प्रेरिता 21
21
येरुसलेमस्य यात्रा
1इफिसुसस्य धर्मवृद्धेभ्यः पृथकाः भूत्वा वयं कोसम् द्वीपम् आगतवन्तः। अन्यस्मिन् दिवसे वयं रोदुसद्वीपे आगतवन्तः, तत्रतः पतारां गतवन्तः, 2पतारानगरे अस्माभिः एकः पोतः प्राप्तः, यः फीनीकेप्रदेशं गन्तुकः आसीत्, अतः वयं तस्मिन् आरुह्य अगच्छाम। 3अस्माभिः कुप्रुसः द्वीपः अदृश्यत। परन्तु तं वामदिशि त्यक्त्वा सीरियां प्रति अग्रेसरिताः भूत्वा सोरनगरम् आगतवन्तः, यत्र पोतात् वस्तूनि अवतारणीयानि आसन्। 4वयं शिष्यान् प्राप्त्वा सप्तदिनानि यावत् तत्र आस्म। ते आत्मना प्रेरितभूत्वा अनुरोधं कुर्वन्ति स्म यत् पौलुसेन येरुसलेमः न गन्तव्यः, 5परन्तु समयपूर्णे सति वयं तेभ्यः पृथकाः भूत्वा गन्तुकामाः आस्म ते सर्वे स्व पत्नीभिः सन्तानैश्च सह नगरस्य बहिः यावत् अस्माभिः सह आगच्छन्। वयं समुद्रतटस्य क्षितितले जानुनी निधाय प्रार्थनां 6कृत्वा, तेषाम् आज्ञां नीत्वा जलयाने आरोहितवन्तः, ते स्वगृहाणि प्रत्यावर्तिताः।
7सोरात् प्तुलिमयिसनगरम् आगत्य अस्माकं समुद्रयात्रा समाप्ता। तत्र वयं भ्रातॄणाम् अभिवादनं कर्तुम् अगच्छाम, एकदिवसं तेषां समीपे अतिष्ठाम। 8तत्रतः चलित्वा वयं द्वितीये दिने कैसरियाम् आगच्छाम। वयं शुभसमाचारस्य प्रचारकस्य फिलिपस्य गृहम् आगत्य तस्य गृहे अतिष्ठाम। 9तस्य चतस्रः अविवाहिताः कन्याः आसन्, याभ्यः भविष्यवाण्याः वरदानं प्राप्तमासीत्। 10तत्र वसन्तः बहु दिनानि व्यतीतानि, तदा अगबुसः नाम नबी यहूदाप्रदेशात् आगच्छत्। 11सः अस्माकं पार्श्वे आगत्य पौलुसस्य कटिबन्धं गृहीत्वा, तेन हस्तपादान् बद्ध्वा अवदत्, “पवित्रात्मा कथयति - यस्य जनस्य कटिबन्धमिदमस्ति, यहूदिनः तं येरुसलेमनगरे एवमेव बद्ध्वा अयहूदिनां हस्ते समर्पयिष्यन्ति।” 12इदं श्रुत्वा अस्माभिः तत्रस्य निवासिभिः सह पौलुसः येरुसलेमं न गमनाय अनुरोधः कृतः। 13पौलुसेन कथितम्, “भवन्तः किं कुर्वन्ति? रोदित्वा मम मन त्रोटुं किं चेष्टन्ते? अहं प्रभोः येशोः मसीहस्य नामकारणात् येरुसलेमनगरे न केवलं बन्धने वरन् मर्तुम्अपि तत्परः अस्मि।” 14सः अस्माकं कथनं स्वीकर्तुम् प्रस्तुतः नासीत्, अतएव वयम् इदं उक्त्वा तुष्णीमाः अभवाम, “प्रभोः इच्छा पूर्णा भवेत्।”
येरुसलेमनगरे याकूबेन सह मेलनम्
15यदा अस्माकं तत्र अवस्थानस्य समयः पूर्णः अभवत्, तदा वयं येरुसलेमनगरं प्रति प्रस्थानम् अकुर्म। 16कैसरियायाः केचित् शिष्याः अस्माभिः सह आगत्य अस्मान् कुप्रुसस्य मनासोनस्य गृहं नीतवन्तः। मनासोनः आरंभस्य दिनानां शिष्यः आसीत्। वयं तस्य गृहे वासकाः आस्म।
17यदा वयं येरुसलेमनगरम् आगच्छाम, तदा भ्रातरः आनन्दिताः भूत्वा अस्माकं स्वागतं कृतवन्तः। 18द्वितीये दिवसे पौलुसः अस्माभिः सह याकूबस्य गृहम् अगच्छत्। तत्र सर्वे धर्मवृद्धाः एकत्राः आसन्। 19पौलुसः तेषाम् अभिवादनम् अकरोत्। अस्य पश्चात् तेन विस्तरेण कथितं यत् परमेश्वरः तस्य सेवाकार्यैः अयहूदिनां मध्ये किं किम् अकरोत्। 20ते इदं श्रुत्वा परमेश्वरस्य स्तुतिं कृतवन्तः, पौलुसम् अकथयन् च, “भ्रातः! भवान् पश्यति यत् सहस्रः यहूदिनः विश्वासिनः अभवन्, ते सर्वे व्यवस्थायाः प्रबलाः समर्थकाः अपि सन्ति। 21ते भवतः विषये श्रुतवन्तः सन्ति यत् भवान् अयहूदिनां मध्ये निवसन्तः यहूदिनः इमां शिक्षां ददाति यत् तैः मूसाः त्यक्तव्यः, यतः भवतः शिक्षायाः अनुसारेण कस्य अपि लिंगाग्रचर्मछेदनं न भवितव्यम्, न प्राचीनप्रथाः पालनीयाः च। 22इदानीं किं कर्तव्यम्? ते अवश्यं श्रोष्यन्ति, यत् भवान् आगच्छत्। 23अतएव अस्मान् शृणुयात्, अत्र चत्वारः व्रतधारिणः। 24एभिः सह मन्दिरं गत्वा शुद्धीकरणस्य रस्मं पूरयित्वा एतेषां मुण्डनस्य शुल्कं ददीत। यदि भवान् एवं करिष्यति, ते सर्वे ज्ञास्यन्ति यत् ते भवतः विषये यत् अशृण्वन्, तत् सर्वम् मिथ्या अस्ति, भवान् व्यवस्थायाः पालनं करोति, तथा तस्याः अनुसारं व्यवहरति। 25विश्वासिनाम्, अयहूदिनां प्रश्ने, वयम् पत्रं लिखित्वा स्व निर्णयं पे्रषितवन्तः यत् ते देवेभ्यः अर्पितमांसरक्तेभ्यः, व्यापितपशुनां मांसेभ्यः, व्यभिचारात् च संयमं कुर्युः।
26द्वितीये दिवसे पौलुसः तान् जनान् नीतवान्। तैः सह शुद्धीकरणस्य रस्मं पूरयित्वा सः मन्दिरे अप्रविशत्, सूचितवान् च यत् कस्यां तिथ्यां शुद्धीकरणस्य अवधिः पूर्णा भविष्यति, तेषु प्रति सदस्याय बलिः अर्पिता भविष्यति।
मन्दिरे पौलुसस्य बन्धनम्
27सप्तदिनानाम् अवधिः पूर्णप्राया आसीत्। तस्मिन् एव क्षणे आसियायाः यहूदिनः पौलुसं मन्दिरे दृष्ट्वा जनान् उत्तेजितवन्तः, ते तं धृत्वा 28-29उच्चस्वरैः अवदन्, “इस्राएलिनः भ्रातरः! अस्माकं साहाय्यं कुरुत। अयं सः एव जनः अस्ति, यः सर्वत्र जनानां मध्ये “इदृशीशिक्षायाः प्रचारं करोति, या शिक्षा अस्माकं राष्ट्रस्य, व्यवस्थायाः, अस्य मन्दिरस्य च विरुद्धा अस्ति। न केवलम् एतावत्, एषः यूनानिनः मन्दिरम् आनीत्वा इदं पवित्रस्थानं भ्रष्टम् अकरोत्, ते त्रोफ़िमुसं पौलुसेन सह अपश्यन्। अतः अवगच्छन् च पौलुसेन सः मन्दिरे नीतः आसीत्।
30सम्पूर्णे नगरे कोलाहलः अभवत्, जनाः परितः धावन्तः एकत्राः अभवन्, ते पौलुसं गृहीत्वा मन्दिरात्, बहिः आनीतवन्तः। ते मन्दिरस्य द्वारं शीघ्रं पिहितवन्तः। 31ते पौलुसस्य हत्यां कर्तुम् इच्छन्तः एव आसन्, तत्क्षणमेव रोमनसैन्यदलस्य नायकः येरुसलेमनगरस्य उपद्रवस्य सूचनां प्राप्तवान्। 32सः शीघ्रमेव सैनिकैः शतपतिभिः सह समूहं प्रति अधावत्। जनाः सेनानायकं सैनिकैः सह दृष्ट्वा पौलुसस्य ताडनं विरामं ददुः। 33सेनानायकः समीपे आगत्य पौलुसं निरुद्धवान्। सः तं द्वाभ्याम् बन्धनाम्याम् बद्धुम् आदिष्टवान्। तेन पृष्टम्, “कोऽयम्? अनेन किं कृतम्।” 34समूहे केचित् क्वचित् वदति स्म तर्हि अपरे क्वचित्, कोलाहलात् निश्चितरूपेण किंन्न्चित् अपि न ज्ञातवान्, अतः पौलुसं सैन्यावासे नेतुम् आदिष्टवान्। 35पौलुसः सोपानं यावत् आगतः आसीत्, समूहस्य हिंसकवृतेः कारणात् सैनिकाः तम् उत्थाय नीतवन्तः। 36विशालः जनसमूहः ताडय! ताडय! इति कथयन् अनु आगच्छति स्म। 37यदा सैनिकाः पौलुसं सैन्यावासस्य अन्तः भागं नयन्तः आसन्, पौलुसेन सेनानायकः पृष्टः, “किं किन्न्चित् कथनस्य आज्ञा अस्ति?” सः उत्तरम् अददात्, “किं त्वं यूनानीभाषां जानासि? 38कि त्वं सः मिस्री नासि, यः किन्न्चतकालं पूर्वम् विद्रोहं कृत्वा चत्वारि सहस्राणि कृपाणधारिणः मरुभूमिं नीतवान् आसीत्?” 39पौलुसः अवदत्, “अहं यहूदी, किलिकियायाः तरसुसनगरस्य निवासी अस्मि। मम निवेदनमस्ति यत् भवान् मह्यम् समूहं संबोधयितुम् आदेशं दद्यात्। 40अनुमतिं प्राप्त्वा पौलुसः सोपानेषु स्थित्वा हस्तेन शान्ताः भवितुम् इंगितवान्। सर्वेषु शान्ते भविते सति, पौलुसः तान् इब्रानीभाषायां संबोधितवान्।
ที่ได้เลือกล่าสุด:
प्रेरिता 21: SANSKBSI
เน้นข้อความ
แบ่งปัน
คัดลอก

ต้องการเน้นข้อความที่บันทึกไว้ตลอดทั้งอุปกรณ์ของคุณหรือไม่? ลงทะเบียน หรือลงชื่อเข้าใช้
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.