यूहन्‍नः 20

20
येशोः पुनरुत्‍थानम्‌
(मत्ती 28:1-8; मर 16:1-8; लूका 24:1-12)
1मेरीमगदलेनी सप्‍ताहस्‍य प्रथमदिवसे, प्रत्‍युषे शवागारम्‌ आगतवती। 2शवगारात्‌ पाषाणम्‌ अपसारितम्‌ दृष्‍ट्‌वा सिमोनपतरसस्‍य, येशोः प्रियतरस्‍य शिष्‍यस्‍यान्‍यस्‍य च निकटं धावन्‍ती कथितवती, “नैव जाने के जनाः प्रभुम्‌ शवागारात्‌ नीत्‍वा अस्‍माभिः अनभिज्ञाते क्‍व स्‍थाने तम्‌ स्‍थापितवन्‍तः च।
3सिमोनपतरसः असौ येशोः अपरः शिष्‍यश्‍चः, 4शवागारम्‌ धावन्‍तौ अगच्‍छताम्‌। 5असौ अपरः शिष्‍यः पतरसात्‌ क्षिप्रतरं धावयित्‍वा, शवागारं पूर्वम्‌ प्राप्‍य प्रह्‌वीभूय व्‍यलोकयत्‌। यत्‌ शवस्‍थाने तत्‌ क्षौमवस्‍त्रस्‍य वेष्‍टनम्‌ पतितम्‌ आसीत्‌, किन्‍तु असौ शवागाराभ्‍यन्‍तरं न प्राविशत्‌। 6सिमोनपतरसः तम्‌ अनुगच्‍छन्‌ शवागारम्‌ उपस्‍थितः। सः लक्षयामास तत्‌ पटवेष्‍टनम्‌ पतितमासीत्‌, 7किन्‍तु तस्‍य मस्‍तके यत्‌ सुलेचकम्‌ वद्‌धमासीत्‌ तत्‌ वेष्‍टनेन साकं न प्रत्‍युतान्‍यत्र ददृशे। 8ततः पूर्वम्‌ शवागारं यः शिष्‍यः प्रथमः आगतवान्‌ आसीत्‌ सोऽपि प्राविशत्‌, असौ दृष्‍ट्‌वा च विश्‍वासम्‌ अकरोत्‌। 9यतः मृतानां मध्‍यात्‌ सः पुनरुत्‍थानम्‌ एष्‍यति, तदानीमपि इयं शास्‍त्रोक्‍तिः न जज्ञाते। 10तत्‍पश्‍चात्‌ शिष्‍यौ स्‍वगृहौ प्रत्‍यगच्‍छताम्‌।
मेरीमगदलेन्‍यै दर्शनम्‌
(मत्ती 28:9-10; मर 16:9-10)
11मगदलेनी शवागारमसीपं रुदती स्‍थिता। 12रुदती सा शवागाराभ्‍यन्‍तरे अवलोकयत्‌ तत्र स्‍वर्गस्‍य द्वौ दूतौ शुभ्रवाससी वसानौ उपविष्‍टौ आस्‍ताम्‌। एकः तस्‍य शिरः स्‍थाने, अपरः पादस्‍थाने च। 13दूतौ ताम्‌ अपृच्‍छताम्‌, “भद्रे! कथं रोदिषि?” सा प्रत्‍युवाच, - “मम प्रभुः स्‍थानान्‍तरीकृतः। कुत्र स्‍थाने सः निहितः नेदं मया विज्ञायते।” 14इत्‍युक्‍त्‍वा असौ परावृत्‍य पश्‍चात्‌ यावत्‌ ददर्श, तावत्‌ तत्रैव तिष्‍ठन्‍तं सा येशुम्‌ ददर्श, परन्‍तु दृष्‍ट्‌वा अपि सा येशुं सम्‍यक्‌ न पर्यचिनोत्‌। 15येशुः ताम्‌ अब्रवीद्‌, “भद्रे! कथं विलापं कुरुषे? कम्‌ अन्‍विष्‍यन्‍ती त्‍वम्‌ इह स्‍थिता?“ ततो येशुम्‌ उद्‌यानपालकम्‌ मत्‍वा प्रत्‍युवाच, “श्रीमन्‌! येशोः शरीरं चेद्‌ भवान्‌ अन्‍यत्र नीतवान्‌, तर्हि तत्‌ भवता कुत्र स्‍थापितम्‌ इति कथयतु। साम्‍प्रतम्‌ अहम्‌ तं देहम्‌ अन्‍यत्र नेतुमिच्‍छामि।” 16इत्‍याकर्ण्‍य येशुः ताम्‌ जगाद “मेरि!” सा परावृत्‍य इब्रानीभाषायाम्‌ तम्‌ प्रत्‍युवाच “रब्‍बोनी (अस्‍य शब्‍दार्थः हे गुरो! इति वर्तते)। 17येशुः तामुवाच, “त्‍वं मम पादयोः पतित्‍वा मां मा रौत्‍सीः, यतः अहम्‌ इदानीमपि मम पितुः पार्श्‍वम्‌ नारूढवान्‌ अस्‍मि। त्‍वं मम भ्रातॄणां समीपं गत्‍वा तान्‌ वद, यत्‌ अहं मम पिता, यः युष्‍माकम्‌ चापि पिता वर्तते, मदीय ईश्‍वरः, यः युष्‍माकमपि ईश्‍वरः विद्‌यते, तस्‍य समीपं गन्‍तुम्‌ उत्‍सुकः अस्‍मि।” 18मेरीमगदलेनी शिष्‍यान्‌ इदमब्रवीत्‌, मया प्रभुः दृष्‍टः, तथा सः सर्वमेतत्‌ मां युष्‍मदर्थम्‌ जगाद।
प्रेरितेभ्‍यः दर्शनम्‌
(मत्ती 28:16-20; मर 16:14-18; लूका 24:36-49)
19तस्‍मिनेव दिने, अर्थात्‌ सप्‍ताहस्‍य प्रथम दिवसे यदा शिष्‍याः यहूदीधर्मगुरुणां भयात्‌ द्‌वारं पिधाय संस्‍थिताः, येशुः तेषां मध्‍ये आगत्‍वा स्‍थितवान्‌। सः शिष्‍यान्‌ उवाच, “युष्‍मभ्‍यम्‌ शान्‍तिलाभः स्‍यात्‌।” 20अस्‍य पश्‍चात्‌ स्‍वपार्श्‍वम्‌ तथा हस्‍तमदर्शयत्‌। प्रभुम्‌ दृष्‍ट्‌वा शिष्‍याः हर्षिताः बभूवुः। 21येशुः पुनः तान्‌ जगाद, “युष्‍मभ्‍यम्‌ शान्‍तिलाभः स्‍यात्‌! यथाऽहं पित्रा प्रेषितः तथा अहं युष्‍मान्‌ प्रेषयामि।” 22इत्‍युक्‍त्‍वा तेषु फुत्‍कृत्‍य तान्‌ इदं प्रोक्‍तवान्‌ - “यूयं पवित्रात्‍मानं गृह्‌णीत ! 23येषां पापानि क्षंस्‍यध्‍वे ते अपापिनः भविष्‍यन्‍ति। तथा येषां पापानि न क्षंस्‍यध्‍वे, ते स्‍वेषां पापानां बन्‍धने सर्वदैव स्‍थास्‍यन्‍ति।”
थोमसाय दर्शनम्‌
24यदा येशुः तेषां मध्‍ये आगच्‍छत्‌, तदा द्वादशानामेकः, थोमसः यः दिदिमुसः अकथ्‍यत - तत्रोपस्‍थितः नासीत्‌। 25अन्‍ये शिष्‍याः तमूचुः यद्‌ वयं प्रभुम्‌ दृष्‍टवन्‍तः। सः तान्‌ अब्रवीत्‌ - “यावदहं येशोः करे लौहकीलाड्‌.कं न पश्‍यामि, तथा कीलानाम्‌ स्‍थाने स्‍वीयां अंगुलिम्‌ न निदधामि, तस्‍य पार्श्‍वे स्‍वं करं च नार्पयामि, तावत्‌ मां विश्‍वासः न भविष्‍यति।”
26ततः दिनानाम्‌ अष्‍टानां पश्‍चात्‌ तस्‍य शिष्‍याः पुनः गृहस्‍य अभ्‍यन्‍तरे आसन्‌, थोमसश्‍च अपि तैः सह आसीत्‌। द्वारं पिधमासीत्‌, तथापि येशुः तेषां मध्‍ये आगत्‍य स्‍थितोऽभवत्‌, अब्रवीत्‌ च - “युष्‍मभ्‍यम्‌ शान्‍तिलाभः स्‍यात्‌।” 27तदा सः थोमसमब्रवीत्‌ - “निजाड्‌.गुलिम्‌ अत्र निधेहि। पश्‍य इमे मदीयौ करौ। स्‍वीयं करम्‌ अग्रे कृत्‍वा मम पार्श्‍वे निधेहि। अविश्‍वासी मा, परन्‍तु विश्‍वासी भव।” 28थोमसः प्रत्‍युतरत्‌, “मम प्रभो! मम परमेश्‍वर!” 29येशुः तं जगाद ”त्‍वया अहं दृष्‍टः, अतः विश्‍वासं करोसि, किन्‍तु ते धन्‍याः सन्‍ति ये मामदृष्‍ट्‌वा अपि विश्‍वासं कुर्वते।”
शुभसमाचारस्‍य लेखनस्‍य प्रयोजनम्‌
30येशुः स्‍वकीयशिष्‍याणां समक्षं अनेकानि चमत्‍कारपूर्णकार्याणि चक्रे, परन्‍तु तेषां विवरणम्‌ अस्‍य पुस्‍तके न दत्तमस्‍ति। 31एतेषाम्‌ एव विवरणम्‌ दत्तमस्‍ति, यैः युष्‍माकं विश्‍वासः भवेत्‌ यत्‌ “येशुरेव मसीहः, प्रभुपुत्रः अस्‍ति। विश्‍वसदि्‌भःश्‍च तस्‍य नाम्‍ना जीवनम्‌ आप्‍नुत।

Выделить

Поделиться

Копировать

None

Хотите, чтобы то, что вы выделили, сохранялось на всех ваших устройствах? Зарегистрируйтесь или авторизуйтесь