूसाम्‌ अवदत्‌ - “केन त्‍वम्‌ अस्‍माकं शासकः नियुक्‍त? 28ह्‌यः त्‍वया सः मिस्री हतः, किं त्‍वं माम्‌ अपि तादृश एव हन्‍तुम्‌ इच्‍छसि?” 29इदं श्रुत्‍वा मूसाः तत्रतः पलायितवान्‌। मिद्यानदेशे परदेशिनः रूपे निवसति स्‍म। तत्र तस्‍य द्वौ पुत्रौ जातौ।
30“चत्‍वारिंशतवर्षस्‍य पश्‍चात्‌ सीनयस्‍य निर्जनप्रदेशे तेन ज्‍वलन्‌ कंटकगुल्‍मस्‍य ज्‍वालायां एकः देवदूतः दृष्‍टः। 31तं दृष्‍ट्‌वा मूसा अचम्‍भितः अभवत्‌। यदा सः तस्‍य निरीक्षणाय गुल्‍मस्‍य समीपे आगतः, तस्‍मै प्रभोः वाणी श्रूयते स्‍म, 32“अहं तव पूर्वजानां परमेश्‍वरः अस्‍मि, अब्राहमस्‍य इसहाकस्‍य याकूबस्‍य च परमेश्‍वरः’’। मूसाः भयेन कम्‍पितवान्‌, तं पुनः द्रष्‍टुं साहसः न अभवत्‌। 33तदा परमेश्‍वरः तम्‌ अवदत्‌ - “पादाभ्‍याम्‌ उपानहौ निष्‍काषय, यतः यत्र त्‍वं स्‍थितः असि, तत्‌ स्‍थानं पवित्रम्‌ अस्‍ति। 34मया मिश्रदेशे निवसन्‍तः प्रजायां कृतः अत्‍याचारः दृष्‍टः, तस्‍याः करुणक्रन्‍दनं श्रुतं च। अहं तस्‍याः प्रजायाः उद्धारयितुम्‌ आगतः अस्‍मि। अधुना सज्‍जः भव। अहं त्‍वां मिश्रदेशे प्रेषयिष्‍यामि।”
35“सर्वप्रथम सः मिश्रदेशस्‍य प्रजया अस्‍वीकृतः आसीत्‌ यत्‌ केन सः तेषां शासकः नियुक्‍तः अस्‍ति? परमेश्‍वरः कंटकगुल्‍मे स्‍थितः देवदूतस्‍य माध्‍यमेन तम्‌ एव शासकस्‍य रूपे तेषां समीपे प्रेषितवान्‌। 36सः एव मूसाः तान्‌ निष्‍कास्‍य मिश्रदेशे, रक्‍तवर्णसमुद्रतटे मरुभूमौ च चत्‍वारिंशतवर्षाणि यावत्‌ आश्‍चर्यकर्माणि चिन्‍हानि च दर्शयति स्‍म। 37सः एव मूसा अस्‍ति यः इस्राएलिनः अवदत्‌, - “परमेश्‍वरः तव भ्रातृषु तुभ्‍यं मम इव एकः भविष्‍यवक्‍तारम्‌ उत्‍पन्‍नं करिष्‍यति।” 38सः एव मूसा अस्‍ति यः निर्जनप्रदेशस्‍य समुदाये, तेन देवदूतेन सह आसीत्‌, यः सीनयपर्वते तेन सह वार्तालापं कृतवान्‌ आसीत्‌। सः अस्‍माकं पूर्वजैः सह अपि आसीत्‌। तस्‍मै जीवन्‍तदिव्‍यावाणी प्राप्‍ता, यां सः अस्‍मान्‌ श्रावयेत्‌। 39किन्‍तु अस्‍माकं पूर्वजैः तस्‍य वचनं तिरस्‍कृतम्‌। ते मिश्रदेशं प्रत्‍यागन्‍तुम्‌ इच्‍छन्‍ति स्‍म। 40अस्‍माकं पूर्वजाः हारूनम्‌ अकथयन्‌ - “अस्‍मभ्‍यः ईदृशान्‌ देवतान्‌ निर्मायतु, ये अस्‍माकं पुरतः गच्‍छेयुः, यतः वयं न जानीमः, सः कुत्र अगच्‍छत्‌, यः अस्‍मान्‌ मिश्रदेशात्‌ बहिः कृत्‍य आनीतवान्‌।” 41तेषु दिनेषु ते गोवत्‍सस्‍य देवमूर्तिंम्‌ निर्माय तस्‍मै बलिम्‌ अर्पितवन्‍तः। स्‍वहस्‍तनिर्मितमूर्त्‍यैः अनुष्‍ठानं कृतवन्‍तः च। 42इदं सर्वम्‌ दृष्‍ट्‌वा परमेश्‍वरः तेभ्‍यः विमुखः अभवत्‌। परमेश्‍वरेण ते आकाशस्‍य नक्षत्राणाम्‌ उपासनां कर्तुम्‌ मुन्न्‍चिताः, यथा नबिनां ग्रन्‍थे लिखितमस्‍ति - “इस्राएलिनः! चत्‍वारिंशत्‌ वर्षाणि यावत्‌ मरुस्‍थले निवसन्‍तः किं युष्‍माभिः मह्‌यम्‌ पशुबलिः अन्‍नबलिश्‍च अर्पितौ? न!। 43यूयं मोलेकस्‍य देवस्‍य पटमंडपं स्‍व परमेश्‍वरस्‍य रैफानस्‍य नक्षत्रं च अर्थात्‌ ताः मूर्तीः याः युष्‍माभिः आराधनाय निर्मिताः, स्‍व स्‍कन्‍धेषु उत्‍थाय अनयत, अतएव अहं युष्‍मान्‌ बेबीलोनस्‍य पारं निर्वासयिष्‍यामि।”
44-45मरुस्‍थले अस्‍माकं पूर्वजानां समक्षे साक्ष्‍यस्‍य पटमंडपः आसीत्‌। परमेश्‍वरः मूसाम्‌ अस्‍मान्‌ विषये आदिष्‍टवान्‌ - “त्‍वया यत्‌ प्रतिरूपं दृष्‍टं, तस्‍य अनुरूपं तं निर्मायतु।” 46सः पटमंडपः आगामीवंशश्रेण्‍याः पूर्वजेभ्‍यः प्राप्‍तः। ते तं यहोशुअमहाशयस्‍य नेतृत्‍वे अस्‍मिन्‌ देशे आनयन्‌। यः देशः अयहूदिनां हस्‍तयोः आसीत्‌, किन्‍तु परमेश्‍वरः तं पटमंडपम्‌ अस्‍माकं पूर्वजानां समक्षे निष्‍कासितवान्‌। सः पटमंडपः दाऊदस्‍य शासनकाले तस्‍य पार्श्‍वे आसीत्‌। 47दाऊदाय परमेश्‍वरस्‍य कृपादृष्‍टिः प्राप्‍ता आसीत्‌। सः याकूबस्‍य वंशस्‍यकृते एकमन्‍दिरं निर्मायितुम्‌ वरं याचितवान्‌। 48किन्‍तु तस्‍य पुत्रेण सुलेमानेन मन्‍दिरं निर्मितम्‌। तथापि सर्वोच्‍चः परमेश्‍वरः मनुष्‍यैः निर्मितेषु भवनेषु न निवसति, यथा नबी अवदत्‌ -
49आकाशः मम सिंहासनमस्‍ति
पृथ्‍वी मम पादपीठः च।
प्रभु वदति-त्‍वं मह्‌यं कीदृशं मन्‍दिरं निर्माणयिष्‍यसि?
मम निवासस्‍थानं कुत्र भविष्‍यति?
50किं इदं सर्वम्‌ मया निर्मितम्‌ नास्‍ति?
51“हठधर्मिणः! भवन्‍तः न तु श्रोतुं, न अवगन्‍तुं च इच्‍छन्‍ति। भवन्‍तः सर्वदा पवित्रात्‍मनः विरोधं कुर्वन्‍ति, यथा भवतां पूर्वजाः कृतवन्‍तः। 52-53भवतां पूर्वजाः कस्‍मिन्‌ भविष्‍यवक्‍तरि उपरि अत्‍याचारं न कृतवन्‍तः? ते तेषां वधं कृतवन्‍तः, ये धर्मात्‍मनः आगमनस्‍य भविष्‍यवाणीं कुर्वन्‍ति स्‍म। भवद्‌भिः देवदूतानां माध्‍यमेन व्‍यवस्‍था प्राप्‍ता, परन्‍तु अस्‍याः पालनं न कृतवन्‍तः। इदानीं तस्‍य धर्मात्‍मनः विश्‍वासघातिनः हन्‍तारः च अभवन्‌।” 54स्‍तीफनुसस्‍य हत्‍याय सर्वे उपस्‍थिताः जनाः तस्‍य वचनं श्रुत्‍वा क्रुद्धाः भूत्‍वा दंतान्‌ पेष्‍टुम्‌ आरब्‍धवन्‍तः। परन्‍तु 55स्‍तीफनुसः पवित्रात्‍मना पूर्णः भूत्‍वा स्‍वर्गम्‌ प्रति दृष्‍टिपातं कृत्‍वा परमेश्‍वरेण सह दक्षिणे विराजमानं मानवपुत्रम्‌ अपश्‍यत्‌। 56सः उच्‍चस्‍वरेण अवदत्‌ - “अहं स्‍वर्गम्‌ उद्‌घाटितं, ईश्‍वरस्‍य दक्षिणे विराजमानं मानवपुत्रम्‌ पश्‍यामि।” 57इदं श्रुत्‍वा ते उच्‍चस्‍वरेण वक्‍त्‍वा स्‍व कर्णान्‌ पिधातितवन्‍तः। ते सर्वे मिलित्‍वा तस्‍मिन्‌ उपरि आक्रमणम्‌ अकुर्वन्‌, 58तं नगरात्‌ बहिः नीत्‍वा तस्‍योपरि प्रस्‍तरान्‌ अक्षिपन्‌। साक्षिणः स्‍ववस्‍त्राणि साऊलनाम्‍नः नवयुवकस्‍य पादयोः स्‍थापितवन्‍तः। 59यदा स्‍तीफनुसस्‍योपरि प्रस्‍तरस्‍य प्रहारः भवति स्‍म, सः प्रार्थनाम्‌ अकरोत्‌ - “हे प्रभो येशो! मम आत्‍मानं गृह्‌णातु।” 60तत्‍पश्‍चात्‌ जानुभ्‍यां अवनौ पतित्‍वा उच्‍चस्‍वरेण अकथयत्‌ - “हे प्रभो! इमं दोषं एतेषु उपरि मा पातयतु।” इदं उक्‍त्‍वा च स्‍व प्राणान्‌ अत्‍यजत्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in