मारकुस 4

4
वपनकर्तुः कृषकस्‍य दृष्‍टान्‍तः
(मत्ती 13:1-9; लूका 8:4-8)
1एकदा येशुः सरसः तटे उपदेष्‍टुम्‌ आरब्‍धवान्‌। तमन्‍तिकं जनानां महान्‌ समूहः आयातः। अतः सः सरसि स्‍थिता एकस्‍याम्‌ नावि उपविष्‍टवान्‌। सम्‍पूर्णः जनौघः सरसः तटे स्‍थितः आसीत्‌। 2सः च तेभ्‍यः दृष्‍टान्‍तैः बहुविधां शिक्षां ददौ। शिक्षां ददन्‌ तेन कथितम्‌ -
3“श्रूयतां कोऽपि कृषकः बीजानि वप्‍तुं गेहात्‌ निर्गतः। 4वपनसमये कानिचित्‌ बीजानि पथः पार्श्‍वे पतितानि, पक्षिणः तानि अभक्षयन्‌। 5अन्‍यानि प्रस्‍तराकीर्णभूतले पतितानि, यत्र तेषां कृते पर्याप्‍तमृत्तिका नासीत्‌। मृत्तिकायाः अगाम्‍भीर्यात्‌ तानि क्षिप्रमेव प्ररूढानि, 6किन्‍तु भास्‍करे उदिते प्‍लुष्‍टानि, मूलहीनत्‍वात्‌ सद्‌यः शोषं गतानि च। 7अपराणि तु बीजानि कण्‍टकमध्‍ये पतितानि, यानि कण्‍टकैः वृद्धिमागतैः सम्‍पीडितानि आसन्‌ अतएव तेषां फलोद्‌गमः आरुद्‌धः आसीत्‌। 8कानिचित्‌ उत्तमायां भूमौ पतितानि। तानि अवर्धन्‍त च त्रिंशद्‌गुणानि, केषांचित्‌ शतगुणानि च फलानि आनयन्‌।”
9एवमुक्‍त्‍वा येशुः अब्रवीत्‌, “यस्‍य संश्रोतुं कर्णौ स्‍तः सः शृणोतु।”
दृष्‍टान्‍तानां प्रयोजनम्‌
(मत्ती 3:10-15; लूका 8:9-10)
10येशोः द्वादशानुयायिनः रहसि, तं दृष्‍टान्‍तानाम्‌ अर्थंम्‌ अपृच्‍छन्‌। 11येशोः तान्‌ अवदत्‌, “किं यूयम्‌ इदं दृष्‍टान्‍तं न जानीथ? युष्‍मभ्‍यम्‌ परमेश्‍वरस्‍य राज्‍यस्‍य रहस्‍यं ज्ञातुं वरः प्राप्‍तः अस्‍ति। वाह्‌यजनेभ्‍यः दृष्‍टान्‍ताः एव लप्‍स्‍यन्‍ते, 12येन ते पश्‍यन्‍तः अपि न पश्‍यन्‍तु शृण्‍वन्‍तः अपि न जानन्‍तु। कुत्रचित्‌ एवं न भवेत्‌ ते मां प्रति प्रत्‍यागच्‍छन्‍तु, अहं तान्‌ क्षमिष्‍यामि च।”
वपनकर्तुर्दृष्‍टान्‍तस्‍य व्‍याख्‍या
(मत्ती 13:18-23; लूका 8:11-15)
13येशुः तान्‌ अवदत्‌, “किं यूयम्‌ इदं दृष्‍टान्‍तं न जानीथ? कथं सर्वान्‌ दृष्‍टान्‍तान्‌ ज्ञास्‍यध्‍वे? 14वप्‍ता परमेश्‍वरस्‍य वचनं वपति। 15ये च पथस्‍तटे सन्‍ति, यत्र वचनम्‌ उप्‍यते, ते ये जनाः सन्‍ति ते अशृण्‍वन्‌, परन्‍तु दुष्‍टः सद्‌यः तत्‌ वचनं हरति, यत्‌ तेषां हृदये उप्‍तम्‌। 16इत्‍थं ये पाषाणभूमौ उप्‍ताः सन्‍ति, ते ये जनाः सन्‍ति, ये श्रुत्‍वा एव प्रसन्‍नाः भूत्‍वा, तस्‍मिन्‌ क्षणे एकं वचनं गृह्‌णन्‍ति, 17किन्‍तु मूलहीनत्‍वाद्‌ चिरम्‌ दृढं न तिष्‍ठन्‍ति। वचनस्‍य च हेतोस्‍ते संकटे अत्‍याचारे वा समुपस्‍थिते द्रुतं विचलन्‍ति। 18अन्‍यानि बीजानि यानि कण्‍टकानां मध्‍ये उप्‍तानि सन्‍ति, इमे ते सन्‍ति, ये वचः शृण्‍वन्‍ति, किन्‍तु तान्‌, 19जगतः चिन्‍ता, धनलिप्‍सा, अन्‍यवासनाः प्रविश्‍य तद्‌ वचो ध्‍नन्‍ति, येन तत्‌ अफलं जायते। 20यानि बीजानि उत्तमभूमौ उप्‍यन्‍ते, इमे ते सन्‍ति ये वाक्‍यं श्रुतिगोचरम्‌ कुर्वन्‍ति, तद्‌ वचः गृह्‌णन्‍ति, फलन्‍ति च केचित्‌ त्रिंशद्‌गुणं, षष्‍टिगुणं तथा शतगुणं च।”
दीपकस्‍य दृष्‍टान्‍तः
(मत्ती 10:26; लूका 8:16-17)
21येशुः पुनः तान्‌ अब्रवीत्‌, “किमर्थम्‌ दीपः प्रज्‍वालयते? द्रोणस्‍य वा पर्यड्‌.कस्‍य अधः सः स्‍थापितः भवेत्‌? किं सः दीपकः दीपाधारोपरि न हि स्‍थाप्‍यते? 22किंचिद्‌ गूढम्‌ नास्‍ति यत्‌ प्रकाशे न नेष्‍यते। 23यस्‍य संश्रोतुं श्रोत्रे, विद्‌येते, असौ इदं शृणोतु।”
मापस्‍य दृष्‍टान्‍तः
(मत्ती 7:2-13; लूका 6:38; 8:18)
24येशुः तान्‌ उवाच, “यूयं मे वचः ध्‍यानेन शृणुत । यूयं येन हि मापेन मिमीध्‍वे तेन एव मापिष्‍यते परन्‍तु युष्‍मदर्थम्‌ दास्‍यते च ततोऽधिकम्‌। 25यतो यस्‍य अस्‍ति किम्‌ अपि तस्‍मै दास्‍यतेऽधिकम्‌। यस्‍य पार्श्‍वेऽस्‍ति नो किंचित्‌, तस्‍य यत्‌ अस्‍ति तत्‌ च अपि सर्वम्‌ अपनेष्‍यते।”
वर्धमानस्‍य बीजस्‍य दृष्‍टान्‍तः
26येशुः तान्‌ अब्रवीद्‌, “परमेश्‍वरस्‍य राज्‍यं तस्‍य मनुष्‍यस्‍य सदृशम्‌ अस्‍ति, यः भूमौ बीजानि वपति। 27रात्रौ सः निद्राति, प्रातः निन्‍द्रां जहाति च। बीजं प्ररोहति वर्धते च। परं न असौ वेत्ति इदं कथम्‌ जायते। 28यतः भूमिः स्‍वयमेव शस्‍यानि जनयति - प्रथमम्‌ अंकुरम्‌, तस्‍मात्‌ परं मंजरीम्‌, तत्‌पश्‍चात्‌ पूर्णान्‌ अन्‍नकणान्‌ च। 29सिद्धे कृषिफले असौ लवित्रकम्‌ प्रयुड्‌.क्‍ते, यतः कर्त्तनकालः शस्‍यानां समुपस्‍थितः।”
सर्षपस्‍य बीजम्‌
(मत्ती 13:31-32; लूका 11:18-19)
30येशुः पुनः जगाद, “अहम्‌ परमेश्‍वरस्‍य राज्‍यस्‍य उपमां केन सह कुरवै? केन दृष्‍टान्‍तेन तस्‍य वर्णनं करवाणि। 31तत्‌ सर्षपस्‍य सदृशं विद्‌यते। भूमौ वपनकाले तत्‌ सर्षपबीजं वर्तते, सर्वबीजेषु क्षोदीयः, 32किन्‍तु पश्‍चात्‌ तत्‌ प्ररुह्‌य, क्रमेण वर्धमानम्‌ अतिविशालताम्‌ प्राप्‍नोति। महत्तराः शाखाः तस्‍मात्‌ बहवः निर्गच्‍छन्‍ति। येन आकाशस्‍य पक्षिणः तस्‍य छायायाम्‌ आश्रित्‍य वासम्‌ आधातुं शक्‍नुवन्‍ति।”
दृष्‍टान्‍तानां प्रयोगः
(मत्ती 13:34-35)
33येशुः बहुभिः दृष्‍टान्‍तैः तेषां ज्ञानस्‍य अनुरूपं शुभसमाचारम्‌ अश्रावयत्‌। 34असौ दृष्‍टान्‍तेन विना तान्‌ किंचिद्‌ न अब्रवीत्‌, परन्‍तु एकान्‍ते तु स्‍वशिष्‍येभ्‍यः व्‍याख्‍याम्‌ प्रोक्‍तवान्‌।
प्रभंजनस्‍य प्रशमनम्‌
(मत्ती 8:18-23,27; लूका 8:22-25)
35तस्‍मिन्‌ दिने सन्‍ध्‍यायां संजातायां शिष्‍यान्‌ अवदत्‌, “वयं सरसः पारं गच्‍छेम। 36लोकान्‌ निवर्त्‍य, शिष्‍याः तया एव नौकया येशुम्‌ प्रतस्‍थिरे, यस्‍याम्‌ असौ उपविष्‍टः आसीत्‌। काश्‍चिद्‌ अन्‍याः च नावः अपि तेन साद्‌र्धम्‌ प्रतस्‍थिरे। 37तस्‍मिन्‌ काले अकस्‍मात्‌ झंझावातः समुत्‍थितः। ततः गुरुभिः तरंगैः नौका तथा आहता यथा द्रुतम्‌ समागतेन अन्‍तः तोयेन अपूर्यत। 38येशुः तस्‍याः नौकायाः पश्‍चात्‌ उपधानं समालम्‍ब्‍य शेते स्‍म। शिष्‍याः तं प्रबोध्‍य प्राहुः, “गुरो! वयं निमज्‍जामः! किमिदं वीक्ष्‍य भवतो मनश्‍चिन्‍ता न बाधते?” 39ततो विहाय निद्रां सः वायुम्‌ उच्‍चैः अतर्जयत्‌, जलधिं जगाद “शान्‍तः स्‍यात्‌ तथा सुस्‍थिरो भव।” वायुः शशाम, शान्‍तिः विष्‍वक्‌ व्‍यराजत। 40ततः शिष्‍यान्‌ अवदत्‌, “कथं यूयम्‌ इत्‍थं बिभीत? कथम्‌ अद्‌यापि युष्‍माकं मानसे विश्‍वासः न विद्‌यते?” 41तदा महाभयग्रस्‍ताः मिथः सर्वे इदम्‌ अवदन्‌, को न्‍वयं पुरुषः यस्‍य वारिधिः पवनस्‍तथा, गृहीत्‍वा शासनं, शान्‍तौ सुस्‍थिरौ च बभूवतुः।

දැනට තෝරාගෙන ඇත:

मारकुस 4: SANSKBSI

සළකුණු කරන්න

බෙදාගන්න

පිටපත් කරන්න

None

ඔබගේ සියලු උපාංග හරහා ඔබගේ සළකුණු කල පද වෙත ප්‍රවේශ වීමට අවශ්‍යද? ලියාපදිංචි වී නව ගිණුමක් සාදන්න හෝ ඔබගේ ගිණුමට ඔබගේ ගිණුමට පිවිසෙන්න