मारकुस 10

10
वैवाहिकं बन्‍धनम्‌
(मत्ती 19:1-9)
1तत्‍स्‍थानात्‌ प्रस्‍थाय, येशुः यहूदाप्रदेशस्‍य सीमाक्षेत्रस्‍य यर्दननद्याश्‍च पारस्‍थं देशम्‌ आप्‍तवान्‌। पुनः विशालजनसमूहः तत्‍समीपम्‌ आगतः। सः स्‍वरीत्‍याः अनुसारेण तान्‌ उपदिष्‍टवान्‌।
2फरीसीसम्‍प्रदायस्‍य सदस्‍याः येशोः समीपम्‌ आगत्‍य, तं परीक्षितुम्‌ इच्‍छन्‍तः एतम्‌ प्रश्‍नम्‌ अकुर्वन्‌ - “किम्‌ एतत्‌ उचितम्‌, यत्‌ सः भार्याम्‌ परित्‍यजेत्‌?” 3येशुः तान्‌ प्रत्‍युवाच, “मूसाः युष्‍मान्‌ किम्‌ उपदिष्‍टवान्‌?“ 4ते कथितवन्‍तः - “मूसाः तु त्‍यागपत्रं लिखित्‍वा पतिं स्‍वपत्‍न्‍याः त्‍यागस्‍य अनुमतिम्‌ दत्तवान्‌।” 5येशुः तान्‌ अवदत्‌, “युष्‍माकं हृदयस्‍य काठिन्‍यम्‌ अवलोक्‍य युष्‍मभ्‍यम्‌ एषः आदेशः तेन लिखितः अस्‍ति। 6परन्‍तु सृष्‍टेः प्रारम्‍भात्‌ नरः नारी परमेश्‍वरेण निर्मितौ। 7अतः पुरुषः स्‍वकौ पितरौ परित्‍यजयिष्‍यति, उभौ एकशरीरौ भविष्‍यतः। 8-9इत्‍थं तौ द्वौ न, एकशरीरं स्‍तः। अतः यत्‌ परमेश्‍वरेण योजितम्‌, तद्‌ मानवेन न वियोज्‍यताम्‌।”
10शिष्‍याः गृहं प्राप्‍य अस्‍मिन्‌ सम्‍बन्‍धे पुनः येशुम्‌ अपृच्‍छन्‌, 11येशुः तान्‌ प्रत्‍युतरत्‌, “यः पुरुषः स्‍वपत्‍न्‍याः परित्‍यागं कृत्‍वा, अन्‍याम्‌ स्‍त्रियम्‌ उद्‌वहति, असौ प्रथमायाः विरुद्धं व्‍यभिचारं करोति। एवमेव 12या पत्‍नी निजम्‌ पतिं परित्‍यज्‍य परेण पुरुषेण सह विवाहं कुरुते, तदा सापि व्‍यभिचारं कुर्वते।”
शिशुभ्‍यः शुभा आशिषः
(मत्ती 19:13-15; लूका 18:15-17)
13जनाः येशोः समीपं स्‍वान्‌ बालकान्‌ आनयन्‍ति स्‍म, यत्‌ सः करेण तान्‌ स्‍पृशेत्‌, परन्‍तु शिष्‍याः तान्‌ अभर्त्‍सयन्‌। 14येशुः एतत्‌ दृष्‍ट्‌वा अप्रसन्‍नः सन्‌ तान्‌ इदम्‌ उक्‍तवान्‌, “मम अन्‍तिकं समायान्‍ताः बालकाः न वार्यन्‍ताम्‌ यतः परमेश्‍वरस्‍य साम्राज्‍यम्‌ ईदृशेभ्‍यः एव वर्तते।” 15अहं ब्रवीमि - “यः लघुबालकः यथा प्रभो राज्‍यं न गृह्‌णाति, सः तत्र न प्रवेक्ष्‍यति।” 16तदा येशुः बालकान्‌ क्रोडे कृत्‍वा वक्षसा तान्‌ समाश्‍लिष्‍य, सर्वेभ्‍यः आशिषम्‌ दत्तवान्‌।
धनिकः युवकः
(मत्ती 19:16-22; लूका 18:18-23)
17कस्‍मिंश्‍चिद्‌ दिवसे येशुः गृहात्‌ बहिः निर्गच्‍छन्‌ एव आसीत्‌, कश्‍चित्‌ युवकः धावन्‌, तत्‍समक्षं जानुनी च पातयित्‍वा तम्‌ इदम्‌ अब्रवीत्‌-गुरो! अनन्‍तजीवनं प्राप्‍तुं मया किं विधेयम्‌? 18येशुः तम्‌ अवदत्‌-’’मां सन्‍तं त्‍वं कथं परिभाषसे? परमेश्‍वरः खलु “सत्‌” एकः एव, कश्‍चन नापरः। 19त्‍वम्‌ आज्ञायाः वचनानि जानासि, “जीवहत्‍या न कर्तव्‍या, व्‍यभिचारं विवर्जयेत्‌, चौर्यम्‌ नैव कर्तव्‍यं, मृषावाक्‍यं न वक्‍तव्‍यम्‌, प्रवत्र्चनम्‌ न कर्तव्‍यम्‌, मातापित्रोः सम्‍मानं सर्वदैव कुरु।”
20सः येशुं प्रत्‍युवाच, “गुरो! आबाल्‍यतः मया एषाम्‌ आज्ञावचनानां परिपालनम्‌ विहितम्‌। 21एतत्‌ आकर्ण्‍य येशुः तं ध्‍यानपूर्वकम्‌ दृष्‍ट्‌वान्‌। तस्‍य हृदि स्‍नेहः सपरिवाहः उदितः अभवत्‌। येशुः तम्‌ आह, “गच्‍छ, त्‍वं निजसर्वस्‍वं दीनेभ्‍यः देहि, त्‍वदर्थम्‌ स्‍वर्गलोके धनराशिः स्‍थास्‍यति।” 22तत्‌ श्रुत्‍वा तस्‍य वदनं म्‍लानम्‌ अभवत्‌। सः विषण्‍णः भूत्‍वा प्रतस्‍थे, यतः असौ महाधनिकः आसीत्‌।
धनस्‍य कारणात्‌ विध्‍नाः रोधाः च
(मत्ती 19:23-26; लूका 18:24-27)
23तदा येशुः परितः दृष्‍टिपातं कृत्‍वा स्‍वशिष्‍यान्‌ प्राह, “धनिनां स्‍वर्गलोके प्रवेशः कियत्‌ कठिनः वर्तते।” शिष्‍याः एतत्‌ आकर्ण्‍य परमं विस्‍मयं ययुः। 24येशुः पुनः तान्‌ कथितवान्‌, “वत्‍साः! प्रभोः साम्राज्‍ये प्रवेशः कियत्‌ कठिनः वर्तते। 25सूचीछिद्रेण सुकरः उष्‍ट्रस्‍य विनिर्गमः, किन्‍तु धनिनां स्‍वर्गलोके प्रवेशः कठिनः।” 26शिष्‍याः अधिकविस्‍मयाः अभवन्‌। ते मिथः अब्रुवन्‌, “तर्हि कः प्रवेशम्‌ अवाप्‍स्‍यति?” 27शिष्‍यान्‌ स्‍थिरदृष्‍ट्‌या विलोकयन्‌ अवदत्‌, “एतत्‌ मनुष्‍येभ्‍यः असम्‍भवः परन्‍तु परमेश्‍वराय संभवः यतः तस्‍मै सर्वम्‌ं साध्‍यम्‌ अस्‍ति।”
स्‍वैच्‍छिकनिर्धनतायाः पुरस्‍कारः
(मत्ती 19:27-30; लूका 18:28-30)
28तदा येशुम्‌ पतरसः उक्‍तवान्‌, “पश्‍येत वयम्‌ सर्वस्‍वं परित्‍यज्‍य भवतः अनुयायिनः स्‍मः। 29येशुः प्रत्‍युवाच, “अहं युष्‍मान्‌ वदामि, नास्‍ति लोके कश्‍चित्‌ जनः ईदृशः 30-31यो मत्‍कृते शुभसमाचारस्‍य कृते च आत्‍मनः भवनम्‌, भ्रातरं, भगिनीं चापि, मातरं, पितरं तथा स्‍वां भार्यां, सन्‍ततिं, क्षेत्रम्‌ च त्‍यक्‍त्‍वान्‌, सः शतगुणं लप्‍स्‍यते, क्षेत्राणि, परलोके अनन्‍तजीवनम्‌ च लभेत। बहवः ये प्रथमा, ते अन्‍तिमाः सम्‍भविष्‍यन्‍ति। ये अन्‍तिमस्‍थाने सन्‍ति, ते प्रथमं स्‍थानं लप्‍स्‍यन्‍ते।”
दुःखभोगस्‍य पुनरुत्‍थानस्‍य च तृतीया भविष्‍यवाणी
(मत्ती 20:17-19; लूका 18:31-33)
32ते सर्वे येरुसलेमं प्रति प्रतस्‍थिरे, येशुः शिष्‍याणाम्‌ अग्रे व्रजन्‌ आसीत्‌। शिष्‍याः अत्‍याकुलाः आसन्‌, अनुयायिनः भीत्‍या आर्ताः च। सः पुनः द्वादश-शिष्‍यान्‌ पृथक्‌ नीत्‍वा भावि तं प्रति यद्‌ आसीत्‌, तत्‌ वक्‍तुम्‌ आरब्‍धवान्‌,
33“दृश्‍यतां वयं येरुसलेमं गच्‍छामः। मानवपुत्रः महापुरोहितेभ्‍यः शास्‍त्रिभ्‍यश्‍च अर्पयिष्‍यते। ते तस्‍मै प्राणदण्‍डम्‌ आदेक्ष्‍यन्‍ति तथा अयहूदिजनानाम्‌ अधीनताम्‌ प्रापयिष्‍यन्‍ति, 34ते तं उपहसिष्‍यन्‍ति तथा तस्‍य देहे निष्‍ठीवनं करिष्‍यन्‍ति, कशैः पीडयिष्‍यन्‍ति, घातयिष्‍यन्‍ति च। किन्‍तु तृतीये दिने असौ पुनरुत्‍थानम्‌ एष्‍यति।”
याकूबयोहनयोः निवेदनम्‌
(मत्ती 20:20-23)
35जेबेदिनः आत्‍मजौ याकूबयोहनौ येशोः अन्‍तिकम्‌ आगत्‍य उक्‍तवन्‍तौ, “गुरो! अस्‍माकं एका याचना वर्तते, कृपया पूर्णं करोतु।” 36येशुः तौ पृष्‍टवान्‌, किं इच्‍छथः, युवाभ्‍याम्‌ किम्‌ अहम्‌ करवाणि?” 37तौ उक्‍तवन्‍तौ, “भवद्‌राज्‍यप्रतापे भवता सह आवयोः उपवेशाय भवतः अनुमतिः भवेत्‌ - आवयोः कश्‍चिद्‌ भवतः दक्षिणभागे, अपरः भवतः वामभागे स्‍थानं लभेत।” 38येशुः तौ प्रत्‍यवादीत्‌ - “यद्‌ युवाभ्‍यां याचते तत्‌ युवां न जानीथः। येन पात्रेण मया पातव्‍यं वर्तते, युवां किम्‌ पातुं शक्‍नुथः, तथा यः जलसंस्‍कारः मम स्‍वीकार्यः वर्तते, किम्‌ तं जलसंस्‍कारं ग्रहीतुं युवाभ्‍यां शक्‍यते?” 39तौ उक्‍तवन्‍तौ, आवाभ्‍याम्‌ एतत्‌ कर्तुम्‌ शक्‍यते। येशुः तौ अब्रवीत्‌, “येन चषकेण अहं पास्‍यामि, युवाम्‌ अपि तेनैव पास्‍यथः, यः जलसंस्‍कारः मया स्‍वीकार्यः, युवाम्‌ अपि तमेव जलसंस्‍कारं ग्रहीष्‍यथः। 40किन्‍तु मम दक्षिणे वामे वा युवयोः उपवेशनम्‌ अनुमन्‍तुं मे अधिकारः न वर्तते। तत्‌ स्‍थानं येभ्‍यः निर्मितं तेभ्‍यः एव दास्‍यते।”
सेवाभावस्‍य महत्‍वम्‌
(मत्ती 20:24-28; लूका 22:25-27)
41एतद्‌ ज्ञात्‍वा प्रेरिताः याकूबयोहनौ प्रति क्रुद्धाः अभवन्‌। 42येशुः तान्‌ आहूय इदम्‌ अब्रवीत्‌, “यूयं जानीथ ये जगतः जनाधिपाः मन्‍यन्‍ते, ते प्रजासु निरंकुशं शासनं कुर्वन्‍ति! ते सत्ताधारिषु जनेषु अधिकारं दर्शयन्‍ति। 43परन्‍तु तादृशः युष्‍मासु कोऽपि न वर्तते। 44युष्‍मासु यः महान्‌ भवितुम्‌ इच्‍छति, सः सर्वेषां दासतां स्‍वीकरोतु। 45यतः मानवपुत्रः अपि सेवां कारयितुं नायातः, किन्‍तु लोकानां सेवां कर्तुम्‌, तथा जनान्‌ उद्‌धर्तुम्‌ स्‍वप्राणान्‌ दातुम्‌ आगतः अस्‍ति।”
जन्‍मांधाय बरतिमेउसाय दृष्‍टिदानम्‌
(मत्ती 20:29-34; लूका 18:35-43)
46ते सर्वे येरीहोस्‍थानं प्राप्‍तवन्‍तः। यदा येशुः स्‍वशिष्‍यैः सार्द्धम्‌, जनानां निवहेन सह येरीहोतः निःसरन्‌ आसीत्‌, तदा तिमाईपुत्रः बरतिमेउसः, अन्‍धः दरिद्रयाचकः पथः पार्श्‍वे उपविष्‍टः आसीत्‌। 47यदा असौ ज्ञातवान्‌ यत्‌ अयं नासरतनिवासी येशुः वर्तते, तदा क्रोशन्‌ उच्‍चैः स्‍वरेण वक्‍तुं प्रचक्रमे, “येशो! दाऊदस्‍यपुत्र! भवान्‌ मामनुकम्‍पताम्‌!” 48बहवः जनाः तं मौनम्‌ अवलम्‍बितुं भर्त्‍सयन्‍ति स्‍म। किन्‍तु असौ ततः अपि अधिकम्‌ प्रोच्‍चैः क्रोशितुम्‌ आरब्‍धवान्‌, येशो! दाऊदपुत्र! भवान्‌ मामनुकम्‍पताम्‌। 49येशुः क्षणं स्‍थित्‍वा तं समानेतुमादिशत्‌। जनाः एतत्‌ ब्रुवन्‌ तम्‌ अन्‍धम्‌ आह्‌वयन्‌, “आश्‍वस्‍तः भव, उत्तिष्‍ठ, सः त्‍वाम्‌ आह्‌वयति।” 50अन्‍धः स्‍वमुत्तरीयं क्षिप्‍त्‍वा उत्‍पत्‍य येशुम्‌ उपागतः। 51येशुः तमाह, “किम्‌ इच्‍छसि?, त्‍वदर्थम्‌ अहं कि करोमि। अन्‍धः प्राह, “भगवन्‌! मे दृष्‍टिशक्‍तिः पुनर्भवेत्‌’’। 52येशुः तम्‌ अब्रवीत्‌, “गच्‍छ त्‍वद्‌विश्‍वासेन त्‍वमुद्‌धृतः’’। सः तत्‍क्षणमेव द्रष्‍टुम्‌ आरब्‍धवान्‌, सः मार्गे येशोः अनुगामी अभवत्‌ च।

දැනට තෝරාගෙන ඇත:

मारकुस 10: SANSKBSI

සළකුණු කරන්න

බෙදාගන්න

පිටපත් කරන්න

None

ඔබගේ සියලු උපාංග හරහා ඔබගේ සළකුණු කල පද වෙත ප්‍රවේශ වීමට අවශ්‍යද? ලියාපදිංචි වී නව ගිණුමක් සාදන්න හෝ ඔබගේ ගිණුමට ඔබගේ ගිණුමට පිවිසෙන්න