मत्ति 5

5
अधित्‍यकायाः-उपदेशाः
(लूका 6:20-23)
1येशुः जनानां महान्‍तं निवहम्‌ अवलोक्‍य, एकं गिरिं समारुह्‌य तत्र एव आसनम्‌ अश्रयत्‌। तत्र आसीनं तम्‌ दृष्‍ट्‌वा तस्‍य शिष्‍याः तत्र आगतवन्‍तः। 2ततः सः एभिः शब्‍दैः तान्‌ उपदेष्‍टम्‌ आरब्‍धवान्‌ -
धन्‍यवचनानि -
3धन्‍यास्‍तु ते, ये खलु दीनभावं;
हीनत्‍वभावं च हृदि श्रयन्‍ते स्‍वर्गराज्‍यं तेभ्‍यः एव वर्तते।
4धन्‍यास्‍तु ते, ये नम्राः सन्‍ति, तैः प्रतिज्ञातदेशः अपस्‍यते।
5धन्‍याश्‍च ते, ये खलु शोकमग्‍नाः, तेभ्‍यः सान्‍त्‍वना लप्‍स्‍यते।
6धन्‍याश्‍च ते, ये धार्मिकतायाः बुभुक्षवः तथा पिपासवः सन्‍ति,
ते तृप्‍तिं प्राप्‍स्‍यन्‍ति।
7धन्‍याः ते, ये दययान्‍विताः, ते दयायाः अधिकारिणः भविष्‍यन्‍ति।
8धन्‍याश्‍च ते, येषां हृदयं निर्मलम्‌ अस्‍ति
ते परमेश्‍वरस्‍य दर्शनं करिष्‍यन्‍ति।
9धन्‍याः ते, ये खलु विघटितान्‌ सन्‍धिना योजयन्‍ति,
ते ईशपुत्राः कथयिष्‍यन्‍ते।
10धन्‍यास्‍ते, ये धार्मिकतायाः कारणात्‌ अत्‍याचारं सहन्‍ते,
स्‍वर्गराज्‍यं तेभ्‍यः एव अस्‍ति।
11यूयं सर्वे धन्‍याः स्‍थ, यदा जनाः मत्‌ कारणात्‌ युष्‍मान्‌ निन्‍दन्‍ति,
“यूयं प्रति अत्‍याचारान्‌ च कुर्वन्‍ति। युष्‍मान्‌ मिथ्‍याप्रकल्‍पितैः विविधदोषैः अभिक्षिण्‍वन्‍ति। 12आनन्‍देन सह यूयं सर्वदा तिष्‍ठत, यतः स्‍वर्गे ध्रुवम्‌ प्रभूतं पुरस्‍कारं प्राप्‍स्‍यथ। युष्‍मत्‌ प्राक्‌वर्तिनः सर्वे नबिनः अपि एवमेव एभिः प्रपीडिताः।
पृथिव्‍याः लवणम्‌
(मर 9:50; लूका 14:34-35)
13“यूयं पृथिव्‍याः लवणं स्‍थ, यदि तद्‌ विस्‍वादं भवेत्‌, तर्हि तत्‌ केन विधिना स्‍वादयुक्‍तं विधास्‍यते। तत्‌ कस्‍मिंश्‍चित्‌ कर्मणि न उपयुज्‍यते। तत्‌ तु बहिः निक्षिप्‍यते, जनैः पादैरास्‍कन्‍द्‌यते।
संसारस्‍य ज्‍योतिः
14“यूयं जगतः ज्‍योतिः स्‍थ, पर्वतस्‍य उपरि संस्‍थितम्‌ नगरं प्रच्‍छन्‍नं तिष्‍ठेत्‌ एतत्‌ न सम्‍भविष्‍यति। 15दीपयित्‍वा दीपः द्रोणस्‍य अधः न निधीयते, अपितु दीपस्‍य आधारस्‍य उपरि स्‍थाप्‍यते, येन सः तत्रस्‍थ एव सर्वेषां प्रकाशाय उपजायते। 16तथैव युष्‍माकं ज्‍योतिः सर्वसन्‍निधौ राजताम्‌, येन युष्‍माकं सत्‍क्रियाः दृष्‍ट्‌वा सर्वे युष्‍माकं स्‍वर्गस्‍थं पितरं स्‍तुवन्‍तु।
व्‍यवस्‍थायाः पालनम्‌
17“इति न बुधध्‍वम्‌ यत्‌ अहं नबिनां वचांसि, संहितास्‍थितान्‌ लेखान्‌ च नाशयितुं समायातो अस्‍मि। तेषां विनाशाय न अहं प्रत्‍युत आपूर्तये खलु आगतः अस्‍मि। 18अहं युष्‍मान्‌ सर्वान्‌ सत्‍यं वचनं ब्रवीमि - द्यावापृथ्‍व्‍यौ स्‍वकीयस्‍थानतः विचलितौ भविष्‍यतः, परम्‌ व्‍यवस्‍थायाः न एका मात्रा विन्‍दुः वा विचलिष्‍यति। 19किन्‍तु यत्‌ लिखितं तत्र सर्वम्‌ एव सेत्‍स्‍यति अतः तदीया क्षोदिष्‍ठा अपि आज्ञा न एव अवधीर्यते। यः तस्‍य आज्ञां न मन्‍यते, अपरान्‌ अपि एवं कर्तुं शिक्षयति, सः स्‍वर्गे राज्‍ये क्षोदिष्‍ठः ज्ञास्‍यते। यस्‍तु तस्‍याः आज्ञानां परिपालनम्‌ कुरुते, तथा तथैव आचरितुम्‌ अपरान्‌ शिक्षयति सः एव जनः स्‍वर्गराज्‍ये पूतात्‍मा महीयते। 20अतः युष्‍मान्‌ ब्रवीमि सत्‍यं, यदि युष्‍माकं धार्मिकता शान्‍त्रिणां फरीसिनाम्‌ च धार्मिकतायाः गंभीरा न भविष्‍यति, तदा स्‍वर्गराज्‍ये युष्‍माकं प्रवेशः कठिनः भविष्‍यति।
क्रोधः हत्‍या च
21“युष्‍माभिः श्रुतम्‌, पूर्वजैः इदं कथितम्‌ - “जीवहत्‍या न कर्तव्‍या।” कश्‍चित्‌ चेत्‌ हत्‍यां करोति, तदा व्‍यवहारमंडपे अवश्‍यं दण्‍डनीयः भविष्‍यति। 22परन्‍तु युष्‍मान्‌ अहं वदामि यश्‍च कश्‍चिदकारणम्‌ कोपं करोति, असौ धर्माधिकरणे दण्‍डनीयः भविष्‍यति। यश्‍च स्‍व भ्रातरं स्‍वसारं वा कश्‍चित्‌ अकारणं स्‍वभ्रात्रे “मूर्खः त्‍वम्‌ असि” इत्‍थं प्रभाषते, सः अवश्‍यं महासभायां दण्‍डनीयः भविष्‍यति। यश्‍च स्‍वकं भ्रातरं स्‍वसारम्‌ वा - “त्‍वं नास्‍तिकः असि” इति वदति, असौ तु नरकस्‍य अग्‍नौ पातनीयो भविष्‍यति।
भ्रातरं प्रति प्रेम
(लूका 12:58-59)
23“यदि त्‍वं वेद्यां पूजायाः उपहारं समर्पयन्‌ असि, तस्‍मिन्‌ एव क्षणे एतां वार्ताम्‌ स्‍मरसि यदि त्‍वद्‌भ्रातृमानसे त्‍वदि्‌वरुद्धा काचित्‌ कथा अस्‍ति, 24तर्हि तं पूजायाः उपहारं तत्र एव वेदिसम्‍मुखे त्‍यक्‍त्‍वा, प्रथमं त्‍वं गच्‍छ, भात्रा सस्‍नेहं मिलितः भव। ततः परम्‌ आगत्‍य स्‍व उपहारम्‌ अर्पय। 25कुत्रचित्‌ एवं न भवेत्‌, स न्‍यायकर्तुः हस्‍ते त्‍वाम्‌ अर्पयिष्‍यति। पदातिकस्‍य हस्‍ते त्‍वां न्‍यायाधीशः अर्पयिष्‍यति। पदातिकेन त्‍वं कारागारे क्षिप्‍तः भविष्‍यसि। 26अतः मया त्‍वम्‌ उक्‍तः - “यावत्‌ त्‍वया न शेषाऽपि ताम्रमुद्रा त्रणशोधनं क्रियते, तावत्‌ कारागारात्‌ त्‍वं निर्गन्‍तुं न शक्ष्‍यसि।
दुराचारः
27“युष्‍माभिः श्रुतम्‌, इदम्‌ कथितम्‌ अस्‍ति - “व्‍यभिचारः न कर्तव्‍यः।” 28परन्‍तु अहं युष्‍मान्‌ ब्रवीमि - यः कश्‍चित्‍परयोषितं प्रति वासनाभावेन दृष्‍टिपातं कुरुते, सः मनसि तया सह व्‍यभिचारं चकार।
29“यदि तव दक्षिणं नेत्रं पापहेतुः मवेत्‌, तर्हि तत्‌ नेत्रं उद्‌धृत्‍य शीघ्रं निक्षिप। वरं त्‍वदीयेषु अंगेषु एकं नष्‍टं भवेत्‌। न तु तव कृत्‍स्‍नस्‍य देहस्‍य नरके निपातनम्‌ स्‍यात्‌। 30यदि तव दक्षिणः हस्‍तः पापस्‍य हेतुः भवेत्‌, तर्हि त्‍वं तं करं सत्‍वरम्‌ छित्‍वा दूरं निक्षिप। वरं त्‍वदीयेषु अंगेषु एकं नष्‍टं भवेत्‌। न तु कृत्‍स्‍नस्‍य देहस्‍य नरके निपातनम्‌ स्‍यात्‌।
वैवाहिकं बन्‍धनम्‌
(मर 10:11-12; लूका 16:18)
31“इदम्‌ अपि कथितम्‌ - यः निजां भार्याम्‌ त्‍यजेद्‌, सः तस्‍यै त्‍यागपत्रं ददातु। 32किन्‍तु युष्‍मान्‌ अहं ब्रवीमि- यः कश्‍चिद्‌ व्‍यभिचारतः अन्‍येन कारणेन स्‍वां पत्‍नीं त्‍यजति, असौ व्‍यभिचारं कुरुते। यः त्‍यक्‍तां च योषितम्‌ उद्‌वहते, सः अपि व्‍यभिचारं करोति।
सौगंधः सत्‍यता च
33“युष्‍माभिः इदम्‌ अपि श्रुतम्‌ यत्‌ पूर्वजान्‌ इदं कथितम्‌ - मिथ्‍याशपथं मा कार्षीः, प्रभुसम्‍मुखं यः शपथः कृतः, युष्‍माभिः सः तु अवश्‍यं परिपूर्यताम्‌।” 34-36अहं तु वच्‍मि कदाचन शपथं मा विद्यत न तु स्‍वर्गस्‍य, यतः सः परमेश्‍वरस्‍य सिंहासनम्‌ अस्‍ति, न भुवः, यतः सा तस्‍य पादपीठमस्‍ति; न येरुसलेमस्‍य, यतः सः राजाधिराजस्‍य नगरम्‌ अस्‍ति, न स्‍वशिरसः, यतः यूयं शिरोरुहम्‌ एकं चापि सितीकर्तुम्‌ असितीअकर्तुम्‌ वा न कथंचित्‌ समर्थाः स्‍थ। 37तस्‍माद्‌ वः कथने यत्‌ तथा तत्‌ तथैव स्‍याद्‌ यत्‌ न, तत्‌ न एव भवेत्‌। यद्‌ एतत्‌ अधिकं, तत्‌ पापात्‌ उत्‍पन्‍नम्‌ अस्‍ति।
प्रतीकारः न कर्तव्‍यः
(लूका 6:20-30)
38“युष्‍माभिः श्रुतम्‌-कथितम्‌ आसीत्‌-चक्षुर्विनिमये चक्षुः, दन्‍तः दन्‍तविनिमये। 39अहं तु वच्‍मि-दुष्‍टस्‍य साम्‍मुख्‍यं न कुरुत। कश्‍चित्‌ चेत्‌ तव दक्षिणं कपोलं हन्‍ति, तदा तस्‍मै अपरं कपोलम्‌ अपि सत्‍वरम्‌ देहि। 40यः न्‍यायालये त्‍वां नीत्‍वा तव अंगस्‍य आच्‍छादकवस्‍त्रम्‌ ग्रहीतुम्‌ इच्‍छति, तदा तस्‍मै प्रावारकम्‌ अपि देहि। 41कश्‍चित्‌ चेत्‌ त्‍वां, विना वेतनमेव एकं क्रोशं नयते, तदा तेन सह क्रोशद्वयं व्रज। 42यः त्‍वां याचते किंचित्‌, तस्‍मै तत्‌ समर्पय। यदि त्‍वत्तः कश्‍चिद्‌ ऋणम्‌ अभीप्‍सति, तर्हि तं प्रति विमुखः मा भव।
शत्रुषु प्रेम
(लूका 6:20-30)
43“युष्‍माभिः श्रुतम्‌ यत्‌ कथितम्‌ आसीत्‌ - स्‍वप्रतिवेशिनम्‌ प्रति स्‍नेहं, स्‍व वैरिणं प्रति विद्वेषः। 44किन्‍तु अहं युष्‍मान्‌ ब्रवीमि - स्‍वशत्रुषु प्रेम कुरुत। ये युष्‍मासु अत्‍याचरन्‍ति, तेभ्‍यः तु प्रार्थनाम्‌ कुरुत। 45एतेन यूयं युष्‍माकं स्‍वर्गस्‍थस्‍य पितुः सुताः वर्तिष्‍यध्‍वे, यतोऽसौ दुर्जनेषु सुजनेषु च, स्‍वं सूर्यम्‌ उदाययति, तथा जलम्‌ वर्षयते। 46यदि यूयं तेषु एव प्रीतिं चेत्‌ कुरुध्‍वे ये युष्‍मासु प्रीतिं कुर्वन्‍ति, तर्हि किं पारितोषिकम्‌ लप्‍स्‍यध्‍वे। किं तथा ते न कुर्वन्‍ति ये शुल्‍कादायिनो जनाः। 47भ्रात्रृन्‌ एव नमस्‍कुरुथ विशिष्‍टं कर्म युष्‍माकं न अस्‍ति। तेऽपि किं तत्‌ न कुर्वन्‍ति ये यहूदिनः न सन्‍ति। 48अतो पूर्णाः भवत यथा स्‍वर्गस्‍थो युष्‍माकं पिता वर्तते।

Àwon tá yàn lọ́wọ́lọ́wọ́ báyìí:

मत्ति 5: SANSKBSI

Ìsàmì-sí

Pín

Daako

None

Ṣé o fẹ́ fi àwọn ohun pàtàkì pamọ́ sórí gbogbo àwọn ẹ̀rọ rẹ? Wọlé pẹ̀lú àkántì tuntun tàbí wọlé pẹ̀lú àkántì tí tẹ́lẹ̀

Àwọn fídíò fún मत्ति 5