मारकुस 5

5
गेरासेनस्‍य अपदूतग्रस्‍तः जनः
(मत्ती 8:28-34; लूका 8:26-29)
1येशुः गेरासेनियानां देशं, पारे अब्‍धिसंस्‍थितम्‌ आप्‍नोत्‌। 2येशुः नावः अवतरत्‌, तदा एकः भूताविष्‍टः जनः शवागारेभ्‍यः निर्गत्‍य तं पुरतः आगतवान्‌। 3-4सः शवागारेषु निवसति स्‍म। तं कश्‍चित्‌ नरः शृड्‌.खलैः अपि बद्‌धुं न अशक्‍नोत्‌, यतः निगडैः शृड्‌.खलैश्‍च सः बहुवारं बद्धः आसीत्‌; किन्‍तु तेन तानि सर्वाणि बन्‍धनानि भग्‍नानि कृतानि। तत्र कश्‍चित्‌ शक्‍तिमान्‌ जनः तं शमयितुं न आसीत्‌। 5सः नक्‍तन्‍दिवं गिरिषु, शवागारेषु अनारतम्‌ क्रन्‍दन्‌, प्रस्‍तरैः आत्‍मानं प्रताडयन्‌ आसीत्‌। 6दूरात्‌ येशुं विलोक्‍य असौ धावन्‌ तं निकषा आगतः। सः भूमौ दण्‍डवद्‌ ननाम, 7तं प्रोच्‍चैः प्रोक्‍तवान्‌ च, “सर्वोच्‍चस्‍य परमेश्‍वरस्‍य पुत्र येशो! मया सह भवतः कः सम्‍बन्‍धोऽस्‍ति? भवन्‍तम्‌ परमेश्‍वरस्‍य नाम्‍नि प्राथयामि, भवान्‌ मह्‌यम्‌ यातनां न प्रयच्‍छतु।” 8-9यतः येशुः तदानीं तम्‌ इदम्‌ प्रोक्‍तवान्‌, “अशुद्धात्‍मन्‌! अस्‍मात्‌ जनात्‌ शीघ्रमेव विनिःसर।” ततः येशुः तम्‌ अप्राक्षीत्‌, “तव किं नाम वर्तते?” सः प्राह, “मम नाम सेना यतः वयम्‌ बहवः स्‍मः।” 10-11सः येशुम्‌ अनुनयन्‌ उक्‍तवान्‌, “प्रभो! प्रदेशात्‌ भवान्‌ मां न निःसारयतु।”
तत्र पर्वते एकः शूकरसमूहः चरन्‌ आसीत्‌। 12येशुम्‌ ते अपदूताः प्रार्थयन्‍तः एवम्‌ अवादिषुः, “भवान्‌ अस्‍मान्‌ एतस्‍मिन्‌ शूकरसमूहे विसृजतु। अस्‍मान्‌ शूकरेषु प्रेषयतु, तेषु प्रवेशाय अनुमतिं ददातु।” 13येशुना अनुमतिः दत्ता। तदा अपदूताः तन्‍नरात्‌ निःसृत्‍य तेषु शूकरेषु प्राविशन्‌। ततः प्रायः सहस्रे शूकराः अतिवेगतः धावन्‍तः सागरे मृत्‍युमुखं गताः, 14शूकरचारकाः सर्वे पलायितवन्‍तः। ते ग्रामेषु नगरेषु च इदं वृत्तं व्‍यज्ञापयन्‌। 15लोकाः इदं सर्वम्‌ वृत्तं द्रष्‍टुं येशुमुपागताः। जनाः अपदूतग्रस्‍तं तं नरं दृष्‍ट्‌वा परां भीतिं ययुः। यतः यस्‍मिन्‌ नरे पूर्वं सा भूतवाहिनी सेना आसीत्‌ सः वस्‍त्रैः सुभूषितः शान्‍तः तत्र उपविष्‍टः आसीत्‌। 16ये दृष्‍टवन्‍तः ते सर्वे, लोकेभ्‍यः भूताविष्‍टस्‍य शूकराणां च तां कथां न्‍यवेदयन्‌।
17तदा गेरासेनिनः येशुं तत्‌ प्रदेशात्‌ निर्गन्‍तुं प्रार्थयामासुः। 18येशौ नावि समारूढे, भूताविष्‍टो नरः तं समीपम्‌ आगत्‍य प्रार्थयामास, “भवता साद्‌र्धम्‌ अहं तिष्‍ठेयम्‌ इति अनुमन्‍यताम्‌।” 19येशुः तत्‍प्रार्थनां न अंगीकुर्वन्‌ तम्‌ इदम्‌ उक्‍तवान्‌, “तव स्‍वीयजनानाम्‌ अन्‍तिकं, स्‍वं गृहं गच्‍छ, तान्‌ सर्वम्‌ एतत्‌ ब्रूहि यत्‌ प्रभुः तुभ्‍यम्‌ किं किम्‌ अकरोत्‌।” 20ततः सः गत्‍वा, तत्‌ सर्वम्‌ यद्‌ येशुना तस्‍मै कृतम्‌, दिकापुलिसक्षेत्रे उद्‌घोषयितुम्‌ आरेभे। तत्‌ सकलं वृत्तं श्रुत्‍वा जनाः परमं विस्‍मयं ययुः।
याईरस्‍य पुत्री रक्‍तस्रावपीडिता च
(मत्ती 9:18-26; लूका 8:40-56)
21यदा येशुः तया नावा सरसः पारम्‌ जगाम, 22तदा तस्‍य तटे महान्‌ जनौघः एकत्र अभवत्‌। तदानीं सभागृहस्‍य याईराभिधः अधिकारी आगत्‍य येशुम्‌ अवलोक्‍य तस्‍य पादयोः न्‍यपतत्‌, 23इदं ब्रुवन्‌ येशुम्‌ न्‍यवेदयत्‌, “मे सुता मृतकल्‍पा अस्‍ति, आगत्‍य तस्‍यां स्‍वहस्‍तं स्‍थापयतु, येन सा स्‍वस्‍थतां प्राप्‍य चिरम्‌ जीवितुं शक्‍नुयात्‌।” 24येशुः तेन साद्‌र्धम्‌ ययौ। येशुना सह एकः महान्‌ जनौधः प्रस्‍थितः। लोकास्‍तु सर्वतः तस्‍मिन्‌ पतन्‍ति स्‍म।
25काचित्‌ योषित्‌ द्वादशवर्षेभ्‍यः रक्‍तस्रावप्रपीडिता आसीत्‌। 26अनेकेषां वैद्‌यानाम्‌ चिकित्‍सया भृशं क्‍लिष्‍टा आसीत्‌। स्‍वकं सर्वम्‌ च धनम्‌ व्‍ययीकृत्‍य अपि कत्र्चिन्‍न लाभं प्राप्‍ता, सा अधिकम्‌ अस्‍वस्‍थैव जाता। 27सा येशोः कथां श्रुत्‍वा, तस्‍य जनानाम्‌ औघस्‍य मध्‍यतः आगत्‍य तस्‍य पृष्‍ठतः वसनं स्‍पृष्‍टवती, 28यतः सा मनसि प्राह, “वासांसि एव तस्‍य चेत्‌ स्‍प्रष्‍टुम्‌ शक्‍नोमि तर्हि अहं निरामया भविष्‍यामि।” 29तस्‍मिन्‍नेव क्षणे तस्‍या रक्‍तस्रावः रुरोध। सा स्‍वे शरीरे “रोगमुक्‍ता अभवम्‌“ इति अनुभूतवती। 30येशुः सद्‌यः स्‍ववपुषः प्रभावस्‍य विनिर्गमनम्‌ ज्ञात्‍वा जनौघस्‍य मध्‍ये मुखं व्‍यावर्त्‍य पृष्‍टवान्‌, “मे वस्‍त्रं केन संस्‍पृष्‍टम्‌?” 31तस्‍य शिष्‍याः तम्‌ अब्रुवन्‌, “भवान्‌ पश्‍यति जनौधः निपतन्‌ आस्‍ते, तथापि पृच्‍छति “केन मे वस्‍त्रं संस्‍पृष्‍टम्‌?“ 32-33येन तत्‌ विहितं तं दिदृक्षुः दृष्‍टिम्‌ अक्षिपत्‌। सा स्‍त्री, इदं ज्ञात्‍वा तया किम्‌ अभवत्‌, प्रकम्‍पमाना भीतार्ता, भूमौ दण्‍डवत्‌ प्रणम्‍य आगत्‍य तस्‍मै सर्वम्‌ न्‍यवेदयत्‌। 34येशुः ताम्‌ आह, “वत्‍से! त्‍वं विश्‍वासात्‌ स्‍वस्‍थतां गता। शान्‍तिम्‌ आधाय गच्‍छ, रोगमुक्‍ता भव।”
35तस्‍मिन्‌ एवं कथिते एव सभागृहस्‍य अधिकारिणः तत्र समागताः, अवदन्‌ च, “भवत्‍पुत्री दिवंगता अतः किमर्थम्‌ गुरवे अधिकं कष्‍टं दत्रे?” 36तत्‌ श्रुत्‍वा येशुः सभागेहस्‍य अधिकारिणम्‌ उक्‍तवान्‌, “मा बिभीहि, त्‍वं विश्‍वासं केवलम्‌ विधेहि।” 37एवमुक्‍त्‍वा सः याकूबं, याकूबस्‍य सोदरम्‌ योहनं, पतरसं च परिहाय अपरं कम्‌ अपि स्‍वम्‌ अनुगन्‍तुम्‌ अनुमतिं न दत्तवान्‌।
38यदा येशुः सभागेहस्‍य अध्‍यक्षस्‍य वासम्‌ आगतवान्‌, ततः जनान्‌ भृशम्‌ क्रोशतः रुदतः ददर्श। 39येशुः प्रविश्‍य तान्‌ प्राह, “विलापो रोदनं कथम्‌? इयं बालिका मृता नास्‍ति, सा अत्र निद्राणा वर्तते।” 40एतत्‌ आकर्ण्‍य जनाः येशुम्‌ उपाहसन्‌। येशुः सर्वान्‌ बहिः कृतवान्‌, बालिकायाः पितरौ, स्‍वसंगिनः केवलम्‌ स्‍वेन साद्‌र्धम्‌ नयन्‌ तत्‌ गृहम्‌ प्राविशत्‌, यत्र बालिका शयिता अभवत्‌। 41सः बालिकायाः हस्‍तं गृहीत्‍वा ताम्‌ उवाच, “तालिथा कुम“ अस्‍यार्थो अस्‍ति - “बालिके उतिष्‍ठ, इति ममादेशः“ 42बालिका सद्‌यः एव समुत्‍थिता, विहर्तुम्‌ च प्रववृते, यतः सा द्वादशवर्षीया बालिका आसीत्‌। एतत्‌ समालोक्‍य लोकाः परमं विस्‍मयं ययुः। 43येशुः तान्‌ दृढं प्रबोध्‍य समादिशत्‌, “एतत्‌ वृत्तम्‌ कः अपि न जानीयात्‌। भोजनार्थम्‌ किंचित्‌ अस्‍यै दातुम्‌ प्रोवाच।”

දැනට තෝරාගෙන ඇත:

मारकुस 5: SANSKBSI

සළකුණු කරන්න

බෙදාගන්න

පිටපත් කරන්න

None

ඔබගේ සියලු උපාංග හරහා ඔබගේ සළකුණු කල පද වෙත ප්‍රවේශ වීමට අවශ්‍යද? ලියාපදිංචි වී නව ගිණුමක් සාදන්න හෝ ඔබගේ ගිණුමට ඔබගේ ගිණුමට පිවිසෙන්න