मत्ति 26

26
येशोः वधस्‍य अभिसन्‍धिः
(मर 14:1-2; लूका 22:1-2; यूह 11:45-57)
1एतान्‌ उपदेशान्‌ सर्वान्‌ येशुः परिसमाप्‍य स्‍वकान्‌ शिष्‍यान्‌ अवदत्‌, 2किं यूयं जानीथ यद्‌ द्वयोर्दिनयोः पश्‍चात्‌ पास्‍कापर्व भविष्‍यति। तदा मानवपुत्रः क्रूसस्‍य आरोपणाय ग्रहिष्‍यते?
3तस्‍मिन्‌ समये कैफ़सनाम्‍नः प्रधानपुरोहितस्‍य प्रासादे शास्‍त्रिणः, जननेतारश्‍च एकत्राः अभवन्‌। 4ते मिथः परामर्शम्‌ कृतवन्‍तः कथं वयं छलात्‌ येशुं धृत्‍वा व्‍यापादेयम च। 5पुनश्‍च ते मिथः प्रोचुः “उत्‍सवस्‍य दिनेषु एतत्‌ न भवितव्‍यम्‌ न चेत्‌ एतेन जनतासु कोलाहलः भवेत्‌।
बेतनियाहे येशोः अभ्‍यंजनम्‌
(मर 14:3-9; यूह 12:1-8)
6यदा येशुः बेतनियाहग्रामे सिमोनकुष्‍ठिनः गृहे आसीत्‌, 7तदा काचिद्‌ योषित्‌ स्‍फटिकभाजने सुगन्‍धितं तैलम्‌ आनीय येशोः मस्‍तके अस्रावयत्‌। तदा येशुः भोजने रतः आसीत्‌। 8एतत्‌ समालोक्‍य शिष्‍याः असन्‍तुष्‍टाः भूत्‍वा अवदन्‌ च, “अयम्‌ अपव्‍ययः किमर्थम्‌? 9अस्‍मिन्‌ तैले विक्रीते मूल्‍येन महता मूल्‍यं लब्‍धं च तत्‌ दीनेभ्‍यः प्रदातुम्‌ अशक्‍यत।” 10येशुः तत्‌ विज्ञाय तान्‌ एवम्‌ अब्रवीत्‌, “यूयं कथं इमां महिलां दुखितां कुरुथ। मत्‍कृते अनया श्रद्धया भद्रं कर्म कृतम्‌। 11यतो दरिद्राः युष्‍माभिः सह सर्वदा स्‍थास्‍यन्‍ति, परन्‍तु अहं युष्‍माभिः सह सर्वदा न स्‍थास्‍यामि। 12अनया मे शवागारे विनिक्षेपणप्रस्‍तुतो सुगन्‍धितैललेपस्‍य मम शरीरे विधिः कृतः। 13अहं युष्‍मान्‌ ब्रवीमि, समस्‍तसंसारे यत्रापि अस्‍य शुभसमाचारस्‍य प्रचारः करिष्‍यते, तत्र अस्‍याः स्‍मृतौ अस्‍य कार्यस्‍य चर्चा भविष्‍यति।”
यूदसस्‍य विश्‍वासघातः (यहूदः)
(मर 14:12-16; लूका 22:7-13)
14द्वादशशिष्‍याणामेकः “यूदसः इस्‍करियोती इति नाम एक जनः मुख्‍यपुरोहितानां पार्श्‍वे गत्‍वा कथितवान्‌, 15”अहं येशुं युष्‍मभ्‍यम्‌ चेत्‌ समर्पये, तदा यूयं तदर्थम्‌ मह्‌यम्‌ किं दातुं प्रस्‍तुताः स्‍थ?” ते तस्‍मै त्रिंशत्‌ रजतनिर्मिताः मुद्राः अददुः। 16तस्‍मात्‌ समयात्‌ यूदसः येशुं ग्राहयितुम्‌ अवसरस्‍य अन्‍वेषणम्‌ अकरोत्‌।
पास्‍काभोज्‍यम्‌ (फसहस्‍य)
(मर 14:12-16; लूका 22:7-13)
17बेखमीरपूपानां प्रथमे दिने शिष्‍याः येशुम्‌ उपेत्‍य अब्रुवन्‌, “किं भवान्‌ अभिवात्र्छति, भवते पास्‍काभोजस्‍य प्रबन्‍धं कुर्महे?” 18येशुः तान्‌ अवदत्‌, “यूयं नगरस्‍थम्‌ अमुकं जनं गत्‍वा निगदत, गुरुः भाषते-मम समयः आसन्‍नः वर्तते, अतः स्‍वशिष्‍यैः सह तव भवने मे पास्‍काभोजनं भविष्‍यति।” 19येशुना ते यथा आदिष्‍टः, तथैव ते कृतवन्‍तः, पास्‍काभोजस्‍य प्रबन्‍धे ते निरताः अभवन्‌।
यूदसस्‍य विश्‍वासघातस्‍य संकेतः
(मर 14:17-21; लूका 22:14,21-23; यूह 13:21-30)
20सन्‍ध्‍याकाले समायाते येशुः द्वादशशिष्‍यैः सह भोजनाय उपाविशत्‌। 21तेषां भोजनसमये येशुः सर्वान्‌ अभाषत, “अहं युष्‍मान्‌ ब्रवीमि - युष्‍मासु कश्‍चन मां ग्राहयिष्‍यति।” 22इदं श्रुत्‍वा चिन्‍तिताः सन्‍तः एकः एकः पृष्‍टवान्‌, “प्रभो! किं सः अहम्‌ एव अस्‍मि?” 23येशुः प्रत्‍यवोचत्‌, “यः स्‍थाल्‍यां मया सह खादति, सः मां ग्राहयिष्‍यति। 24मानवपुत्रस्‍तु प्रयाति - यथा लिखितमस्‍ति। धिक्‌ तं, येन मानवपुत्रः ग्राह्‌यते। अभविष्‍यच्‍छुभं तस्‍य नरस्‍य नैव तस्‍य अभविष्‍यत्‌ चेत्‌ जन्‍म अस्‍मिन्‌ संसारे।” 25विश्‍वासघाती यूदसोऽपि येशुम्‌ अपृच्‍छत्‌, “प्रभो! किं सः अहम्‌ एव अस्‍मि?” येशुः तम्‌ अवदत्‌, “त्‍वया सत्‍यं कथितम्‌।”
प्रभोः भोजनस्‍य (परमप्रसादस्‍य) स्‍थापना
(मर 14:22-25; लूका 22:15-20)
26तेषु भोजनं कुर्वत्‍सु येशुः पूपं गृहीतवान्‌। विधाय धन्‍यवादान्‌ सः प्रार्थनाम्‌ अकरोत्‌। ततः सः तं पूपं भड्‌.क्‍त्‍वा, शिष्‍येभ्‍यः तं वितीर्य च प्राह, “गृह्‌णीत, अश्‍नीत, इदं मे शरीरम्‌।” 27तदा पानपात्रं स्‍वे करे कृत्‍वा धन्‍यवादस्‍य प्रार्थनाम्‌ अकरोत्‌, इदं कथयन्‌ शिष्‍येभ्‍यो दत्तवान्‌, “इदं पिबत, 28एतद्‌ मे रक्‍तम्‌, विधानस्‍य रक्‍तम्‌, यत्‌ बहूनां पापमुक्‍त्‍यर्थम्‌ विस्राव्‍यते।” 29अहं युष्‍मान्‌ ब्रवीमि - “यावत्‌ अहं पितुः राज्‍ये युष्‍माभिः सह नवं रसं न पास्‍यामि, तावत्‌ इदं द्राक्षारसं पुनः न पास्‍यामि।”
शिष्‍याणां पतनस्‍य भविष्‍यवाणी
(मर 14:26-31; लूका 22:31-34; यूह 13:36-38)
30स्‍तोत्रगीतस्‍य अवसाने असौ जैतूनपर्वतं गतः। 31तस्‍मिन्‌ समये येशुः शिष्‍यान्‌ कथितवान्‌, “अस्‍यां तु रात्रौ यूयं मत्‌ कारणात्‌ विचलिताः भविष्‍यथ। यतः यत्‌ लिखितमस्‍ति - “अहं पशुचारकं हनिष्‍यामि, यूथस्‍य मेषाः विकीर्णताम्‌ एष्‍यति; 32स्‍वस्‍य पुनरुत्‍थानस्‍य पश्‍चात्‌ युष्‍माकं प्राक्‌ एव अहं गलीलियाम्‌ गमिष्‍यामि।” 33एतद्‌ श्रुत्‍वा पतरसः येशुम्‌ अवदत्‌, “भवतः हेतोः एते विचलिताः भवेयुः, परन्‍तु अहं कदाचन विचलितः न भविष्‍यामि।” 34येशुः तं प्रत्‍यवोचत्‌, “अहं तु सत्‍यं वदामि - अस्‍याम्‌ एव निशायां कुक्‍कुटध्‍वनेः प्राक्‌ उत्‍थिते, त्‍वं त्रिवारं मे प्रत्‍याख्‍यानं करिष्‍यसि।” 35पतरसः येशुम्‌ अवदत्‌, “भवता सह यद्यपि मृत्‍युः मे स्‍यात्‌, तथापि त्‍वां न प्रत्‍ख्‍यास्‍यामि।” एवमेव ते सर्वे शिष्‍याः तम्‌ अब्रुवन्‌।
गेतसेमन्‍याम्‌ वाटिकायाम्‌ येशोः प्राणपीडा
(मर 14:32-43; लूका 22:39-40)
36यदा येशुः स्‍वकैः शिष्‍यैः सह गेतसेमनीम्‌ प्राप्‍तवान्‌, तदा तान्‌ अवदत्‌, “यूयम्‌ अत्र उपविशत। अहं तावत्‌ तत्र प्रार्थनां कर्तुम्‌ गच्‍छामि।” 37सः पतरसं जेबेदिनश्‍च द्वौ पुत्रौ आत्‍मना सार्द्धम्‌ नीतवान्‌। 38येशुः शोकाकुलः विषण्‍णश्‍च भूत्‍वा तान्‌ इदम्‌ अब्रवीत्‌, “मम आत्‍मा शोकम्‌ आपन्‍नः मृत्‍युः मे भविता यथा। यूयम्‌ अत्र तिष्‍ठत मया सह जाग्रत च। 39किंचित्‌ अग्रे गत्‍वा भुवि अधोमुखः न्‍यपतद्‌, एवं कथयन्‌ प्रार्थनाम्‌ अकरोत्‌, मत्‍पितः! चेत्‌ एतत्‌ शक्‍यम्‌ पानपात्रम्‌ अपसरेत्‌। तथापि मम इच्‍छा न, अपितु भवतः इच्‍छैव पूर्णा भवेत्‌।” 40तदा सः स्‍वान्‌ शिष्‍यान्‌ एत्‍य, तान्‌ निद्रायां दृष्‍ट्‌वा, पतरसम्‌ आह, “किं यूयम्‌ एकां घण्‍टां अपि मया सह जागर्तुम्‌ न अशक्‍नुत? 41जागृत प्रार्थयध्‍वं च, येन यूयं परीक्षायां न पतिष्‍यथ। आत्‍मा तु तत्‍परः, किन्‍तु शरीरं तु अति दुर्बलम्‌।”
42येशुः पुनः द्वितीयवारं गतवान्‌, तेन इत्‍थं कथयन्‌ प्रार्थना कृता, “मत्‍पितः! इदं पानपात्रम्‌ चेत्‌ मे पानेन विना मत्‌ अपसरितुं न एव शक्‍नोति, तर्हि भवतः इच्‍छा एव सिध्‍यतु।” पुनश्‍च 43तान्‌ शिष्‍यान्‌ तथैव निद्राणान्‌ समलोकयत्‌। तेषां नेत्राणि निन्‍द्रालसानि आसन्‌। 44येशुः तान्‌ परित्‍यज्‍य गत्‍वा तत्र तथैव व्‍याहरन्‌, पुनः तृतीयकं बारं प्रार्थयामास।
45अनन्‍तरं स तान्‌ शिष्‍यान्‌ उपगम्‍य इदम्‌ अब्रवीत्‌, “इदानीमपि किं यूयं निद्राकुलाः विश्राम्‍यथ?” पश्‍यत, कालः उपस्‍थितः, यदा मानवपुत्रः पापात्‍मनां करे समर्पितः भविष्‍यति। 46अतएव उत्तिष्‍ठत, गच्‍छामः, मम विश्‍वासघाती मे समीपम्‌ आगतः अस्‍ति।
येशोर्बन्‍धनम्‌
(मर 14:43-50; लूका 22:47-53; यूह 18:3-11)
47येशुः ब्रुवन्‌ एव आसीत्‌ द्वादशानां सः यूदसः एकः तत्र आगतः। तेन सार्द्धम्‌ दण्‍डासि - धारिणाम्‌, दर्शकानां च महान्‌ जनानां राशिः आसीत्‌। सः महापुरोहितैः समाजस्‍य धर्मवृद्धैश्‍च प्रेषितः आसीत्‌। 48विश्‍वासघाती तेभ्‍यः इमं संकेतं दत्तवान्‌ “यम्‌ अहम्‌ चुम्‍बयिष्‍यामि, सः असौ, तं धरत।” ततः सः येशोः समीपं प्राप्‍य प्रोक्‍तवान्‌, 49”गुरो! त्‍वां सादरं नौमि” इति उक्‍त्‍वा तं चुचुम्‍ब। 50येशुः तम्‌ अब्रवीत्‌, “मित्र! यदर्थम्‌ इह आगतः कुरुष्‍व।” तदा जनाः येशोः अन्‍तिकम्‌ आगत्‍य, तं गृहीत्‍वा बबन्‍ध च।
51येशोः संगिनाम्‌ एकः स्‍वेन असिना प्रधानमहापुरोहितस्‍य दासस्‍य एकं कर्णम्‌ आहरत्‌। 52येशुः मित्रम्‌ आह, “खड्‌गं कोषे निधेहि, यतः ये खड्‌गम्‌ उत्तोलयन्‍ति, ते खड्‌गैः विनश्‍यन्‍ति। 53यूयं किम्‌ एतत्‌ मन्‍यध्‍वे यत्‌ अहम्‌ स्‍वकं पितरं साहाय्‍यं याचितुं नैव शक्‍नोमि? किं सः इदानीं मह्‌यम्‌ द्वादशभ्‍योऽपि सेनाभ्‍यः शक्‍तिशालिनः अधिकान्‌ स्‍वर्गदूतान्‌ न प्रेषयिष्‍यति? 54परन्‍तु धर्मग्रन्‍थस्‍य उक्‍त्‍यः कथम्‌ सेत्‍स्‍यन्‍ति? तत्र लिखितमस्‍ति, इदृशम्‌ एव भवितव्‍यम्‌ आवश्‍यकमस्‍ति।”
55तदनन्‍तरम्‌ येशुः जनसमूहम्‌ उवाच, “कि यूयं मां दस्‍युम्‌ अवगच्‍छथ? यत्‌ खड्‌गान्‌ दण्‍डान्‌ च नीत्‍वा समागताः? अहं तु प्रत्‍यहं मन्‍दिरे युष्‍मत्‌ सकाशम्‌ उपविश्‍य युष्‍मान्‌ शिक्षयन्‌ आसम्‌ तथापि युष्‍माभिः मां धर्तुम्‌ यत्‍नः न हि व्‍यधीयत।”
56सर्वम्‌ एतत्‌ तु सम्‍भूतं नबिभिः लिखितं, तत्‌ सर्वम्‌ सिद्धिमाप्‍नोतु। तदा सर्वे शिष्‍याः येशुं परित्‍यज्‍य पलायितवन्‍तः।
धर्ममहासभायाः समक्षम्‌
(मर 14:53-55; लूका 22:54-55,63-71; यूह 18:13,19-24)
57ये येशुं धृतवन्‍तः, ते प्रधानमहापुरोहितं कैफसं तं निन्‍युः, यत्र धर्मवृद्धाः शास्‍त्रिणश्‍च एकत्राः अभवन्‌। 58पतरसः दूरतः येशुम्‌ अनुसरन्‌ गतः। प्रधानमहापुरोहितस्‍य भवनं सम्‍प्राप्‍य अभ्‍यन्‍तरं गतवान्‌, परिणतिं द्रष्‍टुं तत्र एव सेवकैः सह समुपाविशत्‌।
59प्रधानपुरोहिताः सर्वा कृत्‍स्‍ना सा च धर्ममहासभा येशुं हन्‍तुं तस्‍य विरुद्धं कित्र्चन मृषासाक्ष्‍यं समावेष्‍टुं अयतन्‍त, 60किन्‍तु ते तत्‌ न लेभिरे। यद्यपि अनेके मृषासाक्ष्‍यप्रदायिनः तत्र आसन्‌। 61अन्‍ते द्वौ मृषासाक्ष्‍यदायिनौ तत्र समायातौ। तौ इदं प्रोचतुः -’’अयं जनः अकथयत -अहम्‌ ईशमन्‍दिरं भड्‌.क्‍त्‍वा दिनत्रये तच्‍च पुनः तथा कर्तुम्‌ क्षमः।” 62ततः प्रधानमहापुरोहितः उत्‍थाय येशुम्‌ अब्रवीत्‌- “इमौ ते विरुद्धं साक्ष्‍यं दत्तः त्‍वं किं न भाषसे?” 63येशुः तूष्‍णीम्‌ अतिष्‍ठत्‌। तदा प्रधानमहापुरोहितः पुनः येशुम्‌ अब्रवीत्‌, “त्‍वां जीवितपरमेश्‍वरस्‍य शपथः यदि त्‍वं मसीहः, परमेश्‍वरस्‍य पुत्रः असि, नः ब्रूहि।” येशुः तम्‌ आह - 64”भवता सत्‍यम्‌ एव निगद्‌यते। अहं त्‍वाम्‌ इदमपि ब्रवीमि - भविष्‍ये भवान्‌ मानवपुत्रं सर्वशक्‍तिमतः दक्षिणे आसीनं, नभसः मेघेषु समायान्‍तं द्रक्ष्‍यति।” 65इदं श्रुत्‍वा प्रधानमहापुरोहितः स्‍वीयवासांसि विदार्य बभाषे -”अनेन ईशनिन्‍दा कृता। अतः अस्‍माकं साक्षिभिः प्रयोजनम्‌ न वर्तते? युष्‍माभिः अधुना एव ईशनिन्‍दावचः श्रुतम्‌। 66तदत्र युष्‍माकं विचारः कोऽस्‍ति इति कथ्‍यताम्‌।” ते ऊदुः - “अयं प्राणदण्‍डस्‍य योग्‍यः अस्‍ति।”
67-68तदा ते तस्‍य मुखे न्‍यष्‍ठीवन्‌, मुष्‍टिभिः आजध्‍नुः, अपरे तं प्रहरन्‍तः अवदन्‌ “मसीह! त्‍वं नबी चेत्‌ नः कथयस्‍व-कः त्‍वां ताडितवान्‌।”
पतरसस्‍य अस्‍वीकरणम्‌
(मर 14:66-72; लूका 22:56-62; यूह 18:17-18,25-27)
69पतरसः तदानीं बहिः प्रांगणे समासीनः आसीत्‌। काचिद्‌ दासी तम्‌ उपेत्‍य तं प्राह- “त्‍वम्‌ अपि गलीलीयेन सह आसीः।” 70किन्‍तु तेषां समक्षम्‌ अस्‍वीकुर्वन्‌ इदम्‌ अब्रवीत्‌ - “न एव अहम्‌ अवगच्‍छामि त्‍वया किं कथ्‍यते।” 71तदा तं गोपुरम्‌ अभिसरन्‍तं वीक्ष्‍य काचन अन्‍या दासी तत्र वर्तमानान्‌ जनान्‌ अभाषत- “अयं पुरुषः येशोः नासरिणः सह आसीत्‌।” 72सः शप्‍त्‍वा पुनः अस्‍वीकुर्वन्‌ जगाद - “अहं तं मनुष्‍यं न जानामि।” 73तत्र स्‍थिताः जनाः सर्वे पतरसं समुपागमन्‌ आहुः च - “नूनं त्‍वम्‌ अपि तेषाम्‌ एकः हि असि। यतः तव वचसा इदम्‌ स्‍पष्‍टतां व्रजति।” 74तदा पतरसः विनिन्‍द्‌य शप्‍त्‍वा च पुनः अब्रवीत्‌ - “अहं तं जनं न जानामि।” तस्‍मिन्‌ एव क्षणे कुक्‍कुटः अरौषीत्‌। 75तदा पतरसः येशोः तद्‌ वाक्‍यं सस्‍मार यत्‌ कुक्‍कुटध्‍वनेः पूर्वमेव त्‍वं त्रिवारं मां न स्‍वीकरिष्‍यसि। सः बहिः गत्‍वा स्‍फुटम्‌ रोदितुम्‌ आरेभे।

वर्तमान में चयनित:

मत्ति 26: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in