यूहन्नः 15
15
अहं सत्या द्राक्षालता
1“अहं सत्या द्राक्षालता, मम पिता कृषकः वर्तते। 2तेन सा शाखा छिद्यते, या मयि फलं न दत्ते। या शाखा फलं ददाति, तस्याः क्षुद्रपल्लवान् कृन्तति, यथा पूर्वतः अपि अधिकं फलैः सुसम्पन्ना भवेत्। 3मया या शिक्षा दत्ता, तया यूयं परिष्कृताः। 4यूयं मयि वर्तध्वम् युष्मासु अहं वर्तिष्ये। यथा द्राक्षालतां त्यक्त्वा शाखा फलं न धत्ते, तथा मत्तः पृथकाः स्थित्वा यूयं नैव फलिष्यथ।
5“अहं द्राक्षालता यूयं तस्याः शाखाः। यः मयि स्थितः अस्ति, यस्मिन् अहम् च अवस्थितः, तेन एव बहुफलं फल्यते। यतः मत्तः पृथक् यूयं कित्र्चित् कर्तुम् न शक्नुथ। 6यदि कश्चित् मयि न संस्थितः वर्तते, सः शुष्कशाखायाः इव बहिः निक्षप्यते। जनैः ताः शाखाः सत्र्चित्य अग्नौ क्षिप्त्वा ज्वलन्ति। 7यदि मयि यूयम् अवतिष्ठध्वे युष्मासु चेत् मम शिक्षा अवतिष्ठते तर्हि यूयं यत् प्रार्थयिष्यध्वे तत् युष्मभ्यं प्रदास्यते। 8मम पितुः महिमा अस्मात् प्रकाशं प्राप्स्यति यद् यूयं बहुफलदाः मम शिष्याः च भविष्यथ।
भातृस्नेहस्य आदेशः
9“यथा पिता मयि स्नेहम् अकुरुत, तथा युष्मासु अहं प्रेम चक्रे। युष्माभिः मम स्नेहे सदा दृढ़ाः वर्तिष्यध्वे। 10यथा मयापि ममपितुः सर्वे आदेशाः परिपालिताः तथा तस्य स्नेहे सर्वदा दृढः तिष्ठामि।
11“अहं युष्मान् इदं सर्वम् एतदर्थम् ऊचे, येन यूयं मम आनन्दः युष्माषु तिष्ठेत् युष्माकम् आनन्दः च परिपूर्णः भवेत्। 12मम आज्ञा इयमस्ति - “यथा युष्मान् प्रति अहं सदा प्रेम कृतवान्, तथा युष्माभिः अपि परस्परं प्रेम कर्तव्यम्। 13स्वीयबन्धूनां निमित्तं प्राणात् त्यागात् महत्तरम् प्रेम अस्मिन् लोके कस्यचित् मानवस्य न वर्तते। 14यूयं ममाज्ञानां पालनं चेत् कुरुध्वे, तर्हि मम बान्धवाः स्थ। 15अतः परं अहम् युष्मान् सेवकान् न कथयामि। सेवकः नैव जानाति स्वामिना किं करिष्यते। अहं युष्मान् मित्रम् ऊचे, यतः पितुः यत् श्रुतम्, तत् सर्वम् कथितम्। 16युष्माभिः अहं न वरीतः अस्मि, किन्तु अहम् युष्मान् वरीतवान् तथा नियुक्तवान्, येन गत्वा फलिष्यथ। युष्माकं फलं तिष्ठेत्, मम नाम्ना पितरं यत् प्रार्थयिष्यध्वे, असौ तद् दास्यति। 17अहम् युष्मान् आज्ञापयामि - यूंयं सर्वदामिथः प्रेम कुरुत।
संसारस्य द्वेषः
18“यदि युष्मान् जगद् द्वेष्टि, तर्हि बुध्यध्वम् यद् युष्मदग्रतः तेन अहम् एव विदि्वष्टः अस्मि। 19संसारेण सह आबद्धाः यूयं चेत् अभविष्यत तर्हि युष्मान् प्रति सः स्वान् मत्वा प्रेम अकरिष्यत्, किन्तु यूयं संसारस्य न स्थ, यतः मया संसारस्य मध्यात् यूयं वरीताः स्थ, अतः जगत् युष्मान् द्वेष्टि। 20मया यूयं यत् कथिताः, स्मरत - सेवकः स्वामितः कथत्र्चित् महत्तरः नास्ति। अहं तैः पीडितः, ते युष्मान् अपि पीडयिष्यन्ति। मम वचनस्य पालनं चेत् ते अकुर्वन्, युष्माकं चापि मंस्यन्ते। 21एतत् सर्वम् तु तैः युष्मान् प्रति मन्नामकारणात् कारिष्यते, यतः ते मम प्रेषकम् न जानन्ति।
22‘यदि अहम् न आगमिष्यम्, तेभ्यः शिक्षां न अदास्यम्, तर्हि ते पापविमुक्ताः अवर्तिष्यन्त। किन्तु इदानीं तेषां स्वपापानि निह्णोतुं न कश्चित् उपायः विद्यते। 23यः मां द्वेष्टि, स मम पितरम् अपि द्वेष्टि। 24मया तु तानि कर्माणि नान्यैः कृतानि च न अकरिष्यन्त, तेषां चेत् समक्षं, तर्हि ते सदा पापेन विनिर्मुक्ताः अभविष्यन्। परन्तु इदानीं तु दृष्ट्वा अपि मां तथा ममपितरं दि्वश्टवन्तः। 25इदम् इदृक् अभवत्, यत् तेषां धर्मग्रन्थस्य इदं वचः पूर्णंम् भवेत् - तैः अकारणमेव मया सह वैरम् आविष्कृतम्।
26“यदा असौ सहायकः मत्पितुः पार्श्वात्, सत्यस्य आत्मा आगमिष्यति, यः मया मत्पितुः पार्श्वात् युष्माकम् अन्तिकं प्रेषयिष्यते, तदा असौ मम विषये साक्ष्यं दास्यति, 27यूयम् अपि साक्ष्यं दास्यथ, यतः यूयं प्रारंभात् मया साद्र्धम् वर्तध्वे।
Pilihan Saat Ini:
यूहन्नः 15: SANSKBSI
Sorotan
Berbagi
Salin

Ingin menyimpan sorotan di semua perangkat Anda? Daftar atau masuk
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.