मत्ति 27

27
रोमनसम्राजः पिलातुसस्‍य समक्षं
(मर 15:1; लूका 22:66; 23:1; यूह 18:28)
1प्रभाते महापुरोहिताः समाजस्‍य धर्मवृद्‌धाः च येशोः वधाय परामर्शम्‌ कृतवन्‍तः। 2ते येशुं बद्‌ध्‍वा प्रान्‍ताधिपतये पिलातुसाय समर्पयन्‌।
यूदसस्‍यात्‍महत्‍या
3यदा विश्‍वासघाती यूदसः दृष्‍टवान्‌ यत्‌ येशवे दण्‍डाज्ञा प्रदत्ता अस्‍ति, तदा सः भृशम्‌ पश्‍चात्तापी अभवत्‌ तथा रजतस्‍य त्रिंशत्‌ मुद्राः प्रत्‍यर्पयन्‌ महापुरोहितान्‌ धर्मवृद्‌धान्‌ च उवाच 4“मया पूतं दोषशून्‍यं शोणितम्‌ पणीकृत्‍य पापं कृतं, येन म्‍लानं मनो मम।” तै उक्‍तम्‌, “नः किम्‌ एतेन त्‍वया एव आलोच्‍यताम्‌ इदम्‌।” इदं वचनं श्रुत्‍वा सः हृदयेन विव्‍यथे। 5ततः असौ रौप्‍यमुद्राः ताः तत्र मन्‍दिरे निक्षिप्‍य, गत्‍वा प्रतिलम्‍ब्‍यात्‍मानं प्राणान्‌ तत्‍याज।
6महापुरोहिताः ताः मुद्राः नीत्‍वा बभाषिरे, “एताः कोषे न निक्षेप्‍याः इमाः रक्‍तस्‍य मूल्‍यानि सन्‍ति।” अतः 7मन्‍त्रणां कृत्‍वा ते ताभिः विदेशिनां कृते तेषां समाधये, कुम्‍भकारस्‍य भूमिम्‌ अक्रीणन्‌। 8अतएव सा भूमिः लोकेषु अद्यापि “रक्‍तभूमिः” कथ्‍यते। 9इत्‍थं यिर्मयाहस्‍य नबिनः वाणी पूर्णा अभूत्‌, “तैः आहृताः मुद्राः त्रिंशद्‌ या रौप्‍यनिर्मिताः। तत्‌ मूल्‍यं इस्राएलस्‍य पुत्रैश्‍च तस्‍मै अमूल्‍यजनाय निर्धारितं, 10ते ताः मुद्राः कुम्‍भकारस्‍य भूमये दत्तवन्‍तः, यथा अहं प्रभुना आदिष्‍टः।”
प्राणदण्‍डस्‍य आदेशः
(मर 15:2-15; लूका 23:2-5; यूह 18:29-40)
11अथः येशुः प्रान्‍ताधीशस्‍य सम्‍मुखं स्‍थितः आसीत्‌। प्रान्‍ताधीशं तम्‌ पृष्‍टवान्‌, “किं त्‍वं यहूदिनाम्‌ राजा असि?” तं येशुः अब्रवीत्‌, “भवता सत्‍यमुच्‍यते।” 12महापुरोहिताः धर्मवृद्‌धाश्‍च तस्‍य उपरि असत्‍यम्‌ अभियोगम्‌ अकुर्वन्‌, किन्‍तु येशुः तान्‌ कित्र्चन्‌ न प्रत्‍यवोचत्‌। 13पिलातुसः तदा येशुं प्राह, “किं त्‍वं न शृणोषि, इमे अनल्‍पं साक्ष्‍यवचनं त्‍वद्विरुद्धं वदन्‍ति।” 14सः तु तस्‍मै न कस्‍यापि वचनस्‍य उत्तरं ददौ। इदं दृष्‍ट्‌वा प्रान्‍ताधीशपिलातुसाय अति विस्‍मयः अभवत्‌।
15उत्‍सवस्‍य अवसरे प्रान्‍ताधीशः प्रतिवर्षं कत्र्चिद्‌ एकं नरं कारागारात्‌ बन्‍धनात्‌ अमुत्र्चत्‌। 16तस्‍मिन्‌ समये बरब्‍बसः नाम कुख्‍यातः कश्‍चित्‌ जनः कारागृहे चिरात्‌ बद्धः आसीत्‌। 17अतः पिलातुसः सर्वान्‌ उपस्‍थितान्‌ जनान्‌ अपृच्‍छत्‌, “यूयं किम्‌ इच्‍छथ? युष्‍माभिर्मोचनं मत्तः कतरस्‍य अभिवात्र्छयते? बरब्‍बसं येशुम्‌ वा?” 18यतः पिलातुसः जानाति स्‍म यत्‌ तस्‍मै ते ईर्ष्‍यया येशुम्‌ समर्पितवन्‍तः।
19पिलातुसः न्‍यायासने समासीनः एव आसीत्‌, तस्‍य पत्‍नी कत्र्चित्‌ प्रेष्‍य तं जगाद, “धर्मात्‍मनः जनस्‍य अस्‍य व्‍यापारे त्‍वया हस्‍तक्षेपः न कर्तव्‍यः, यतो हि अस्‍य कृते स्‍वप्‍ने मह्‌यम्‌ महती यातना सत्र्जाता।”
20अस्‍य मध्‍यान्‍तरे प्रधानपुरोहिताः धर्मवृद्धाश्‍च जनानां माध्‍यमेन येशोः वधः, बरब्‍बसः इति नाम्‍नः जनस्‍य मोचनम्‌ च याचितवन्‍तः। 21प्रान्‍ताधीशः पुनस्‍तान्‌ तथैव परिपृष्‍टवान्‌, “युष्‍माभिः मत्तः कतरस्‍य मोचनं अभिवात्र्छ्‌यते?” सर्वैः तैः उत्तरं दत्तम्‌, “बरब्‍बसम्‌।” 22सः अपृच्‍छत्‌, “किं तर्हि मया येशुं प्रति विधातव्‍यम्‌, यः मसीहः कथ्‍यते?” सर्वे तम्‌ अब्रुवन्‌ “क्रूसम्‌ आरोप्‍यताम्‌ अयम्‌।” 23-24पिलातुसः तान्‌ पप्रच्‍छ, “कोऽपराधोऽस्‍य वर्तते?” किन्‍तु ते सर्वे क्रोशन्‍तः उच्‍चैः स्‍वरैः ऊदुः, “अस्‍मै क्रूसं ददीत, अस्‍मै क्रूसं ददीत।” तदा पिलातुसः स्‍वं सर्वम्‌ यत्‍नं निष्‍फलम्‌ वीक्ष्‍य, प्रत्‍युतालोक्‍य कलहं वर्द्धमानं तोयम्‌ आदाय सर्वेषां पुरः स्‍वौ करौ प्रक्षाल्‍य प्रोक्‍तवान्‌, “शोणितस्‍य अस्‍य धर्मप्राणस्‍य पातने, दोषी न एव अहम्‌ अस्‍मि युष्‍माभिः अवगम्‍यताम्‌।” 25कृत्‍स्‍नः जननिवहः पिलातुसम्‌ प्रत्‍युवाच, “अस्‍य मनुष्‍यस्‍य शोणितम्‌ अस्‍माकं समस्‍तानां सन्‍तानानां शिरस्‍सु एव भवेत्‌।”
26पिलातुसः तेषां कृते बरब्‍बसं मुक्‍तवान्‌ तथा कशाभिः ताडितुम्‌ आदिश्‍य क्रूसे आरोपणाय च स्‍वान्‌ सैनिकान्‌ समादिश्‍य तेभ्‍यो येशुं समर्पयत्‌।
कण्‍टकनिर्मितं मुकुटम्‌
(मर 15:16-20; यूह 19:2-3)
27तत्‍पश्‍चात्‌ प्रान्‍ताधीशस्‍य सैनिकाः येशुम्‌ राजभवनाभ्‍यन्‍तरं नीत्‍वा, तं परितः सर्वम्‌ सैन्‍यदलम्‌ एकत्रं कृतवन्‍तः। तैः 28तस्‍य वासांसि अवतार्य रक्‍तवर्णम्‌ कत्र्चुकं पर्यधापयन्‌, 29कण्‍टकैः मुकुटं तस्‍य नग्‍ने मस्‍तके निदधुः। तस्‍य दक्षिणकरे एकं नलं समर्प्‍य ते तस्‍य समक्षं जानुपातम्‌ उपाविशन्‌। ईदृशम्‌ वाक्‍यम्‌ ब्रुवन्‍तः ते उपहासं चक्रुः, “यहूदिनां राजा! त्‍वां नमस्‍कुर्महे वयम्‌।” 30पुनश्‍च तस्‍मिन्‌ निष्‍ठीव्‍य, तत्‍करात्‌ नलम्‌ आदाय तेन एव तस्‍य मस्‍तकं निर्दयतया तैः आताडयन्‌। 31इत्‍थं तस्‍य उपहासं कृत्‍वा, तस्‍य वासांसि च मोचयित्‍वा, स्‍ववासांसि तं सर्वे पर्यधापयन्‌ येशुं क्रूसम्‌ आरोपयितुम्‌ अनयन्‌।
क्रूसे आरोपणम्‌
(मर 15:21-27; लूका 23:33-34,38; यूह 19:17-24)
32नगरात्‌ निर्गच्‍छन्‍तश्‍च ते कुरेनदेशस्‍य निवासिनम्‌ सिमोनं प्राप्‍य तं येशोः क्रूसं वोढुम्‌ समादिशन्‌।
33ततः ते “गुलगुता” नामकं स्‍थानं आगतवन्‍तः, यत्‌ “कपालस्‍थलम्‌” कथ्‍यते। 34तत्र ते पित्तमिश्रितम्‌ अम्‍लरसं पातुम्‌ येशवे अददुः। सः तम्‌ अस्‍वाद्‌य, तं पातुं न अंगीचकार।
35अनन्‍तरं च ते येशुं क्रूसम्‌ आरोप्‍य तस्‍य च वस्‍त्राणि गुटिकापातैः मिथः सर्वे बिभेजिरे।
36तत्‍पश्‍चात्‌ ते तत्रासीनाः समाहिताः तमाररक्षुः।
37येशोः मस्‍तकोपरि ते दोषपत्रं बबन्‍धुश्‍च। तत्राभियोगपत्रे च इदं लेख्‍यम्‌ आसीत्‌ “यहूदिनां राजा येशुः वर्तते।”
38येशुना सह क्रूसे द्वौ दस्‍यू च आरोपितौ - एकस्‍तु दक्षिणे भागे, वामे तस्‍य अपरः तथा।
अपमानः उपहासश्‍च
(मर 15:28-39)
39आव्रजन्‌ वा अव्रजन्‌ तेन मार्गेण मानवाः शिरांसि चालयन्‍तः ते येशुम्‌ एवम्‌ अवदन्‌, 40“अहो ! मन्‍दिरभञजकस्‍तन्‍निर्माता च दिनत्रये। त्‍वं चेद्‌ परमेश्‍वरपुत्रः असि, तर्हि क्रूसात्‌ अवतर।” 41इत्‍थमेव शास्‍त्रिणः धर्मवृद्‌धैः सह महापुरोहिताः अपि तस्‍योपहासं कुर्वन्‍तः एवं बभाषिरे, 42“एषः रक्षितवान्‌ अन्‍यान्‌, इदानीम्‌ आत्‍मानं रक्षतु। अयं तु इस्राएलस्‍य नृपः वर्तते, क्रूसात्‌ अवतरतु, तदा अस्‍मिन्‌ जने अस्‍माकं विश्‍वासः भविष्‍यति। 43परमेश्‍वरे एषः विश्‍वासं सुदृढं कृतवान्‌। परमेश्‍वरः चेत्‌ अस्‍मिन्‌ प्रसन्‍नः अस्‍ति, तर्हि असौ त्रायतामिमम्‌। अनेन कथितम्‌, “अहम्‌ परमेश्‍वरस्‍य पुत्रो अस्‍मि।” 44क्रूसे आरोपितौ दस्‍यू यौ येशुना सह आस्‍ताम्‌ तौ अपि तथैव तस्‍य निन्‍दां चक्रिरे।
येशोर्मृत्‍युः
(मर 15:33-41; लूका 23:44-49; यूह 19:28-30)
45मध्‍याह्‌नात्‌ तु प्रहरत्रयम्‌ असौ प्रदेशः गाढान्‍धतमसा आवृतः आसीत्‌। 46प्रायः तृतीये प्रहरे येशुः उच्‍चैः अभाषत, “एली! एली! लेमा सबाखतानी?” तात्‍पर्यमस्‍य यत्‌ “हे प्रभो! हे प्रभो! मां त्‍वं किमर्थम्‌ त्‍यक्‍तवानसि? 47तत्‌ श्रुत्‍वा तत्‌ समीपस्‍थाः केचन्‌ इदम्‌ अवादिषुः, अयम्‌ एलियाहम्‌ आह्‌वयति। 48तेषु एकः द्रुतं धावित्‍वा वारिशोषं समानयत्‌। तम्‌ अम्‍लरसे निमज्‍ज्‍य नलाग्रे निधाय च येशवे पातुम्‌ दत्तवान्‌, 49अपरे तं न्‍यवारयन्‌ अवदन्‌ च, “त्‍यज, इमं रक्षितुम्‌ एलियाहः आयाति न वा।” 50येशुः पुनस्‍तथा उच्‍चैः वाक्‍यं तत्‌, उत्‍क्रुश्‍य प्राणान्‌ तत्‍याज।
51तस्‍मिन्‍नेव क्षणे मन्‍दिरस्‍य प्रतिसीरा अग्रतः अधस्‍ताद्‌ यावत्‌ द्विधा व्‍यदीर्यत। कृत्‍स्‍ना वसुधा चचाल, शैलाः च अपि विचिच्‍छिदुः। 52शवागाराणि उद्‌घाटितानि, बहूनां मृतसाधूनां शवानि पुनः उत्‍थितानि। 53ते येशोः पुनरुत्‍थानस्‍य पश्‍चात्‌ शवगारेभ्‍यः विनिर्ययुः, पुण्‍यनगरं प्रविश्‍य, “पुनर्जीवितानि शवानि अनेकेषां मानवानाम्‌ दृष्‍टिगोचरतां ययुः। 54भूकम्‍पं चापराः सर्वाः ताः घटनाः च विलोक्‍य, शतपतिः सैनिकाश्‍च येशुरक्षणे नियुक्‍ताः परां भीतिं समासाद्‌य अब्रुवन्‌, “अवश्‍यं हि, एषः पुरुषः परमेश्‍वरस्‍य पुत्रः आसीत्‌।”
55तत्र बहवः स्‍त्रियः अपि दूरतः वीक्षमाणाश्‍च आसन्‌। ताः येशोः सेवापरिचर्याम्‌ कुर्वन्‍त्‍यः गलीलप्रदेशात्‌ येशुना सह आयाताः। 56तासु मरियममगदलेना, याकूबयूसुफयोः माता मरिया, जेबेदिपुत्रयोः माता आसन्‌।
येशोः शवागारे स्‍थापनम्‌
(मर 15:42-47; लूका 23:50-53; यूह 19:38-42)
57सन्‍ध्‍याकाले समायाते अरिमतियाहस्‍य निवासी कश्‍चन धनिकः आगतः। तस्‍य नाम यूसुफः आसीत्‌। सोऽपि येशोः शिष्‍यः आसीत्‌। 58असौ पिलातुसम्‌ उपेत्‍य येशोः शवम्‌ अयाचत। पिलातुसः आदिदेश, “शवं तस्‍मै प्रदीयेत।” 59यूसुफः शवम्‌ आदाय क्षौमवाससा तं वेष्‍टयामास, शवागारे तम्‌ न्‍यधात्‌ च। 60शवागारं च तत्‌ तेन स्‍वार्थम्‌ विनिर्मितम्‌ आसीत्‌। शवागारमुखे महान्‍तं गुरुम्‌ प्रस्‍तरम्‌ अतियत्‍नेन लोठयित्‍वा प्रयातवान्‌। 61मरियममगदलेनी तथा अपरा मरिया तत्र शवागारस्‍य सम्‍मुखम्‌ समासीने आस्‍ताम्‌।
शवागारस्‍य रक्षा
62शुक्रवारात्‌ परम्‌ अन्‍यस्‍मिन्‌ दिवसे, ते महापुरोहिताः फरीसिनः समेत्‍य पिलातुसम्‌ गत्‍वा तं प्रोक्‍तवन्‍तः, 63“श्रीमन्‌! सः वत्र्चकः स्‍वजीवनकाले एव इदम्‌ उक्‍तवान्‌, यत्‌ मया त्रयाणां दिवसानां परम्‌ अवश्‍यम्‌ उत्‍थास्‍यते। 64अतः तृतीयं दिवसं यावत्‌ तत्‌ शवागारम्‌ रक्षितुम्‌ आदेशम्‌ ददीत। अन्‍यथा तस्‍य शिष्‍याः तं रात्रौ हृत्‍वा, अपनीय च कथयिष्‍यन्‍ति, यत्‌ मृतेभ्‍यो असौ समुत्‍थितः। इयम्‌ अन्‍तिमा भ्रान्‍तिः तु पूर्वाभ्‍यः भ्रान्‍तिभ्‍यो अनिष्‍टतरा भविष्‍यति।” 65पिलातुसः तान्‌ आह, “भवन्‍तः रक्षकान्‌ इमान्‌ नीत्‍वा रक्षायाः यथोचितम्‌ सुप्रबन्‍धं कुर्वन्‍तु।” 66ते गतवन्‍तः, तं प्रस्‍तरं मुद्रया अडि्‌.कतम्‌ कृत्‍वा रक्षकैः शवागारं सुरक्षितम्‌ कृतवन्‍तः।

वर्तमान में चयनित:

मत्ति 27: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in