Logo YouVersion
Îcone de recherche

यूहन्‍नः 3

3
निकोदेमुसेन सह सम्‍भाषणम्‌
1निकोदेमुसः नाम फरीसी यहूदिनां महासभायाः सदस्‍यः आसीत्‌। 2सः रात्रौ येशोः समीपे गत्‍वा तम्‌ इदम्‌ अब्रवीत्‌, “हे रब्‍बीः! वयं जानीमः यत्‌ त्‍वं परमेश्‍वरात्‌ आगतः। यतः अद्‌भुतानि कार्याणि त्‍वया यानि कृतानि, तानि कश्‍चित्‌ जनः परमेश्‍वरेण बिना कर्तुम्‌ न शक्‍नोति। 3येशुः तम्‌ अब्रवीत्‌ - ” यावत्‌ कश्‍चित्‌ मानवः पुनः जन्‍मं न लभते, तावत्‌ स्‍वर्गराज्‍यं द्रष्‍टुं न शक्‍नोति।” 4निकोदेभुसः येशुम्‌ अपृच्‍छत्‌, “वृद्धः भूत्‍वा मानवः कथं पुनर्जन्‍मं प्राप्‍नोति? कथं द्वितीयं वारं जननीजठरं श्रयते?” 5येशुः तं प्रत्‍युतरत्‌, “अहं त्‍वां वदामि -” यावत्‌ कश्‍चित्‌ नरः तोयात्‌ तथा पवित्रात्‍मनः न जायते, तावद्‌ ईश्‍वरस्‍य राज्‍ये न प्रविशति। 6यः शरीरात्‌ जायते, तत्‌ शरीरं खलु वर्तते। यत्‌ तु आत्‍मनः जायते, तद्‌ आत्‍मा विद्‌यते। 7यन्‍मया त्‍वां प्रति प्रोक्‍तं तरिमन्‌ आश्‍चर्यम्‌ न कुर्याः, यतः त्‍वया पुनर्जन्‍मः ग्रहीतव्‍यः। 8वायुः तत्रैव प्रवाति, यत्र वातुम्‌ वात्र्छति। त्‍वं वायोः स्‍वनं शृणोषि किन्‍तु न वेत्‍सि कुतः आयाति, कुत्र वा याति। आत्‍मनः समुत्‍पन्‍नः मानवः अपि तादृशः अस्‍ति।”
9निकोदेमुसः तम्‌ अपृच्‍छत्‌, एतत्‌ कथं भवितुम्‌ शक्‍नोति? 10येशुः तम्‌ अब्रवीत्‌, “त्‍वम्‌ इस्राएलप्रदेशस्‍य गुरुः वर्तसे, तथापि एतत्‌ न जानासि? 11अहं त्‍वां ब्रवीमि, “अहं यत्‌ जानामि, तत्‌ एव कथयामि, तथा यत्‌ अपश्‍यम्‌, तस्‍य एव साक्ष्‍यं ददामि, परन्‍तु यूयं मम साक्ष्‍यं न स्‍वीकुरुत। 12अहं त्‍वं संसारस्‍य वचनं अकथयम्‌, परन्‍तु त्‍वं विश्‍वासं न करोषि। यदि अहं स्‍वर्गस्‍य वचनं कथयिष्‍यामि, तर्हि यूयं कथं विश्‍वासं संविधास्‍यथ।
13“मानवपुत्रः स्‍वर्गतः अवरूढः अस्‍ति। तस्‍मात्‌ अपरः कश्‍चित्‌ न स्‍वर्गम्‌ आरूढ़ः अस्‍ति। 14यथा मूसाः मरुभूमौ सर्पम्‌ उच्‍चैः उपाक्षिपत्‌, तथा मानवपुत्रः अपि उच्‍चैः उत्‍थापयिष्‍यते, 15येन तस्‍मिन्‌ यः विश्‍वसिति, सः अनन्‍तजीवनं प्राप्‍नुयात्‌।”
येशुः संसारस्‍य मुक्‍तिदाता
16परमेश्‍वरः संसारं प्रति प्रेम इदृशं कृतवान्‌, यतः सः एकजातं स्‍वपुत्रं तस्‍मै समपर्यत्‌, येन तस्‍मिन्‌ यः विश्‍वासं कुरुते, तस्‍य सर्वनाशः न भवेत्‌, परन्‍तु तस्‍मै अनन्‍तजीवनम्‌ लप्‍स्‍यते। 17परमेश्‍वरः स्‍वपुत्रं जगति न प्राहिणोत्‌, यत्‌ सः जगतः न्‍यायं कुर्यात्‌, किन्‍तु तं प्राहिणोत्‌ यत्‌ संसारः तेन मुक्‍तिं लभेत। 18यः मानवपुत्रे विश्‍वासं कुरुते, तस्‍य न्‍यायः नैव करिष्‍यते। यः तस्‍मिन्‌ न विश्‍वासं कुरुते, तस्‍य न्‍यायः विहितोऽस्‍ति, यतः सः परमेश्‍वरस्‍य एकजातस्‍य पुत्रस्‍य नाम्‍नि विश्‍वासं न कुरुते। 19दण्‍डाज्ञायाः एतत्‌ कारणम्‌ अस्‍ति यत्‌ ज्‍योतिः संसारे आगता अस्‍ति। मानवः ज्‍योतिं विहाय तिमिरे अधिकम्‌ अप्रीयत, यतः तस्‍य कार्याणि दुष्‍टानि आसन्‌। 20यः जनः कदाचारी सः ज्‍योतिम्‌ द्वेष्‍टि। ज्‍योतेः पार्श्‍वे स्‍वकर्मणाम्‌ व्‍यक्‍तेः भयाद्‌ न आयाति। 21परन्‍तु यः सत्‍यस्‍य मार्गे चलति, स ज्‍योतेः पार्श्‍वम्‌ आयाति येन इदं जगति प्रकटः भवेत्‌, यत्‌ तस्‍य कार्याणि सर्वाणि परमेश्‍वरस्‍य प्रेरणया सम्‍पद्‌यन्‍ते।
योहनस्‍य अन्‍तिमं साक्ष्‍यम्‌
22ततः येशुः शिष्‍यैः सह यहूदाप्रदेशम्‌ आगच्‍छत्‌, तत्र तैः सह अनिवसत्‌। सः जलसंस्‍कारं ददाति स्‍म। 23योहनः अपि सलीमस्‍य नगरस्‍य निकटे एनोने जलसंस्‍कारं ददाति स्‍म, यतः तत्र जलम्‌ अधिकमासीत्‌। जनाः तत्र आगत्‍य जलसंस्‍कारं प्राप्‍नुवन्‍ति स्‍म। 24योहनः तदानीं कारावद्‌धः तु न एव आसीत्‌।
25योहनस्‍य शिष्‍यानाम्‌ केनचित्‌ यहूदीधर्मगुरुणा सह च शुद्‌धीकरणविषये विवादः समजायत। 26ते योहनम्‌ उपगत्‍य तं प्रोचुः - “रब्‍बीः! पश्‍य यः यर्दनस्‍य पारे भवता सह आसीत्‌, यस्‍य विषये त्‍वया प्रमाणं दत्तं, सः जलसंस्‍कारं ददाति, सर्वे तं समुपयान्‍ति। 27योहनः प्रत्‍यवोचत्‌ - “स्‍वर्गात्‌ ईशस्‍य अनुकम्‍पया यत्‌ दीयते मनुष्‍यः तत्‌ एव प्राप्‍नोति। 28यूयं स्‍वयं साक्षिणः स्‍थ, यत्‌ मया उक्‍तम्‌, “न अहं मसीहः।” अहं तु तस्‍य अग्रदूतः अस्‍मि। 29वधूः, वरस्‍य एव भवति, परन्‍तु वरस्‍य मित्रम्‌ यः तत्र स्‍थित्‍वा तस्‍य वचनानि शृणोति, मम आनन्‍दः ईदृशः एव अस्‍ति, इदानीं च परिपूर्णः अस्‍ति। 30इदम्‌ एव उचितम्‌ सः वर्धताम्‌ तथा मम क्रमशः हृासः भवेत्‌।
मसीहस्‍य श्रेष्‍ठता
31यः ऊर्ध्‍वतः समायाति सः सर्वोपरि वर्तते। यः पृथिव्‍यां समुत्‍पन्‍नः असौ पार्थिवः विद्‌यते, सः पार्थिवान्‌ विषयान्‌ वदति। यः स्‍वर्गात्‌ एति असौ सर्वोच्‍चः वर्तते। 32तेन यत्‌ दृष्‍टं श्रुतं च तस्‍य एव साक्ष्‍यं ददाति; परन्‍तु तस्‍य साक्ष्‍यं कोऽपि जनः न स्‍वीकुरुते। 33यः मानवः स्‍वीकुरुते, सः परमेश्‍वरस्‍य सत्‍यताम्‌ प्रमाणी कुरुते। 34यः परमेश्‍वरेण प्रेषितः, सः परमेश्‍वरस्‍य एव शब्‍दं वदति, यतः परमेश्‍वरः तस्‍मै प्रचुरमात्रायां पवित्रात्‍मानं ददाति। 35पिता पुत्रं प्रति प्रेम कुरुते, तस्‍य हस्‍ते सर्वम्‌ अर्पितवान्‌। 36यः पुत्रे विश्‍वसिति, तस्‍मै अनन्‍तजीवनं प्राप्‍तम्‌ अस्‍ति। यस्‍य पुत्रे न विश्‍वासः, तस्‍मै जीवनं न लप्‍स्‍यते। परमेश्‍वरस्‍य कोपः तस्‍मिन्‌ स्‍थास्‍यति।

Surbrillance

Partager

Copier

None

Tu souhaites voir tes moments forts enregistrés sur tous tes appareils? Inscris-toi ou connecte-toi