YouVersion Logo
Search Icon

प्रेरिता 12

12
पतरसस्‍य बन्‍धनं मुक्‍तिः च
1तस्‍मिन्‌ समये सम्राट्‌ हेरोदसः कलीसियायाः केषुचित्‌ सदस्‍येषु अत्‍याचारम्‌ अकरोत्‌। 2सः योहनस्‍य भ्रातरं याकूबं असिना जघान। 3इदं कार्यम्‌ यहूदिभ्‍यः रोचतेस्‍म, अतएव तेन पतरसः अपि बन्‍धने कृतः। तेषु दिनेषु किण्‍वरहितरोटिकायाः पर्व आसीत्‌। 4सः पतरसं बन्‍धने कृत्‍वा कारागारे अस्‍थापयत्‌। तं चतुर्णाम्‌ सैनिकानां चतुर्णाम्‌ दलानां च संरक्षणे अस्‍थापयत्‌। सः पास्‍कोत्‍सवस्‍य पश्‍चात्‌ तं जनानां समक्षे प्रस्‍तुतं कर्तुम्‌ इच्‍छति स्‍म। 5पतरसः ईदृशीनां क्रूररक्षकदलानां मध्‍ये आसीत्‌ अतएव कलीसिया तस्‍मै आग्रहेण सह प्रभोः समक्षं प्रार्थयति स्‍म।
6यस्‍मिन्‌ दिने हेरोदेसः तं जनतायाः समक्षे प्रस्‍तुतं कर्तुम्‌ इच्‍छति स्‍म, तस्‍य पूर्व रात्रौ पतरसः बन्‍धनाभ्‍यां बद्धः आसीत्‌। द्वयोः भटयोः मध्‍ये सः स्‍वपिति स्‍म, द्वारं पुरतः रक्षकाः रक्षणं कुर्वन्‍ति स्‍म। 7अकस्‍मात्‌ प्रभोः दूतः तस्‍य समीपे आगत्‍य स्‍थितः, प्रकोष्‍ठे ज्‍वाला अभवत्‌। दूतः तं हस्‍तेन स्‍पृशन्‌ प्रबोधयत्‌ अकथयत्‌ च, “शीघ्रम्‌ उत्तिष्‍ठ!” तस्‍मिन्‌ क्षणे एव बन्‍धनानि अपतन्‌। देवदूतः तम्‌ अवदत्‌ - 8“कटिं बद्‌ध्‍वा उपानहौ पादयौः धारय च।” सः तथैव कृतवान्‌। देवदूतः पुनः अवदत्‌-“प्रच्‍छदवस्‍त्रेण शरीरम्‌ आच्‍छादयित्‍वा माम्‌ अनु आगच्‍छ।” 9तम् अनुगच्‍छन्‌ पतरसः बहिः आगतः। सः न जानति स्‍म, देवदूतेन यत्‌ भवन्‌ आसीत्‌, तत्‌ सत्‍यमेव आसीत्‌ वा न। सः अवागच्‍छत्‌ तत्‌ सर्वम्‌ स्‍वप्‍नम्‌ एव आसीत्‌। 10तौ प्रथमं, तत्‍पश्‍चातं द्वितीयं रक्षणं लड्‌.घयित्‍वा लौहनिर्मितं द्वारं आगतवन्‍तौ, यं नगरं प्रति नयति स्‍म। तत्‌ द्वारं ताभ्‍यां स्‍वयमेव उद्‌घाटितम्‌। तौ बहिः आगत्‍य, वीथ्‍याः अंतं यावत्‌ आगच्‍छताम्‌। 11अकस्‍मात्‌ देवदूतः तं त्‍यक्‍त्‍वा अगच्‍छत्‌। तदा पतरसः ज्ञाने आगत्‍य उक्‍तवान्‌, “अधुना अहं विश्‍वासेन कथयामि, प्रभुः स्‍व दूतं प्रेषयित्‍वा मां हेरोदेसस्‍य मुष्‍टिबन्‍धनात्‌ अमोचयत्‌, यहूदिनां सर्वाः आशाः नष्‍टाः च।
12यदा सः स्‍वपरिस्‍थितिम्‌ सम्‍यक्‌ रूपे ज्ञात्‍वा, मरियायाः गृहं गतवान्‌, सा मारकुसस्‍य जननी आसीत्‌, तत्र बहवः जनाः एकत्रीभूयः प्रार्थयन्‍ते स्‍म। 13-14पतरसेन वाह्यद्वारं ताडितम्‌, रोदे नाम दासी ज्ञातुं बहिः आगता, यत्‌ कः द्वारे तिष्‍ठति? पतरसस्‍य स्‍वरं ज्ञात्‍वा आनन्‍देन द्वारं उद्‌घाटितुं विस्‍मृतवती, इमं समाचारं दातुं धावन्‍ती अन्‍तः आगतवती, यत्‌ पतरसः द्वारे स्‍थितः अस्‍ति। 15विश्‍वासिनः ताम्‌ अवदन्‌, “त्‍वया वृथा प्रलाप्‍यते।” किन्‍तु सा दृढ़तापूर्वकं बारं-बारं अकथयत्‌, यत्‌ तया उक्‍तं तत्‌ सर्वम्‌ सत्‍यम्‌। ते अकथयन्‌, “अयं तस्‍य दूतः भवेत्‌।” 16-17अस्‍मिन्‌ मध्‍ये पतरसः द्वारं खटखटायमानः आसीत्‌। यदा ते द्वारम्‌ उद्‌घाटितवन्‍तः, पतरसं च अपश्‍यन्‌, ते आश्‍चर्यचकिताः भूताः। पतरसः हस्‍तेन मूकं भवितुम्‌ इंगितवान्‌। तान्‌ अकथयत्‌ केन प्रकारेण परमेश्‍वरः तं कारागारात्‌ बहिः आनीतवान्‌। तत्‍पश्‍चात्‌ याकुबं भातॄन्‌ च समाचारं दातुं कथयित्‍वा गृहं त्‍यक्‍त्‍वा अन्‍यत्र स्‍थानं गतवान्‌।
18सूर्ये उदिते सति सैनिकाः चिन्‍तिताः जाताः यत्‌ पतरसस्‍य किम्‌ अभवत्‌। 19हेरोदेसः तस्‍य अन्‍वेषणं कृतम्‌, किन्‍तु सः असफलः अभवत्‌। अस्‍यां परिस्‍थितौ रक्षकान्‌ पृष्‍ट्‌वा तेभ्‍यः प्राणदंडम्‌ आदिष्‍टवान्‌। पतरसः यहूदाप्रदेशं त्‍यक्‍त्‍वा कैसरियाम्‌ आगच्‍छत्‌, तत्र एव निवसति स्‍म।
हेरोदेसाग्रिपाप्रथमस्‍य मृत्‍युः
20नृपः हेरोदेसः चिरकालात्‌ तीरुससीदोनयोः निवासिनः अभिक्रुध्‍यति स्‍म। ते अधुना सर्वसम्‍मतया हेरोदेसस्‍य राज्‍यसभायाम्‌ आगतवन्‍तः। ते नृपस्‍य कंचुकीं ब्‍लास्‍तुसं स्‍वपक्षे आनीय शान्‍तिम्‌ इच्‍छन्‍ति स्‍म, यतः तेषां देशस्‍य संभरणं हेरोदेसस्‍य क्षेत्रे निर्भरमासीत्‌। 21निश्‍चिते दिने हेरोदेसः राजकीयं वस्‍त्रं परिधाय राज्‍यसिंहासने आरुह्य जनान्‌ संबोधितवान्‌। 22जनता उच्‍चस्‍वरेण अवदत्‌, “इदं सम्‍बोधनं मनुष्‍यस्‍य न, अपितु कस्‍यापि देवस्‍य अस्‍ति।” 23तत्‌ क्षणमेव परमेश्‍वरस्‍य दूतेन सः हतः यतः सः परमेश्‍वरस्‍य महिमानम्‌ अंगीकर्तुम्‌ इच्‍छति स्‍म। तस्‍य शरीरे कृमयः उत्‍पन्‍नाः अतएव सः मृतः।
बरनबाससाऊलयोः नियुक्‍तिः
24ईश्‍वरस्‍य वचनं वर्द्धते स्‍म प्रसारितं च। 25बरनबासश्‍च साऊलश्‍च स्‍व सेवाकार्यम्‌ समाप्‍य येरुसलेभात्‌ प्रत्‍यागच्‍छताम्‌। ताभ्‍याम्‌ सह योहनः अपि आगच्‍छत्‌, यः मारकुसः कथ्‍यते।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in