1
यूहन्नः 19:30
Sanskrit New Testament (BSI)
येशुः तं रसम् आस्वाद्य उवाच, “सर्वम् पूर्णम् अभवत्।” इत्युक्तवा शिरः नमयित्वा प्राणान् तत्याज।
Vergelyk
Verken यूहन्नः 19:30
2
यूहन्नः 19:28
तदा येशुः इदं ज्ञात्वा यत् अधुना सर्वम् पूर्णमभवत्, धर्मग्रन्थस्य वचः यथा सिद्धं भवेत् - “अहं पिपासुः” अस्मि इति प्रोवाच। तत्र अम्लरसेनैकं पात्रम् पूरितम् आसीत्।
Verken यूहन्नः 19:28
3
यूहन्नः 19:26-27
येशुः स्वजननीं, तस्याः समीपे प्रियं शिष्यं, यम् सः प्रेम अकरोत्, ददर्श। सः स्वमातरम् बभाषे, “भद्रे! अयं तव पुत्रः अस्ति,” ततः तं शिष्यम् अब्रवीत्, “इयं तव माता वर्तते।” तस्मात् कालात् सः शिष्यः तां स्वगृहे आश्रयं ददे।
Verken यूहन्नः 19:26-27
4
यूहन्नः 19:33-34
यदा येशोः समीपे आगत्य ददृशुः यत् सः ममार, ते तस्य उरुद्वयम् न बभत्र्जुः परन्तु एकः सैनिकः तस्य पार्श्वम् भल्लेन विद्धवान्। ततः तत्क्षणमेवास्य शरीराद् रक्तविन्दवः तोयधाराश्च निःसृताः।
Verken यूहन्नः 19:33-34
5
यूहन्नः 19:36-37
अतः एव इदम् अभवत् यथा धर्मग्रन्थस्य वचो सिद्धं स्यात् “न एकम् अस्थिः तस्य भग्नं करिष्यते;” पुनश्च धर्मग्रन्थस्य अपरं वचनं ईदृशम् अस्ति - “यं जनं विद्धवन्तः ते तमेव वीक्षिष्यन्ते।”
Verken यूहन्नः 19:36-37
6
यूहन्नः 19:17
ते येशुम् अनयन्, सः स्वक्रूसं वहन् कपालस्थलमागतः, इब्रानीभाषायां तस्य नाम “गोलगोथा“ कथ्यते।
Verken यूहन्नः 19:17
7
यूहन्नः 19:2
ते समादिष्टाः सैनिकाः तीक्ष्णकण्टकैः मुकुटं निर्माय, तस्य मस्तके तत् मुकुटं निदधुः तथा नीललोहितम् वसनं परिधाप्य
Verken यूहन्नः 19:2
Tuisblad
Bybel
Leesplanne
Video's