प्रेरिता 13
13
1अन्ताकियायाः कलीसियायाम् अनेकाः भविष्यवादिनः शिक्षकाश्च आसन्, यथा बरनबासः, सिमोनः यः “कलुआ” कथ्यते स्म, कुरेनेनिवासी लूकियुसः, हेरोदेसस्य दुग्धः भ्राता मनाहेनः साऊलश्च। 2ते सर्वे एकस्मिन् दिने उपवासं कुर्वन्तः प्रभोः उपासनां कुर्वन्तः आसन्, तत् क्षणमेव पवित्रात्मा अवदत्, “मया बरनबासः साऊलः च विशेषकार्याय निर्दिष्टौ। तौ मह्यं पृथकं कुर्वन्तु। 3अतएव उपवासं प्रार्थनां च समाप्य ते तयोः हस्तौ स्थापयन्तः तौ गन्तुम् अनुमतिम् अददुः।
कुप्रुसस्य ऐन्द्रजालिकः एलिमासः
4पवित्रात्मना प्रेषितौ बरनबासः साऊलः च सिलूकियाम् आगतवन्तौ, तत्रतः तौ नावा कुप्रुसम् आगतवन्तौ। 5सलमिसम् आगत्य ते यहूदिनां सभागृहेषु परमेश्वरस्य वचनं प्रचारितवन्तः। योहनः अपि ताभ्याम् सह स्थित्वा तयोः साहाय्यं करोति स्म। 6ते समस्तद्वीपस्य भ्रमणं कृत्वा पाफोसम् आगतवन्तः। तत्र बरयेशुः नाम एकः यहूदी ऐंद्रजालिकः कपटी भविष्यवादी च आसीत्, 7यः राज्यपालसेरगियुसेन पौलुसेन सह वसति स्म। राज्यपालः बुद्धिमान् आसीत्। अतएव बरनबाससाऊलौ आहूय परमेश्वरस्य वचनं श्रोतुम् इच्छति स्म। 8बरयेशुः यस्य उपनाम एलिमासः (यस्य अर्थः ऐन्द्रजालिकः भवति) आसीत्, तयोः विरोधं करोति स्म, राज्यपालं विश्वासात् विमुखं करोति स्म। 9परन्तु साऊलः यः पौलुसः अपि कथ्यते स्म, पवित्रात्मना पूरिपूर्णः भूत्वा तम् अपश्यत्, 10अकथयत् च, “त्वं शैतानस्य वत्सः, धूर्ततया कपटेन च पूर्णः, सर्वप्रकारस्य धार्मिकतायाः शत्रुः असि। किं त्वं प्रभोः सरलमार्गम् कुटिलं कर्तुम् इच्छसि?” 11इदानीं प्रभोः हस्तं त्वां मारयति। त्वम् अन्धः भूत्वा किन्न्चित् कालान्तरं यावत् दिनस्य प्रकाशं द्रष्टुं न शक्नोषि।” तत् क्षणमेव घोरः अन्धकारः अभवत्, सः खन्न्जवत् इतः ततः भ्रमति स्म। 12इमां घटनां दृष्ट्वा प्रभोः शिक्षया चकितः भूत्वा राज्यपालः विश्वासम् अकरोत्।
पिसिदियायां पौलुसस्य (साऊलस्य) आगमनम्
13पौलुसः तस्य मित्राणि च नावा पाफुसात् पंफुलियायाः प्रदेशस्य पेरगेनगरे आगतवन्तः। तत्र योहनः तान् त्यक्त्वा येरुसलेमं प्रत्यागच्छत्। 14पौलुसः बरनबासौ पेरगेस्थानात् अग्रिम गत्वा पिसिदियायाः प्रदेशस्य अंताकियाम् आगतवन्तौ। तौ विश्रामस्य दिवसे सभागृहे गत्वा उपविष्टौ। 15-16व्यवस्थायाः तथा नबिनां च पाठः सम्पाप्तः, तदा, सभागृहस्य अधिकारिणः तौ इमां सूचनां प्रेषितवन्तः, “भ्रातरौ! यदि भवन्तौ प्रवचनरूपे जनतायै वक्तुम् इच्छतः, तदा वदेताम्।” इदं श्रुत्वा पौलुसः उदतिष्ठत् हस्तेन च तान् तूष्णीं भवितुम् इंगित्य अकथयत्,
पौलुसस्य भाषणम्
17“इस्राएलिनः भ्रातरः परमेश्वरभक्ताः सज्जनाः च! शृण्वन्तु! इस्राएलिनां प्रजायाः परमेश्वरेण अस्माकं पूर्वजाः निर्वाचिताः, तेन ते मिश्रदेशे प्रवासस्य समये उत्कृष्टाः कृताः, स्वभुजबलेन तेन ते तत्रतः आनीताः च। 18चत्वारिंशत् वर्षाणि यावत् मरुस्थले तेषां पालनपोषणं कृतवान्। 19तदा कनानदेशे तेन सप्तराष्ट्राः नष्टाः, 20तेषां भूमिम् अस्माकं पूर्वजानाम् अधिकारे अददात्। परमेश्वरः प्रायः सार्धचतुशतं वर्षाणां पश्चात् तेषां कृते न्यायकर्तृर्णि नियुक्तकर्तुम् आरब्धवान्। नबी समूएलस्य समयं यावत् इदृशं कुर्वन् आसीत्। 21प्रजाः स्वकृते एकं नृपं याचितवन्तः, परमेश्वरः तेभ्यः बिन्यामिनवंशी कीशस्य पुत्रं साऊलं प्रददात्, यः चत्वारिंशतवर्षम् यावत् राज्यं कृतवान्। 22अस्य पश्चात् परमेश्वरेण दाऊदः तेषां राजा कृतः, तेषां कृते साक्ष्यमिदं प्रस्तुतवान् - “मम मनोऽनुकूलः एकः मनुष्यः यिशयस्य पुत्रः दाऊदः मिलितोऽस्ति। सः मम सर्वाः आशाः पूरयिष्यति। 23परमेश्वरः स्व प्रतिज्ञानुसारं तस्यैव दाऊदस्य वंशे इस्राएलस्य कृते एकं मुक्तिदातारं येशुं प्रसूतवान्।” 24तस्य आगमनात् पूर्वम् अग्रदूतः योहनः इस्राएलस्य समस्ताभ्यः प्रजाभ्यः पश्चात्तापस्य जलसंस्कारस्य उपदेशम् दत्तवान्। 25स्व जीवनस्य कार्यम् पूर्णम् कुर्वन् योहनः अवदत्, ‘यूयं मां यः अवगच्छथ अहं सः न अस्मि। किन्तु पश्य, मम पश्चात् यः आगमिष्यति, यस्य चरणयोः उपानहौ निष्कासयितुम् अपि अहं न अर्हः।’ 26-27भ्रातरः! अब्राहमस्य वंशजाः अत्र उपस्थिताः परमेश्वरस्य भक्ताः च! मुक्तेः अयं संदेशः अस्माकं पार्श्वे प्रेषितः अस्ति। येरुसलेमस्य निवासिनः तथा शासकाः येशुं न स्वीकुर्वन्ति स्म। तस्मै दंडाज्ञां दापयित्वा ते अनभिज्ञाः भूत्वा नबिनां तानि कथनानि पूरितवन्तः यानि प्रत्येके विश्रामदिवसे पठित्वा श्रावयन्ते। 28तस्मिन् प्राणदंडस्य सदृशः कोऽपि दोषः न प्राप्तः, तथापि ते तस्य वधाय राज्यपालं पिलातुसं तस्य वधाय निवेदितवन्तः। 29तस्य विषये यत् किन्न्चित् लिखितमासीत् तत् सर्वम् पूरयित्वा तं क्रूसकाष्ठात् अधः आनीय समाधौ स्थापितवन्तः। 30परमेश्वरः तं तृतीयदिने मृतकेषु पुनः जीवितः कृतवान्। 31सः एव येशुः बहूनि दिनानि यावत् तेभ्यः दर्शनं ददाति स्म, ये तेन सह गलीलप्रदेशात् येरुसलेमम् आगच्छन्। ते एव इदानीं जनतायाः समक्षे तस्य साक्षिणः सन्ति।
32“वयं युष्मभ्यम् इमं शुभसमाचारं श्रावयामः, यतः परमेश्वरः अस्माकं पूर्वजान् यां प्रतिज्ञां कृतवान् आसीत्, 33तां तेषां संतत्यै, अर्थात् अस्मभ्यं पूरितवान्। तेन येशुः पुनर्जीवितः कृतः, यथा द्वितीये स्तोत्रे लिखितमस्ति, अद्यः त्वं मया उत्पन्नः। 34परमेश्वरः तं मृतकेषु पुनजीर्वितः कृतवान्। अद्यप्रभृति पुनः कदापि तस्य विकृतिः न भविष्यति। अस्य कथनस्य प्रमाणे परमेश्वरः अवदत्, अहं तुभ्यम् पवित्राम् अटलां च आशिषम् दास्यामि, यस्याः प्रतिज्ञा मया दाऊदेन कृता आसीत्। 35अतएव सः एकस्मिन् स्थले कथयति, त्वं स्वभक्तं समाधौ विगलितुं न दास्यति। 36दाऊदः तु स्वजीवने परमेश्वरस्य इच्छां पूर्णं कृत्वा दिवंगतः। सः स्व पूर्वजां पार्श्वे समाधौ स्थापितः, तस्य विकृतिः अभवत्। 37परन्तु परमेश्वरेण यः पुनजीर्वितः कृतः तस्य विकृतिः न अभवत्।
38“भ्रातरः! भवन्तः सम्यकरूपेण अवगच्छन्तु यत् यः संदेशः युष्मभ्यं श्रावयते, सः अयमस्ति यत् येशुना युष्मभ्यं दोषाणां मुक्तिः प्राप्स्यते। यः तस्मिन् उपरि विश्वासं करोति, तस्मै सा पूर्णा पापमुक्तिः प्राप्स्यते, या भवद्भ्यः मूसाव्यवस्थया न प्राप्ता।” 39येशुना मुक्तः भूत्वा प्रत्येकः विश्वासी धार्मिकः भवति।
40“अप्रमत्ताः तिष्ठन्तु! कुत्रचित् ईदृशं न भवेत् यत् नबिनाम् इदं कथनं भवत्सु चरितार्थम् भवतु - 41“हे निन्दकाः! आश्चर्यम् कुर्वन्तु दूरं गच्छन्तु च। अहम् एषु दिनेषु तत् कार्यम् सम्पन्नं करिष्यामि, यस्मिन् विषये यदि कोऽपि युष्मान् अकथिष्यत्, यूयं तस्मिन् विश्वासं न अकरिष्यन्।”
42यदा पौलुसः बरनबासः च सभागृहात् निर्गन्छतौ आस्ताम्, तदा जनाः पौलुसं निवेदितवन्तः यत् आगामिनि विश्रामदिवसे तस्मिन् विषये एव पुनः वदेत्।
43सभायाः विसर्जनस्य पश्चात् बहवः यहूदिनः, भक्ताः नवयहूदिनश्च पौलुसबरनबासयोः अनुगच्छन्ति स्म। तौ, तैः सह वार्तालापम् अपि कृतवन्तौ, यहूदीजनान् आग्रहं कृतवन्तौ यत् ते परमेश्वरस्य कृपायां सुदृढ़ाः भवेयुः।
अयहूदीनां मध्ये धर्मप्रचारः
44आगामिनि विश्रामदिवसे नगरस्य प्रायः सर्वे जनाः प्रभोः वचनं श्रोतुं एकत्राः भूताः। 45यहूदिनः, वृहतसभां दृष्ट्वा ईर्ष्यया ज्वलन्ति स्म, पौलुसस्य निन्दां कुर्वन्तः तस्य कथनानां खण्डनं कुर्वन्ति स्म। 46पौलुसबरनबासौ निर्भीकतया अवदताम्, “इदम् आवश्यकमासीत् यत् सर्वप्रथमः भवदभ्यः परमेश्वरस्य वचनम् आवाम् श्रावयेव, परन्तु भवन्तः तम् अस्वीकुर्वन्ति, स्वम् अनन्तजीवनस्य अर्हाः न अवगच्छन्ति; अतएव आवाम्अयहूदिनां समीपे गच्छावः। प्रभुना आवाम्आदिष्टौ, 47“मया युवां राष्ट्राणां ज्योतिनिर्मितौ, येन युवाभ्यां मुक्तेः सन्देशः पृथिव्यां क्षेत्रफलं यावत् प्रसरेत्।”
48अयहूदिनः इदंश्रुत्वा आनन्दिताः भूताः परमेश्वरस्य वचनस्य स्तुतिं कृतवन्तः यावन्तः जनाः अनन्तजीवनाय निर्वाचिताः ते विश्वासम् अकुर्वन्, 49प्रभोः वचनं च समस्तप्रदेशे प्रसरितम्।
50परन्तु यहूदिनः प्रतिष्ठितभक्तान्, नारीः, नगरस्य नेतॄन् च तयोः विरोधे कृत्वा तौ स्वक्षेत्रफलात् बर्हिप्रेषितवन्तः। 51पौलुसबरनाबसौ स्व स्व पादौ र्निधूलीकृत्य इकोनियुमं गतवन्तौ। 52शिष्यौ आनन्देन पवित्रात्मना च परिपूर्णौ आस्ताम्।
Aktualisht i përzgjedhur:
प्रेरिता 13: SANSKBSI
Thekso
Ndaje
Copy

A doni që theksimet tuaja të jenë të ruajtura në të gjitha pajisjet që keni? Regjistrohu ose hyr
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.