प्रेरिता 20
20
मकिदूनियायां यूनाने त्रोआसे च पौलुसः
1उपद्रवस्य शान्त्याः पश्चात् पौलुसः शिष्येभ्यः, आहूय प्रोत्साहनम् अददात्। तान् अलविदां कथयित्वा मकिदूनियाम् अगच्छत्। 2तेन समस्तप्रान्तस्य भ्रमणं कृतम्। अनेकैः उपदेशैः विश्वासिनाम् उत्साहं वर्धयन् सः दक्षिणयूनानदेशम् आगच्छत्। 3तत्र त्रयमासानन्तरं सः जलमार्गेण सीरियां गन्तुम् इच्छति स्म, किन्तु तस्मिन् अवसरे सः ज्ञातवान् यत् केचित् यहूदिनः तस्य विरुद्धे कपटप्रबन्धे संलग्नाः आसन्। अतः मकिदूनियां पारयित्वा प्रत्यागन्तुं निश्चितवान्। 4पुर्रुसस्य पुत्रः सोपत्रुसः यः बिरीयायाः निवासी आसीत्, थिस्सलुनीकेनगरस्य अरिस्तखु्रर्सः तथा सेकुन्दसश्च; दिरबे इति नगरस्य गायुसः; तिमोथी तथा आसियाप्रदेशस्य तुखिकुसः त्रोफिमुसश्च ये सर्वे पौलुसेन सह एशियां गन्तारः आसन्। 5ते अस्मत् पूर्वम् अगच्छन्, त्रोआसे नौकाश्रये अस्माकं प्रतीक्षायाम् आसन्। 6यावदेव बेखमीररोटिकायाः त्योहारः समाप्तः, वयं फिलिप्पीनगरात् जलयात्राम् आरब्धवन्तः पन्न्चदिनानां पश्चात् त्रोआसे तेषां समीपे आगच्छाम, यत्र वयं सप्तदिनानि पर्यन्तम् आस्म।
त्रोआसे पौलुसस्य चमत्कारः
7वयं शनिवारस्य सन्ध्यायां रोटिकां त्रोटनाय एकत्राः अभवाम। पौलुसः यः अन्यस्मिन् दिने गन्तुकामः आसीत्, शिष्यैः सह धर्मचर्चाम् कुर्वन् आसीत्। सः मध्यरात्रिपर्यन्तं भाषणशीलः अतिष्ठत्। 8वयं भवनस्य उपरि प्रकोष्ठे एकत्राः अभवाम, तत्र अनेकाः दीपाः ज्वलन्ति स्म। 9यूतुखुसः नाम युवकः वातायनस्य चतुष्के उपविष्टः आसीत्।
यदा पौलुसः चिरकालं यावत् प्रवचनं श्रावयति स्म, तदा सः सुप्तवान्। सः निद्रावेगे उच्चप्रासादस्य तृतीयात् प्रकोष्ठात् अधः अपतत्। सः उत्थापितः किन्तु मृतः आसीत्। 10पौलुसः अधः अवातरत् तस्य उपरि शयित्वा तस्य आलिंगनं कृत्वा अवदत् - “भवद्भिः चिन्ता न कार्या। सः इदानीमपि जीवितः अस्ति।” 11पौलुसः पुनः उपरि गत्वा रोटिकां त्रोटयित्वा अरवादत्। तदनन्तरं सः चिरं यावत्, वार्तालापं करोति स्म, तत्पश्चात् अगच्छत्। 12ते तं नवयुवकं जीवितः एव आनीतवन्तः। अनया घटनया तैः सान्त्वना प्राप्ता।
मिलेतुसस्य यात्रा
13वयं पूर्वमेव जलयानेन अस्सुसम् अगच्छाम। तत्र पौलुसमपि आरोहणं कर्तुम् आसीत्। 14पौलुसः अस्सुसे अस्मान् मिलितवान्, वयं च तं जलयाने आरोह्य मितुलेनेद्वीपम् अगच्छाम। 15तत्रतः वयं नावा अचलाम, द्वितीये च दिवसे रिवयुसद्वीपस्य पुरतः आगच्छाम। अन्यस्मिन् दिवसे समुद्रं लंघयित्वा समोसद्वीपं, तस्य अन्यस्मिन् दिवसे मिलेतुसनौकाश्रयम् आगच्छाम, 16यतः पौलुसेन इफिसुसस्य पुरतः भूत्वा अग्रेगन्तुं निश्चयः कृतः आसीत्, येन आसियाप्रदेशे समयः अतिवाहितः न भवेत्। अतएव सः शीघ्रतायाम् आसीत्, यदि केनापि प्रकारेण सम्भाव्यते, तर्हि सः पेंतेकोस्तस्योत्सवात् पूर्वमेव येरुसलेमम् आपयेत्।
इफिसुसस्य धर्मवृद्धेभ्यः विसर्जनम्
17पौलुसः मिलेतुसात् इफिसुसस्य कलीसियायाः धर्मवृद्धान् आहूतवान्। 18तेषु आगतेषु सत्सु तान् अवदत्, “भवन्तः जानन्ति यत् यदा अहं सर्वप्रथमम् आसियाम् आगच्छम्, तस्मात् दिनात् एव मम आचरणं भवतां मध्ये कीदृशम् आसीत्। यहूदिनां षडयन्त्रैः मयि अनेकाः संकटाः अपतन्, वरन् 19अहं रुदित्वा अति विनम्रतया प्रभोः असेवे। 20यानि वचनानि भवद्भ्यः लाभप्रदानि आसन्, तानि वक्तुं मया संकोचः न कृतः, वरन् अहं सर्वेषां समक्षे प्रतिगृहं गत्वा तेषां संबंधे शिक्षां ददे। 21मया यहूदिनः यूनानिनः च अनुरोधः कृतः यत् ते अस्माकं प्रभोः येशोः मसीहे विश्वासं कृत्वा परमेश्वरस्य समीपे पुनः आगच्छन्तु।
22“इदानीम् अहं आत्मनः प्रेरणया विवशो भूत्वा येरुसलेमम् आगच्छामि। तत्र मां किं भविष्यति, अहं न जानामि, 23वरन् पवित्रात्मा प्रति नगरे मां कथयति-यत्र-तत्र बंधनानि कष्टाश्च मम प्रतीक्षां कुर्वन्तः सन्ति। 24अहं तु केवलं परमेश्वरस्य कृपायाः शुभसमाचारं श्रावणस्य तत् कार्यम् समाप्तं कर्तुम् इच्छामि, यत् प्रभुः येशुः महयम् अयच्छत्।
25अहं भवतां मध्ये राज्यस्य संदेशम् अश्रावयम्। इदानीम् अहं जानामि यत् भवत्सु कोऽपि मां पुनः न द्रक्ष्यति। 26अतएव अहं अद्यः भवतः विश्वासं दापयामि, अहं भवतां दुर्भाग्यस्य उत्तरदायी नास्मि; 27यतः मया भवद्भ्यः परमेश्वरस्य विधानं पूर्णरूपेण स्पष्टं कृतम्।
28भवन्तः स्वकृते, स्वजनौघस्य कृते अवहिताः भवेयुः। पवित्रात्मा भवद्भ्यः, समूहस्य रक्षणस्य दायित्वम् अददात्। भवन्तः प्रभोः कलीसियायाः आदर्शाः मेषपालकाः भवेयुः, या तेन स्वपुत्रस्य स्वरक्तं दत्वा प्राप्ता। 29अहं जानामि मयि गते सति हिंस्राः जनाः भवतां मध्ये प्रवेक्ष्यन्ति, ये समूहस्योपरि न दयिष्यन्ते। 30भवतां मध्ये ईदृशाः जनाः भविष्यन्ति, ये शिष्यान् पथभ्रष्टाः कृत्वा स्व अनुयायिनः निर्मायितुं भ्रान्तिपूर्णवचनानां प्रचारं करिष्यन्ति। 31अतएव सदैव जागृताः भवेयुः। भवद्भिः स्मर्तव्यम् यत् मया त्रीणिवर्षाणि यावत् प्रति रात्रौ, दिने च भवत्सु प्रत्येकः अवहितः। 32इदानीम् अहं भवतः परमेश्वरस्य हस्ते तथैव तस्य अनुग्रहपूर्णवचनस्य संरक्षणे समर्पयामि, यः भवतां निर्माणं कर्तुम्, तथा पवित्रकृतैः भक्तैः सह भवदभ्यः विरासतं दापयितुं समर्थः अस्ति।
33“मया कदापि न कस्यचित् रजतः, सुवर्णम्, वस्त्रं वा न इष्टम्। 34-35भवन्तः जानन्ति यत् मया स्व, स्वमित्राणां च आवश्यकतां पूर्णयितुम् आभ्यां हस्ताभ्यां कार्यम् कृतम्। मया दर्शितम् यत् ईदृशं परिश्रमं कुर्वन् दुर्बलानां सहायता कर्तव्या, प्रभोः वचनं स्मर्तव्यम् यत् ग्रहणात्, दानं सुखतरम्।
36एतावत् उक्त्वा पौलुसः क्षितितले जानुनी निधाय, तैः सह अप्रार्थयत्। 37सर्वे भृशं रुदितवन्तः। पौलुसः तान् अकथयत्, यत् ते पुनः तं न द्रक्ष्यन्ति, 38अनेन वचनेन तेभ्यः सर्वाधिकः दुःखम् अभवत्। अस्य पश्चात् तं जलयानं यावत् मुन्न्चयितुम् आगतवन्तः।
ที่ได้เลือกล่าสุด:
प्रेरिता 20: SANSKBSI
เน้นข้อความ
แบ่งปัน
คัดลอก

ต้องการเน้นข้อความที่บันทึกไว้ตลอดทั้งอุปกรณ์ของคุณหรือไม่? ลงทะเบียน หรือลงชื่อเข้าใช้
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.