Известные библейские стихи из यूहन्‍नः 21

प्रातराशात्‌ परं येशुः सिमोनपतरसं जगाद, “सिमोन! योहनस्‍य पुत्र! किं त्‍वम्‌ एभ्‍यः अधिकं मयि प्रेम कुरुषे? सः तं प्रत्‍यवादीत्‌, “प्रभो! भवान्‌ जानाति यत्‌ त्‍वयि मम प्रेम अविचलः वर्तते। येशुः तमब्रवीत्‌ - “मम मेषशावकान्‌ चारय।” येशुः पुनः द्वितीय वारं तमभाषत - “सिमोन! योहनात्‍मजः, किं मयि प्रेम कुरुषे? सिमोनपतरसः येशुम्‌ पुनः तथा प्रत्‍यवोचत्‌ - “प्रभो! भवान्‌ जानाति यत्‌ त्‍वयि मे प्रेम दृढ़म्‌।” येशु तम्‌ आह - ”मे मेषान्‌ चारय।” येशुः पुनः तृतीयवारं सिमोनमभाषत - “सिमोन! योहनसुतः किम्‌ मयि प्रेम करोषि?” एवं तृतीयवारं स पृष्‍टः अतिदुखितः अभवत्‌। पतरसं तं जगाद - “भवान्‌ सर्वज्ञः वर्तते। भवान्‌ जानाति यत्‌ मम भवति प्रेम सुदृढ़म्‌ वर्तते।” येशुः पुनः तथैवाह - “मम मेषान्‌ चारय।”

Бесплатные планы чтения и наставления по теме यूहन्‍नः 21