लूका 16

16
विदग्‍धः प्रबन्‍धकः
1अथ येशुः स्‍वकान्‌ शिष्‍यान्‌ पुनः इदम्‌ उक्‍तवान्‌, “कस्‍यचित्‌ धनिनः कश्‍चित्‌ अर्थप्रबन्‍धकः आसीत्‌। लोकाः तदन्‍तिकं गत्‍वा, तस्‍मिन्‌ अर्थप्रबन्‍धके “अर्थम्‌ नष्‍टं करोति” इति दोषारोपणम्‌ चक्रुः। 2धनिकः तं समाहूय अपृच्‍छत्‌ किं त्‍वयि श्रूयते? अहं साम्‍प्रतम्‌ अर्थप्रबन्‍धं ते ज्ञातुमिच्‍छामि। यतः त्‍वम्‌ अद्‌यः प्रभृति मे अर्थप्रबन्‍धकः न असि। 3तदा अर्थप्रबन्‍धकः अचिन्‍तयत्‌, साम्‍प्रतम्‌ अहं किं करोमि। यतः मम स्‍वामी मत्‌ पदात्‌ मम अपसारणम्‌ करोति, मम मृत्तिकामपि खनितुं बलं नास्‍ति। लोकेषु भिक्षाटनं कर्तुम्‌ मे मनः लज्‍जते। 4मया किं कर्तव्‍यं येन जनाः स्‍वीयगेहेषु मम स्‍वागतं कुर्युः। 5ततः सः स्‍वप्रभोः एकैकम्‌ ऋणधर्तारम् आहूय प्रथमं पृष्‍टवान्‌, स्‍वामिने कियत्‌ धारयसि? 6सः प्रत्‍युतरत्‌, तैलस्‍य शतं कुतुवः धारयामि। अथ सः तं प्राह - त्‍वं प्रपत्रकम्‌ आदाय पत्र्चाशतं लिख। 7पुनः स अन्‍यं पप्रच्‍छ - त्‍वया कियत्‌ धार्यते, वद। सः प्रत्‍युवाच - शतं द्रोणान्‌ गोधूमानां सहस्रं शाणकोषान्‌ धारयामि। सः तम्‌ आदिशत्‌ - स्‍वकीयपत्रके त्‍वम्‌ अशीतिः लिख। 8धनिकः स्‍वामी कुटिलार्थम्‌ प्रबन्‍धकस्‍य प्रशंसाम्‌ अकरोत्‌। यतः अस्‍य लोकस्‍य सन्‍तानाः मिथ विनिमये ज्‍योतेः सन्‍ततेः अधिकाः कुशलाः सन्‍ति।
धनस्‍य सदुपयोग
(मत्ती 6:24)
9“अहं युष्‍मान्‌ ब्रवीमि - यूयं मिथ्‍याधनैः आत्‍मनोऽर्थे बहुमित्राणि विधत्त। येन यदा यूयं वित्तहीनाः भविष्‍यथ, तदा ते स्‍वर्गलोके युष्‍माकं स्‍वागतं करिष्‍यन्‍ति। 10यः जनः लघिष्‍ठेषु वृत्तेषु विश्‍वासी वर्तते, सः गरिष्‍ठेषु अपि वृत्तेषु विश्‍वस्‍तः वर्तते। 11यस्‍तु लघिष्‍ठेषु वृत्तेषु अविश्‍वस्‍तः वर्तते, असौ गरिष्‍ठेषु वृत्तेष्‍वपि तथैव वर्तते। 12त्‍वं चेत्‌ अन्‍यस्‍य धने विश्‍वासी न असि, तर्हि युष्‍मासु को स्‍व वित्तं निक्षेप्‍स्‍यति।
13“कोऽपि द्वयोः स्‍वामिनो दास्‍ये संस्‍थातुं न शक्‍नोति। यतः सः दासः एकस्‍मिन्‌ प्रेमवृत्तिं करोति चेत्‌, तर्हि तस्‍य अपरस्‍मिन्‌ द्वेषवृत्तिः भविष्‍यति। एकं समादरिष्‍यति चेत्‌ अपरम्‌ अवमंस्‍यते। युष्‍माभिः परमेश्‍वरस्‍य धनस्‍य च उभयोः युगपद्‌ दास्‍यं कर्तुम्‌ नैव शक्‍यते।”
फरीसिनां लोभः
14एतत्‌ सर्वम्‌ आकर्ण्‍य लोभाविष्‍टान्‌, उपहासं प्रकुर्वाणान्‌ फरीसिनः 15येशुः इदम्‌ अब्रवीत्‌ - “लोकानां पुरतो यूयं धार्मिका इव दृश्‍यध्‍वे किन्‍तु परमेश्‍वरः युष्‍माकं हृदयं जानाति। मनुष्‍याणां मतौ यस्‍य महत्‍वं, परमेश्‍वरस्‍य दृष्‍टौ तद्‌ विगर्हितम्‌ वर्तते।”
परमेश्‍वरस्‍य राज्‍याय उत्‍सुकता
(मत्ती 11:12-13; 5:31-32; मर 10:11-12)
16“योहनं यावत्‌, संहितायाः नबिनाम्‌ समयः आसीत्‌। ततः एव परमेश्‍वरस्‍य राज्‍यस्‍य शुभसमाचारः श्रावयते। सर्वे च तस्‍मिन्‌ प्रवेशप्राप्‍तुं यतन्‍ते।
व्‍यवस्‍थायाः महत्‍वः
(मत्ती 5:18)
17“द्‌यावापृथिव्‍यौ स्‍व स्‍थानाद्‌ विचलेतां कदाचन, परन्‍तु संहितायाः एकः अपि विन्‍दुः न एव अपगच्‍छति।
वैवाहिकबन्‍धनम्‌
(मत्ती 5:32; 19:9)
18“यस्‍तु स्‍विकां पत्‍नीं त्‍यक्‍त्‍वा अन्‍याम्‌ उद्‌वहते, सः व्‍यभिचारं करोति तथा यः पतित्‍यक्‍तां नारीमुद्‌वहते, सः अपि व्‍यभिचारं करोति।
धनपतेः लाजरुसस्‍य च दृष्‍टान्‍तः
19“कश्‍चित्‌ धनाढ्‌यः आसीत्‌, यः कृष्‍णलोहितम्‌, अतिसूक्ष्‍मं बहुमूल्‍यवसनं परिधत्तवान्‌। अतिसौख्‍येन सुखभोजनम्‌ कुर्वन्‌ च निवसन्‌ जीवनं यापयन्‌ आसीत्‌। 20तस्‍य द्वारान्‍तिकं कश्‍चित्‌ लाजरुसः अभिधः नरः दारिद्रयेण समाक्रान्‍तः व्रणैश्‍च परिपीडितः उपविशति स्‍म, 21सः धनिनः भोज्‍यमत्र्चात्‌ प्रभ्रंशिभिः उच्‍छिष्‍टैः स्‍वां क्षुधां शान्‍तां कर्तुम्‌ उत्‍सुकः आसीत्‌। तस्‍य ब्रणान्‌ कुक्‍कुराः स्‍वजिह्‌वया लिहन्‍ति स्‍म। 22एवं दुःखम्‌ अनुभवन्‌ सः दरिद्रः मृत्‍युं ययौ। ततः अब्राहमस्‍याड्‌.के स्‍वर्गदूताः तमार्पयन्‌। धनाढ्‌यः अपि अम्रियत, शवागारे स्‍थापितः च। 23अधोलोके यन्‍त्रणाः सहन्‌, स्‍वे नेत्रे ऊर्ध्‍वम्‌ उत्‍थाप्‍य दूरात्‌ अब्राहमं, तथा तस्‍य अड्‌.के लाजरुसम्‌ अपि अपश्‍यत्‌। 24सः उच्‍चैः अब्राहमं प्रोचे-पितः ! माम्‌ अनुकम्‍पतु, लाजरुसम्‌ मम अन्‍तिकं प्रेषतु, यथा स्‍वस्‍य अड्‌.गुल्‍याः अग्रभागं तोये निमज्‍जय सः मम जिह्‌वां शीतलां कुर्यात्‌। यतो अहं यातनायाः तीव्रज्‍वालायां ज्‍वलामि। 25अब्राहमः ततो अवदत्‌, वत्‍स! स्‍मर, जीवने त्‍वं सुखम्‌ एव अभजः, तथा लाजरुसः नित्‍यं दुःखम्‌। इदानीं सः अत्र सान्‍त्‍वनां लभते, त्‍वं यातनाम्‌। 26युष्‍माकम्‌ अस्‍माकं मध्‍ये महत्‌ अन्‍तरालं च वर्तते। अतः कश्‍चित्‌ एतस्‍मात्‌ स्‍थानात्‌ तव अन्‍तिकम्‌ गन्‍तुम्‌ इच्‍छन्‌ अपि गन्‍तुं न शक्‍नोति, ततः अपि च आगन्‍तुं न शक्‍नोति। 27सः प्रत्‍युतरत्‌, हे पितः! त्‍वां निवेदयामि - भवान्‌ इमं लाजरुसम्‌ मे पितुःगृहम्‌ प्रेषतु। 28यतः मे पत्र्च भ्रातरः सन्‍ति। लाजरुसः तेभ्‍यः सुनिर्देशं दद्‌यात्‌। ते सर्वे यातनामयम्‌ इदं स्‍थानं नागच्‍छेयुः। 29अब्राहमस्‍तु तं प्राह-तेषां पार्श्‍वे मूसाः नबिनश्‍च शिक्षकाः सन्‍ति, ते तेषां शृण्‍वन्‍तु। 30सः अब्राहमम्‌ अब्रवीत्‌ ते न शृण्‍वन्‍ति, किन्‍तु कश्‍चित्‌ मृतकेषु तेषां समीपे गच्‍छेत्‌ तदा ते पश्‍चात्तापं करिष्‍यन्‍ति। 31परन्‍तु अब्राहमः अवदत्‌ नैतत्‌ चापि सम्‍भवम्‌, यदि तेभ्‍यः न शृणवन्‍ति, तर्हि मृतकेष्‍वपि कस्‍मिंश्‍चिदुत्‍थिते अपि तस्‍मिन्‌ न प्रत्‍येष्‍यन्‍ति।

Выделить

Поделиться

Копировать

None

Хотите, чтобы то, что вы выделили, сохранялось на всех ваших устройствах? Зарегистрируйтесь или авторизуйтесь