प्रेरिता 4
4
पतरसयोहनौ च धर्ममहासभायाः समक्षे
1पतरसः योहनश्च जनान् वदन्तौ एव आस्ताम्, तस्मिन् एव क्षणे एव याजकाः, मंदिरारक्षिणः नायकः, सदूकिनः च तयोः समीपे आगच्छन्। 2ते क्रुद्धा आसन्, यतः प्रेरितौ, जनतां शिक्षयतः स्म। येशोश्च उदाहरणं दत्वा मृतकानां पुनरुत्थानस्य प्रचारम् अकुरुताम्। 3सन्ध्या अभवत्, अतः ते तौ बन्धनं कृत्वा रात्रिपर्यन्तं कारागारे निक्षिप्तवन्तः। 4तथापि ये तयोः प्रवचनं शृण्वन्तः आसन्, तेषु बहवः विश्वासम् अकुर्वन्। पुरुषाणां संख्या अधुना पन्न्चः सहस्रः अभवत्।
5अन्यस्मिन् दिवसे येरुसलेम नगरे शासकानां, नेतॄणां, शास्त्रिणां धर्मवृद्धानां च सभा अभवत्। 6प्रधानमहापुरोहितः अन्नसः, कैफसः, योहनः सिकन्दरः च महायाजकवर्गस्य सर्वे सदस्याः तत्र उपस्थिताः आसन्। 7ते पतरसयोहनौ मध्ये आनयित्वा अपृच्छन् - “युवाम् केन सामर्थ्येन अथवा कस्य नाम्नि इदं कार्यम् अकुरुताम्?” 8पतरसः पवित्रात्मना परिपूर्णः भूत्वा तान् अवदत् - “जनतानां शासकाः, अग्रजाः, वृद्धाश्च! 9आवाभ्यां एकः खन्न्जः उपकृतः च, अद्यः भवन्तः आवाम् पृच्छन्ति, यत् सः खन्न्जः कथं स्वस्थोऽभवत्। 10भवन्तः इस्राएलस्य समस्ताः प्रजाः च जानीयुः यत् नासरतनिवासिनः येशोः मसीहस्य नाम्नः सामर्थ्येण एव अयं जनः नीरोगः भूत्वा भवतां समक्षे स्थितः अस्ति। भवद्भिः सः येशुः क्रूसकाष्ठे आरोहितः, किन्तु परमेश्वरेण सः मृतकानां पुनजीर्वितः कृतः अस्ति। 11अयं सः पाषाणः, यं भवन्तः, कर्मकाराः बहिः नीतवन्तः, सैव कोणस्य आधारस्य प्रस्तरः अभवत्। 12अन्यकेनापि जनेन मुक्तिः न मिलिष्यति, यतः समस्तसंसारे येशोः नाम्नः अतिरिक्तः मनुष्येभ्यः किम् अन्यत् नाम न प्रदत्तमस्ति, येन वयं मुक्तिम् आप्स्यामः।”
13पतरसयोहनयोः आत्मविश्वासं दृष्ट्वा तौ अशिक्षितौ मूर्खौ इति अवगत्य धर्ममहासभायाः सदस्याः विस्मिताः जाताः। ते जानीतवन्तः यत् तौ येशोः सहचरौ स्तः। 14परन्तु स्वस्थकृतं मनुष्यं ताभ्यां सह दृष्ट्वा प्रत्युत्तरं दातुं न अशक्नुवन्। 15ते पतरसयोहनौ सभायाः बहिः गन्तुम् आदिष्टवन्तः, इदं कथयन्तश्च परस्परं परामर्शं कृतवन्तः - 16“अस्माभिः ताभ्यां सह कीदृशः व्यवहारः भवितव्यः? येरुसलेमस्य समस्ताः निवासिनः ज्ञातवन्तः यत् ताभ्याम् अपूर्वः चमत्कारः कृतः अस्ति। वयं चमत्कारं स्वीकारं कर्तुम् वाध्याः स्मः। 17-18तथापि जनतासु अस्य अधिकप्रचारं वारयितुम्, अस्माभिः गंभीरं प्रबोधनं दातव्यं, यत् अद्यप्रभृति ईसामसीहस्य नाम्ना शिक्षा न भवेत्।” 19ते पतरसयोहनौ अशब्दायन्, आदिष्टवन्तः, तौ येशोः नाम गृहीत्वा जनताः सम्बोधयित्वा शिक्षां न दद्याताम्। तौ प्रत्युतरवतौ - “यूयं स्वयं निर्णयन्तु - किम् परमेश्वरस्य दृष्टौ इदम् उचितं भवेत् यत् आवाम् परमेश्वरस्य नहि, प्रत्युत भवतां वचनानि शृणुयाव? 20यत् आवाभ्यां यत् दृष्टं श्रुतं च तस्मिन् विषये न कथनमसंभवः।” 21इदं श्रुत्वा ते पेत्रुसयोहनौ पुनः भाययित्वा गन्तुम् अनुमतिम् अददुः। ते न जानन्ति स्म ताभ्यां कीदृशः दंडः भवितव्यः, यतः तस्याः घटनायाः कारणात् सर्वा जनता परमेश्वरस्य स्तुतिं करोति स्म। 22चमत्कारेण यस्मै स्वास्थ्यलाभः अभवत्, तस्य अवस्था चत्वारिंशतवर्षात् अधिका आसीत्।
निर्भीकतायै प्रार्थना
23कारागारात् बहिः आगमनस्य पश्चात् तौ स्वजनान् समीपे पुनः प्रत्यागच्छताम्। महापुरोहिताः धर्मवृद्धाश्च यत् कथितवन्तः तत् सर्वम् अश्रावयाताम्। 24तत् सर्वम् श्रुत्वा सर्वे एकस्वरेण परमेश्वरस्य वन्दनां कृतवन्तः - “हे प्रभो! भवता स्वर्गः पृथ्वी, समुद्रः अपि, तेषु निहिताः सर्वे सृष्टाः। हे स्वामिन्!
25त्वया पवित्रात्मना अस्माकं पूर्वजस्य स्व सेवकदाऊदस्य मुखेन कथितम् ः-
अन्यधर्मिनः जातयः किमर्थम् क्रोधिताः अभवन्;
राष्टै्रः किमर्थम् कपटप्रबन्धः कृतः?
26प्रभोः विरुद्धे तथा तस्य मसीहस्य विरुद्धे
पृथिव्याः नृपाः विद्रोहं कुर्वन्ति,
शासकगणाः परस्पराः मिलितवन्तः।
27यथार्थे हेरोदेसः अधिपतिः पोंतियुसः पिलातुसः च अन्यजातिभिः तथा इस्राएलस्य जनताभिः सह मिलित्वा अस्मिन् नगरे तव परमपावनसेवकस्य येशोः विरुद्धे यं भवान् अभिषिक्तवान्, तस्य विरोधे उपजापं कृतवन्तः। 28ते इत्थं तत् सर्वम् पूरितवन्तः, यत् भवता पूर्वमेव निर्धारितम्। 29हे प्रभो! तेषां तर्जनेषु ध्यानं ददातु, स्व सेवकेभ्यः इमां कृपां प्रददातु, यया ते निर्भीकतया भवतः वचनानि श्रावयन्तु। 30भवान् स्व हस्तं प्रसारयित्वा स्व परमपावनसेवकस्य येशोः नाम्नि स्वास्थ्यलाभान्, चिन्हानि, अद्भुतकार्याणि च प्रकटयतु।” 31तेषां प्रार्थनायाः पश्चात् तत् भवनं, यस्मिन् ते एकत्राः आसन्, अकम्पत। सर्वे पवित्रात्मना पूर्णाः भूत्वा निर्भीकतया परमेश्वरस्य वचनानि श्रावयन्ति स्म।
विश्वासिनाम् एकता
32विश्वासिनां समुदायः, एकप्राणः एकहृदयः च आसीत्। कश्चित् अपि स्व सम्पत्तिं व्यक्तिगतसम्पत्तिः न मन्यते स्म। यत् किन्न्चित् तेषां पार्श्वे आसीत्, तस्यां सर्वेषां स्वामित्वं आसीत्। 33शिष्याः अति सामर्थ्येण प्रभोः येशोः साक्षीं ददति स्म। जनतया ते बहुमन्यन्ते स्म।
34तेषु कोऽपि निर्धनः नासीत्। अस्य कारणम् आसीत्, यत् येषां पार्श्वे यानि क्षेत्राणि अथवा गृहाणि आसन्, ते तानि विक्रीय रुप्यकाणि 35शिष्येभ्यः ददति स्म। प्रति मनुष्याय आवश्यकतानुसारेण एव दीयते स्म।
36उदाहरणार्थम् यूसुफः नाम लेवीवंशस्य जन्म कुप्रुसद्वीपे अभवत्। शिष्याः तस्य उपनाम बरनबासः अर्थात् सान्त्वनापुत्रः अददुः। 37तस्य एकः भूप्रदेशः आसीत्। सः तं विक्रीय तस्य मूल्यं शिष्यानां चरणेषु अर्पितवान्।
Currently Selected:
प्रेरिता 4: SANSKBSI
Highlight
Share
Copy
![None](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapi.com%2F58%2Fhttps%3A%2F%2Fweb-assets.youversion.com%2Fapp-icons%2Fen.png&w=128&q=75)
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.