मारकुस 9

9
येशोः रूपान्‍तरणम्‌
(मत्ती 17:1-8; लूका 9:28-36)
1-2षड्‌भ्‍यः दिनेभ्‍यः परं, येशुः याकूबं योहनं तथा पतरसं नीत्‍वा, एकं प्रोच्‍चं पर्वतम्‌ आरोहयामास। तत्र तेषां समक्षमेव येशोः रूपान्‍तरणम्‌ अभवत्‌। 3तस्‍य वासांसि सूर्यस्‍य इव उज्‍ज्‍वलानि च जातानि, तादृशानि विश्‍वस्‍य कोऽपि रजकः शुभ्राणि कर्तुम्‌ समर्थः न आसीत्‌। 4एलियाहः तथा मूसाः शिष्‍याणां दृष्‍टिम्‌ आगतौ। तौ तदा येशुना साकम्‌ सम्‍भाषणे रतौ। 5तस्‍मिन्‌ समये पतरसः येशुम्‌ अवदत्‌, “गुरो! अस्‍माकम्‌ अत्र अवस्‍थानम्‌ कियत्‌ शुभम्‌ वर्तते! अस्‍माभिः अत्र त्रयं पटवेश्‍मनाम्‌ स्‍थापनीयम्‌ - एकम्‌ भवते, एकम्‌ एलियाहाय अन्‍यं मूसार्थम्‌।” 6असौ न वेत्ति स्‍म तेन किं प्रोच्‍यताम्‌ इति। यतः ते सर्वे भयपीडिताः आसन्‌। 7तदा एकः मेघः सर्वान्‌ तान्‌ छायया अवृणोत्‌, तस्‍मात्‌ मेघात्‌ इयं वाणी श्रुतिम्‌ आगता, “अयं मम प्रियः पुत्रः अस्‍ति, अस्‍य शृणुत।” 8ततः शिष्‍याः स्‍वीयां समन्‍ततः दृष्‍टिं प्रैरयन्‌, तदा येशुं विहाय अन्‍यं कत्र्चित्‌ ते न व्‍यलोकयन्‌।
नबिनः एलियाहस्‍य विषये प्रश्‍नः
(मत्ती 17:9-11)
9पर्वतात्‌ अवरोहणसमये येशुः आदिष्‍टवान्‌, “यावत्‌ मानवपुत्रः मृतकानां मध्‍यतः न उत्तिष्‍ठति, तावत्‌ युष्‍माभिः यद्‌ विलोकितम्‌ तत्‌ सर्वम्‌ कस्‍मैचन न निवेद्‌यताम्‌।” 10ते येशोः इदं वाक्‍यं मनसि निदधुः। परन्‍तु ते मिथः येशोः वाक्‍यम्‌ व्‍यचारयन्‌ यत्‌ “मृतकानां मध्‍यात्‌ पुनरुत्‍थानम्‌ अस्‍य आशय किम्‌ अस्‍ति?”
11ते येशुम्‌ अपृच्‍छन्‌, “शास्‍त्रिणः एतत्‌ किं वदन्‍ति - एलियाहेन प्रथमम्‌ आगन्‍तव्‍यम्‌?” 12येशुः तान्‌ प्रत्‍युवाच, “अवश्‍यम्‌ एलियाहः समागत्‍य सुव्‍यवस्‍थां विधास्‍यति। पुनः मानवपुत्रस्‍य विषये कथम्‌ लिखितम्‌, तेन दुःखं सहिष्‍यते, तिरस्‍कृतः करिष्‍यते च? 13अहं त्‍वां ब्रवीमि, “एलियाहः समागतः। तस्‍य विषये यथा लिखितमस्‍ति ते तेन सह तथैव व्‍यवहारं कृतवन्‍तः।”
अपदूतग्रस्‍तः बालकः
(मत्ती 17:14-21; लूका 9:37-43)
14येशुः शिष्‍यानाम्‌ समीपम्‌ आगतवान्‌। तदा असौ ददर्श, तान्‌ परितः बहवः जनाः एकत्राः आसन्‌, केचित्‌ शास्‍त्रिणः तैः च विवदमानाः आसन्‌। 15येशुं दृष्‍ट्‌वा जनाः विस्‍मयं ययुः, धावन्‍तः च तस्‍य पादयोः अपतन्‌। 16येशुः शिष्‍यान्‌ अपृच्‍छत्‌, “यूयं एभिः सह किं विवादं कुरुथ?” 17जनसमूहेषु एकः तं प्रत्‍युवाच, “गुरो! मया भवत्‍पार्श्‍वम्‌ ममात्‍मजः आनीतः अस्‍ति। 18यः मूकस्‍य अपदूतस्‍य वशं गतः। यदा अपदूतः तं बालम्‌ आक्राम्‍यति, तत्र सः तं भूमौ निपातयति, मम पुत्रः फेनम्‌ उद्‌गमयति, दन्‍तान्‌ दन्‍तैः घर्षति, अड्‌.म्‌ काष्‍ठवत्‌ भवति। मया भवतः शिष्‍याः अपि प्रार्थिताः किन्‍तु ते निरामयं कर्तुम्‌ न अशक्‍नुवन्‌।” 19येशुः तान्‌ उवाच, “रे अविश्‍वासिनः जनाः! मया कियत्‍कालं यावत्‌ युष्‍माकम्‌ अन्‍तिकम्‌ अवस्‍थातव्‍यम्‌? कियत्‍कालं मया यूयं सोढव्‍या भविष्‍यथ? स्‍वसुतं शीर्घम्‌ मम समीपम्‌ इह आनय।” 20ते शीघ्रम्‌ तं बालकं येशोः अन्‍तिकम्‌ आनयन्‌। येशुम्‌ विलोक्‍य अपदूतः तं बालकं क्षोभयामास। बालकः भुवि फेनमुदगिरन्‌ भुवि लोठितुम्‌ आरब्‍धवान्‌। 21एतदालोक्‍य येशुः तस्‍य पितरम्‌ इदं पृष्‍टवान्‌, “कियत्‌ कालात्‌ अयं बालः इदृशीम्‌ अवस्‍थां गतः।” सः प्राह, शैशवात्‌ एव। 22अपदूतः बालकस्‍य विनाशं कर्तुम्‌ इच्‍छया बारं बारं ज्‍वलन्‌ अग्‍नौ, तोये च इमम्‌ क्षिप्‍तवान्‌। भवान्‌ चेद्‌ अस्‍मिन्‌ विषये कित्र्चन कर्तुम्‌ शक्‍नोति, तर्हि माम्‌ अनुकम्‍पय अस्‍मिन्‌ बालके दयां करोतु। 23येशुः तं प्राह, “किं ब्रवीषि? कर्तुम्‌ शक्‍नोति चेत्‌ भवान्‌! विश्‍वासं कुर्वतः लोके सर्वमेव संभवमस्‍ति।” 24एतत्‌ श्रुत्‍वा बालकस्‍य पिता प्रोच्‍चैः स्‍वरेण इदमभाषत, “प्रभो! विश्‍वसिमि, मे अल्‍पविश्‍वासम्‌ दूरीकरोतु भवान्‌।” 25येशुः जनसम्‍मर्दम्‌ वर्द्धमानं विलोक्‍य, तम्‌ अशुद्‌धं आत्‍मानम्‌ तर्जयन्‌ इदम्‌ उक्‍तवान्‌, “अरे मूकवधिरात्‍मन्‌! अहम्‌ आदेशं ददामि, अस्‍मात्‌ बालकात्‌ निर्गच्‍छ, पुनः मा प्रविश।” 26ततः अपदूतः क्रोशित्‍वा बालकं च क्षोभयित्‍वा तस्‍य शरीरात्‌ निर्गच्‍छत्‌। बालकः मृतवत्‌ शयानः आसीत्‌। इदं दृष्‍ट्‌वा बहवः अकथयन्‌ “बालकः अमृयत।” 27परन्‍तु येशुः बालकस्‍य करं गृहीत्‍वा तम्‌ उत्‍थापयत्‌। सः बालः च उत्‍थितवान्‌।
28येशुं गृहं प्रत्‍यागतं दृष्‍ट्‌वा तस्‍य शिष्‍याः एकान्‍ते पृष्‍टवन्‍तः, “कथम्‌ अयम्‌ अशुद्धः आत्‍मा अस्‍माभिः न निःसारितोऽभवत्‌।” 29येशुर्जगाद, “जातिरेषा केवलं प्रार्थनया एव न अन्‍येन विधिना निःसार्या।”
दुःखभोगस्‍य पुनरुत्‍थानस्‍य च द्वितीया भविष्‍यवाणी
(मत्ती 17:22-23; लूका 9:43b-45)
30तस्‍मात्‌ स्‍थानात्‌ प्रस्‍थाय येशुः गलीलप्रदेशं आगतवान्‌। येशुः न ऐच्‍छत्‌ एतत्‌ कोऽपि विजानीयात्‌, 31यतः सः शिष्‍यान्‌ शिक्षयन्‌ आसीत्‌। येशुः शिष्‍यान्‌ प्रोक्‍तवान्‌, “मानवपुत्रः जनानां हस्‍तेषु अर्पयिष्‍यते। ते तं हनिष्‍यन्‍ति, परन्‍तु तृतीये दिवसे च सः उत्‍थास्‍यति।”
32शिष्‍याः येशोः वचनं न अवबुध्‍यन्‍त, किन्‍तु तं प्रष्‍टुं साहसः न अभवत्‌।
स्‍वर्गराज्‍ये कः सर्वमहान्‌
(मत्ती 18:1-15; लूका 9:46-48)
33येशुः शिष्‍यैः सह कफरनहूमम्‌ आगतवान्‌। गृहं प्रविश्‍य येशुः शिष्‍यान्‌ अपृच्‍छत्‌, “यूयं मार्गे कस्‍मिन्‌ विषये विवादं कुर्वन्‍तः आस्‍त?” 34ते सर्वे तूष्‍णीम्‌ अभवन्‌, यतः “कोऽस्‍ति महत्तमः अस्‍मासु,” अयं तेषां विवादस्‍य विषयः आसीत्‌। 35ततः येशुः उपविष्‍टः, द्वादशशिष्‍यान्‌ आह्‌वयत्‌, तान्‌ जगाद, “युष्‍मासु यः प्रथमो बुभूषति, सः सर्वेषां अन्‍तिमः, सेवकश्‍च अपि स्‍यात्‌।”
36ततः एकं बालकं शिष्‍याणां मध्‍ये स्‍थापयित्‍वा, तमालिड्‌.ग्‍य शिष्‍यान्‌ एवमभाषत, 37“यश्‍च मन्‍नामतः कत्र्चिद्‌ ईदृशबालकम्‌ गृह्‌णाति, सः तु मामेव गृह्‌णाति। तथा यः मां गृह्‌णाति, नासौ मां गृह्‌णाति किन्‍तु येनात्र प्रेषितो अहम्‌ अस्‍मि, असौ तमेव गृह्‌णाति।”
सहिष्‍णुता
(लूका 9:49-50)
38योहनः येशुम्‌ उवाच, “गुरो! कश्‍चन पुरुषः अस्‍माभिः दृष्‍टः यः भवतः नाम्‍ना अपदूतान्‌ निःसारयन्‌ आसीत्‌। तं निवारयितुम्‌ अस्‍माभिः चेष्‍टा कृता, यतः सः अस्‍माभिः सह न चलति।” 39परन्‍तु येशुः प्रत्‍युतरत्‌, “युष्‍माभिः असौ न निवार्यताम्‌। यतः कोऽपि जनः तादृशः नास्‍ति, यः मम नामतः चमत्‍कारं करोति, पश्‍चात्‌ मां विनिन्‍दति। 40यः अस्‍माकं विरोधे न, सः अस्‍माभिः सह एव विद्‌यते।
41यतः यूयं मसीहस्‍य शिष्‍याः स्‍थ, इति कारणात्‌ एकं चषकं जलं युष्‍मभ्‍यम्‌ पाययते, अहं विश्‍वासं दापयामि - स्‍वपुरस्‍कारात्‌ सः वंचितः न भविष्‍यति।”
अनुचितम्‌ उदाहरणम्‌
(मत्ती 18:6-9; लूका 17:1-2)
42“यः मयि विश्‍वासकर्तृषु क्षोदिष्‍टेषु एकमपि विश्‍वासात्‌ विचलितं करोति, तस्‍य कण्‍ठे पेषणीम्‌ च बद्‌ध्‍वा समुद्रे तस्‍य पातनं श्रेयसे खलु वर्तते। 43तथा तव हस्‍तश्‍चेत्‌ त्‍वत्‍कृते पापकारणम्‌, तस्‍य हस्‍तस्‍य छेदनं शीघ्रमेव विधीयताम्‌, त्‍वदर्थम्‌ हीनाड्‌.गः श्रेयः वर्तते सन्‌ जीवनम्‌, न तु इदं यत्‌ द्विहस्‍तः सन्‌ न शमनीयाग्‍नौ क्षेप्‍यसे। 44एवमेव तव चरणः त्‍वत्‍पापहेतुः चेत्‌, तर्हि तं छिन्‍दि, खत्र्जः सन्‌ जीवने प्रवेशं कुरु, किन्‍तु द्विचरणौ नैव अशमनीयाग्‍नौ क्षेप्‍यसे। 45यथा च तव नेत्रं चेद्‌ त्‍वदर्थम्‌ पापकारणम्‌, तत्‌ उत्‍पाट्‌य काणः भूत्‍वा प्रविश ईश्‍वरस्‍य राज्‍ये। न त्‍विदं यद्‌ द्विनेत्रः सन्‌ नरकस्‍य अग्‍नौ क्षेप्‍यसे। 46यत्र देहस्‍थाः स्‍थितानां कीटकाः न म्रियन्‍ते। 47अग्‍निः अपि ज्‍वलन्‌ यत्र निर्वाणं न एति।”
48यतः प्रत्‍येकः नरः वह्निरूपेण लवणेन रक्षितः कारयिष्‍यते।
49-50“लवणं सुन्‍दरं वस्‍तु“ यदि तत्‌ स्‍वल्‍पतां याति, निःस्‍वादतां गतं वस्‍तु कथं स्‍वादु करिष्‍यसि?
स्‍वान्‍तरे लवणं रक्ष, मिथः त्‍वम्‌ एकताम्‌ रक्ष।”

දැනට තෝරාගෙන ඇත:

मारकुस 9: SANSKBSI

සළකුණු කරන්න

බෙදාගන්න

පිටපත් කරන්න

None

ඔබගේ සියලු උපාංග හරහා ඔබගේ සළකුණු කල පද වෙත ප්‍රවේශ වීමට අවශ්‍යද? ලියාපදිංචි වී නව ගිණුමක් සාදන්න හෝ ඔබගේ ගිණුමට ඔබගේ ගිණුමට පිවිසෙන්න