प्रेरिता 3
3
खन्न्जाय स्वास्थ्यलाभः
1पतरसयोहनौ दिवसस्य तृतीये पहरे प्रार्थनायै मन्दिरं गच्छन्तौ आस्ताम्। 2-3जनाः एकं मनुष्यम् आनयन्ति स्म, यः जन्मादेव खन्न्जः आसीत्। ते तं प्रतिदिनम् आनयित्वा मन्दिरस्य “सुन्दरं” नाम द्वारस्य समीपे स्थापयन्ति स्म। मन्दिरस्य अन्तः गच्छन्तः जनाः तस्मै किन्न्चित् ददति स्म। यदा सः तौ मन्दिरे अन्तर्गच्छन्तौ अपश्यत्, तदा सः भिक्षायै अयाचत्। 4द्वौ तस्मिन् उपरि दृष्टिपातं कृतवन्तौ। पतरसः अवदत्, “आवाम् पश्य” । 5सः किन्न्चित् प्राप्तये तौ अपश्यत्। 6किन्तु पतरसः अवदत् - “मम पार्श्वे न तु रजतं न सुवर्णमस्ति, यत्किन्न्चत् अस्ति, तत् तुभ्यं ददामि; येशोः मसीहस्य नाम्नि चल।” 7-8सः तस्य दक्षिणं हस्तं धृत्वा उत्थापयत्। तत् क्षणमेव खन्न्जस्य पादयोः घुटिकयोः च बलम् आगच्छत्। सः उत्प्लुत्य उत्तिष्ठत् चलितुम् आरब्धवान्। सः चलन् परमेश्वरस्य महिमागानं कुर्वन्, ताभ्यां सह मन्दिरम् आगतवान्। 9समस्तजनता तं चलन्तं परमेश्वरस्य स्तुतिं कुर्वन्तं च अपश्यत्। 10जनाः तं बोधयन्ति स्म यत् सः एव आसीत् यः मन्दिरस्य सुन्दरद्वारे उपविश्य भिक्षां याचते स्म। तं स्वस्थं दृष्ट्वा सर्वे आश्चर्याः चकिताः जाताः।
मन्दिरे पतरसस्य भाषणम्
11सः मनुष्यः पतरसयोहनभ्याम् सह आसीत्, अतः सर्वे तयोः समीपे धावन्तः आगच्छन्। 12पतरसः इदं दृष्टवा तान् अवदत्, “इस्राएलस्य भ्रातरः! भवन्तः इमं खन्न्जं प्रति किमर्थम् आश्चर्यम् कुर्वन्ति? भवन्तः अवगच्छन्ति यत् आवाम् स्व सामर्थ्येन अथवा सिद्धया इमं जनं चलितुं योग्यः कृतवन्तौ। 13अब्राहमस्य, इसहाकस्य, याकूबस्य परमेश्वरः, अस्माकं पूर्वजानां परमेश्वरः च, स्वसेवकं येशुं महिमान्वितः कृतवान्। भवन्तः तं पिलातुसाय समर्पितवन्तः। यदा पिलातुसः तं मुन्न्चाय निर्णीतवान्, तदा भवन्तः न स्वीकृतवन्तः। 14भवन्तः साधुम् धर्मात्मानं न, परन्तु बरअब्बाम् ऐच्छन्। 15जीवनस्य अधिपतिम् अध्नन्, किन्तु परमेश्वरः तस्मै मृतकेभ्यः पुनः जीवनदानं प्रायच्छत्। आवाम् अस्य साक्षिणौ स्व। 16येशोः नाम्नि विश्वासकारणात्, तस्य नाम एव, तस्मै जनाय, यं भवन्तः पश्यन्ति जानन्ति च, सामर्थ्यंम् अयच्छत्। तेन एव विश्वासेन अयं खन्न्जः भवतां समक्षे पूर्णरूपेण स्वस्थः जातः।
17“भ्रातरः! अहं जानामि यत् भवन्तः, भवतां शासकः अपि इदं न जानन्ति स्म यत् ते किं कुर्वन्तः आसन्। 18परमेश्वरेण इत्थं स्व तत् कथनं पूरितं, यस्यानुसारेण तस्य मसीहं मरणमासीत्, यं सः सर्वनबिनाम् मुखैः पूर्वमेव घोषितवान् आसीत्। 19भवन्तः सर्वे प्रायश्चित्तं कुर्युः परमेश्वरं प्रति प्रत्यागच्छेयुः च। येन भवतां दोषाः समाप्तं भविष्यन्ति। 20प्रभुः भवद्भ्यः विश्रान्तेः समयं प्रदातु च। तदा सः पूर्वनिर्धारितं मसीहं अर्थात् येशुं भवतां समीपे प्रेषयिष्यति। 21अयम् आवश्यकम् अस्ति, यत् तस्य विश्वव्यापिनः पुनरुद्धारस्य समयं यावत् नाके तिष्ठेत्, यस्य विषये परमेश्वरः प्राचीनकालात् स्व पवित्रनबिनां मुखैः अवदत्। 22मूसाः तु अवदत् - तव “प्रभुः परमेश्वरः तव भ्रातृषु, युष्मभ्यं मम इव एकं भविष्यवक्तारम् उत्पन्नं करिष्यति। सः यत् किन्न्चित् वदिष्यति, ध्यानेन शृणुत। 23-24यः तस्य भविष्यवक्तुः वाणीं न श्रोष्यति, सः परमेश्वरस्य प्रजाभिः नष्टः कारिष्यते। नबी समूएलः सर्वे परवर्तिनः भविष्यवक्तारश्चः एतेषां दिनानां भविष्यवाणीं कृतवन्तः सन्ति।
25“भवन्तः भविष्यवक्तानाम् सन्तत्यः, तस्य विधानस्य च अंशभागिनः सन्ति, या परमेश्वरेण भवतां पूर्वजैः सह तदानीं एव निर्धारिता आसीत्, यदा तेन इब्राहीमः कथितः - तव वंशेन पृथिव्याः समस्ताः जात्यः आशिषम् आप्स्यन्ति। 26परमेश्वरः सर्वप्रथमं भवद्भ्यः स्व सेवकं येशुं पुनर्जीवितवान्, भवतां समीपे प्रेषितवान् च। येन सः प्रत्येकं पापात् विमुखीकृत्य आशिषं प्रदास्यति।”
Currently Selected:
प्रेरिता 3: SANSKBSI
Highlight
Share
Copy
![None](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapi.com%2F58%2Fhttps%3A%2F%2Fweb-assets.youversion.com%2Fapp-icons%2Fen.png&w=128&q=75)
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.