यूहन्नः 19
19
कण्टकानां मुकुटम्
(मत्ती 27:15-31; मर 15:6-20; लूका 23:13-25)
1ततः पिलातुसः स्वीयान् सैनिकान् आदिदेश - युष्माभिः येशुः कशाभिः हन्याताम् इति। 2ते समादिष्टाः सैनिकाः तीक्ष्णकण्टकैः मुकुटं निर्माय, तस्य मस्तके तत् मुकुटं निदधुः तथा नीललोहितम् वसनं परिधाप्य, 3तस्य समीपम् एत्य एत्य वक्तुम् आरेभिरे - “नमो यहूदिनां राज्ञे, यहूदिनां राज्ञे नमः।” इत्येवं कथयन्तः तम् कशाभिः अताडयन्।
प्राणदण्डस्य आदेशः
(मत्ती 26:22-26; मर 15:12-15; लूका 23:20-25)
4पिलातुसः पुनः बहिः गत्वा जनान् अभाषत, “पश्यत अहं पुनः युष्माकं समीपम् आनयामि। एतत् विज्ञायतां, तस्मिन् अहं कत्र्चन् दोषं न लक्ष्यामि।” 5तदा कण्टकमुकुटं, नीललोहितम् वसनं दधानः येशुः बहिः आयातः। पिलातुसः जनान् आह - “अयमेव सः मानवः।” 6महापुरोहिताः तथा सैनिकाः तं विलोक्य एव उच्चस्वरेण जगदुः - “अस्मै क्रूसं ददीत, अस्मै क्रूसं ददीत।” पिलातुसः तान् अवदत् - “यूयम् एव इमं नीत्वा क्रूसं दत्त। मया अस्मिन् कश्चन दोषः न दृश्यते।” 7धर्मगुरवः ऊदुः - “अस्माकम् एका व्यवस्था वर्तते, तस्याः व्यवस्थायाः अनुसारमेषः प्राणदण्डस्य योग्यः अस्ति, यतः एषः स्वम् ईशपुत्रः कथितवान्।”
8इदं श्रुत्वा पिलातुसः भयेन भृशमर्दितः। 9गृहस्य अभ्यन्तरं गत्वा येशुम् अपृच्छत्, “कुतः त्वम् असि?” परन्तु येशुः तस्मै किमपि उत्तरं न ददे। 10पिलातुसः ततः येशुम् अभाषत, “त्वं कथं मां न भाषसे? अहं तुभ्यम् क्रूसं दातुं, त्वां मोचयितुं च सर्वथा समर्थः अस्मि, किमिदं न जानासि?” 11येशुं तं प्रतिबभाषे, “यदि भवते अयम् अधिकारः ऊर्ध्वतः न अदास्यत, तदा भवतः मयि कोऽपि अधिकारः न अभविष्यत्। अतः सः दोषी येनाहं भवते अर्पितः अस्मि।”
12पिलातुसः तदारभ्य तं विमोक्तुम् अचेष्टत। परन्तु सर्वे यहूदीधर्मगुरवः उच्चैः प्रोचुः, “यदि एषः भवता मोच्यते, तर्हि भवान् रोमनसम्राजः हितैषी न वर्तते। यः स्वं नृपम् अभिमन्यते, सः सम्राजः विरोधी वर्तते।” 13इदं श्रुत्वा पिलातुसः येशुम् बहिः आनेतुम् आदिष्टवान्। सः स्व न्यायासने, तस्मिन् स्थले, यः कुटि्टमः, इब्रानीभाषायाम् “गबबथा” कथ्यते, उपाविशत्। 14तत् पास्कापर्वणः (फसहस्य) समारम्भदिनम् आसीत्। प्रायः मध्याह्णकालः आसीत्। पिलातुसः यहूदिनः अब्रवीत्, असौ एव युष्माकं नृपः वर्तते। 15ते सर्वे उच्चैः बभाषिरे - “नयेत इमं, इमं नयेत, अस्मै क्रूसं ददीत।” पिलातुसः तदा प्राह - “किम् एषः युष्माकं राजा मया क्रूसे आरोपितः भविष्यति?” महापुरोहिताः पिलातुसं प्रोचुः - “रोमनसम्राजः अपरः अस्माकं कोऽपि राजा न वर्तते।” 16तदा पिलातुसः येशुम् क्रूसारोपणार्थम् तेषां हस्ते समर्पयत्।
क्रूसारोपणम्
(मत्ती 27:32-44; मर 15:21-32; लूका 23:26-43)
17ते येशुम् अनयन्, सः स्वक्रूसं वहन् कपालस्थलमागतः, इब्रानीभाषायां तस्य नाम “गोलगोथा“ कथ्यते। 18तत्र ते येशुम्, तेनैव सार्द्धम् अन्यं जनद्वयम् क्रूसयोः आरोपयामासुः - द्वौ तस्य पार्श्वयोः स्थितौ।
19पिलातुसः ततो एकम् दोषपत्रमपि अलेखयत्। तत् ईदृशम् आसीत् - “येशुः नासरी, यहूदिनां राजा।” 20बहवः यहूदिनः इदं दोषपत्रम् अपठन्, यतः यत्र स्थले येशुः क्रूसे आरोपितः अभवत्, तत् स्थलं नगरस्य अविदूरम् अविद्यत। तथा दोषपत्रं यूनानी - लातिनीब्रानीभाषासु लिखितमासीत्। 21अतः यहूदिनाम् महापुरोहिताः पिलातुसम् बभाषिरे - “एषः यहूदिनां राजा नैव भवान् लिख्येत् किन्तु “एषः बभाषे यत् अहं यहूदिनाम् राजा अस्मि।” 22पिलातुसः तान् प्रत्युवाच, “मया यत् लिखितम्, तदेव लिखितम्।”
23येशुम् क्रूसे आरोप्य सैनिकाः तस्य वासांसि जगृहुः; तथा तेषां भागचतुष्टयम् चक्रुः-एक एकस्य कृते एकं एकं भागं ते बिभेजिरे। मानवस्त्रे सीवनं न आसीत्, तत् उच्चैः नीचैः समन्ततः अखिलम् आसीत् । 24ते परस्परम् बभाषिरे - “एतत् वस्त्रं न छिद्यताम्। गुटिकापातेन ज्ञास्यामः इदं कस्य भविष्यति।” यतो हि धर्मग्रन्थस्य वाक्यं सिद्धं भवेत् - “ते मम वस्त्राणि स्वमध्ये बिभेजिरे। मम वस्त्राय अक्षान् अदीव्यन्।” सैनिकाः धर्मग्रन्थे यदेवासील्लिखितं तथैव चक्रिरे।
25येशोः क्रूसस्य निकटे तस्य माता च तस्याः स्वसा, क्लोपासस्य पत्नी मेरी तथा मेरी मगदलेनी स्थिताः आसन्। 26येशुः स्वजननीं, तस्याः समीपे प्रियं शिष्यं, यम् सः प्रेम अकरोत्, ददर्श। सः स्वमातरम् बभाषे, “भद्रे! अयं तव पुत्रः अस्ति,” ततः तं शिष्यम् अब्रवीत्, “इयं तव माता वर्तते।” 27तस्मात् कालात् सः शिष्यः तां स्वगृहे आश्रयं ददे।
येशोः मृत्युः
(मत्ती 27:45-56; मर 15:33-41; लूका 23:44-49)
28तदा येशुः इदं ज्ञात्वा यत् अधुना सर्वम् पूर्णमभवत्, धर्मग्रन्थस्य वचः यथा सिद्धं भवेत् - “अहं पिपासुः” अस्मि इति प्रोवाच। तत्र अम्लरसेनैकं पात्रम् पूरितम् आसीत्। 29जनाः तस्मिन् रसे वारिशोषकं न्यमज्जयन् तुलसीदण्डे बद्धवा येशोः वक्त्रे अर्पयन्। 30येशुः तं रसम् आस्वाद्य उवाच, “सर्वम् पूर्णम् अभवत्।” इत्युक्तवा शिरः नमयित्वा प्राणान् तत्याज।
भल्लेन हृदयस्य छेदनम्
31तत् पास्कापर्वसमारम्भदिनम् आसीत्। यहूदीधर्मगुरवः न ऐच्छन् यत् शवम् क्रूसे तिष्ठेत्, यतः विश्रामदिवसं महान् त्योहारः आसीत्। ते पिलातुसं गत्वा न्यवेदयन् तेषां जड्.घाद्वयम् भत्र्जितव्या तथा शवानाम् अपसारणम् भवितव्यम्। 32अतः सैनिकाः आगत्य येशुना सह आरोपितप्रथमनरस्य जड्.घाद्वयं बभत्र्जुः पुनः अपरस्य। 33यदा येशोः समीपे आगत्य ददृशुः यत् सः ममार, ते तस्य उरुद्वयम् न बभत्र्जुः 34परन्तु एकः सैनिकः तस्य पार्श्वम् भल्लेन विद्धवान्। ततः तत्क्षणमेवास्य शरीराद् रक्तविन्दवः तोयधाराश्च निःसृताः।
35येन इदम् दृष्टम्, स एव साक्ष्यं दत्ते, तस्य साक्ष्यम् प्रमाणमस्ति। येन युष्माकम् अपि तद्वाक्ये विश्वासः भवेत्। 36अतः एव इदम् अभवत् यथा धर्मग्रन्थस्य वचो सिद्धं स्यात् “न एकम् अस्थिः तस्य भग्नं करिष्यते;” 37पुनश्च धर्मग्रन्थस्य अपरं वचनं ईदृशम् अस्ति - “यं जनं विद्धवन्तः ते तमेव वीक्षिष्यन्ते।”
येशोः शवागारे स्थापनम्
38ततः अरिमथियाग्रामस्य यूसुफः यः यहूदीधर्मगुरुणां भयाद् येशोः गुप्तः शिष्यः आसीत्, येशोः शवं तत्रतः स्थानान्तरीकर्तुम्, पिलातुसम् अनुज्ञाम् अयाचत। पिलातुसः अनुज्ञातवान्, यूसुफः आगत्य येशोः शवम् उतारयामास। 39येशुं द्रष्टुम् यः पूर्वरजन्यां आगतः सः निकोदेमुसः अपि तत्र आगतः। 40सः प्रायशः पत्र्चाशत्सेटकैर्मितम् अगरुगन्धरसम् आनीतवान्, येशोः शरीरम् आदाय यहूदिनाम् रीत्या समाधिकर्म विधिवत् चक्रुः। तौ सुगन्धिनाम् द्रव्याणां पूर्वम् विलेपनं कृत्वा, येशोः देहे क्षौमवस्त्रेन अवेष्टयेताम्।
41यस्मिन् स्थाने येशुः, जनैः क्रूसम् आरोपितः कृतः, तत्र एकमुद्यानमासीत्, तस्मिन् उद्याने एकम् शवागारम् आसीत्, यस्मिन् कश्चित् अद्यावधि न निहितः। तौ तस्मिन् एव शवागारे तत् शवं निवेषितवन्तः, 42यतः तत् यहूदिनां विश्रामदिवसस्य समारम्भदिनम् आसीत्, तत् शवागारम् निकटस्थितम् आसीत्।
Zvasarudzwa nguva ino
यूहन्नः 19: SANSKBSI
Sarudza vhesi
Pakurirana nevamwe
Sarudza zvinyorwa izvi

Unoda kuti zviratidziro zvako zvichengetedzwe pamidziyo yako yose? Nyoresa kana kuti pinda
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.