मारकुस 7

7
परम्‍परापालनस्‍य प्रश्‍नः
(मत्ती 15:1-9)
1फरीसिनः तथा येरुसलेमतः शास्‍त्रिणः येशुम्‌ उपागत्‍य सर्वे तत्र अवतस्‍थिरे। 2ते अपश्‍यन्‌ यत्‌ तस्‍य शिष्‍याः अप्रक्षालितहस्‍तकाः रोटिकां भुत्र्जानाः आसन्‌। 3पूर्वजानां परम्‍परायाः अनुसारम्‌ फरीसिनः यहूदिनश्‍च हस्‍तं जलेन प्रक्षालनस्‍य पश्‍चात्‌ एव भोजनं कुर्वन्‍ति स्‍म। 4अन्‍यबहूनाम्‌ परम्‍परागतप्रथानां पालनं कुर्वन्‍ति-यथा भाण्‍ड-चषकादि-प्रमार्जनम्‌। 5अतः फरीसिनः शास्‍त्रिणश्‍च येशुम्‌ अपृच्‍छन्‌, “भवतः शिष्‍याः पूर्वजानां परम्‍पराम्‌ कथं नानुसरन्‍ति? कथं भवतः शिष्‍याः अशुचिभिः करैः रोटिकाः भुत्र्जन्‍ते?” 6येशुः तान्‌ अकथयत्‌, “युष्‍मान्‌ कपटिनः प्रति यशायाहः या प्रोक्‍ता सा भविष्‍यवाणी सत्‍या वर्तते। यथा लिखितमस्‍ति -
इमे जनाः मौखिकमेव मम समादरं कुर्वन्‍ति,
एतेषां हृदयानि मततः दूराणि सन्‍ति।
7ते व्‍यर्थमेव मां पूजयन्‍ति
इमे यां शिक्षां ददति
ते सर्वे मनुष्‍यनिर्मिताः नियमाः मात्राः सन्‍ति
8यूयं मानवेन प्रवर्त्तिताम्‌ परम्‍परां पालयथ, परन्‍तु परमेश्‍वरस्‍य आज्ञां न पालयथ।”
9पुनः सः तान्‌ उवाच, “यूयं स्‍वीयां परम्‍पराम्‌ पालयितुं प्रभोः आज्ञां व्‍यर्थतां नयथ। 10यतः मूसा अकथयत्‌ - यूयं मातरं पितरं समाद्रियध्‍वम्‌, यः स्‍वीयां मातरं तथा निजम्‌ पितरं शपते सः जनः अवश्‍यं प्राणदण्‍डं प्रपत्‍स्‍यते। 11परन्‍तु यूयं मन्‍यध्‍वे, यः जनः निजपितरौ ब्रूते, यत्‌ मत्‍कृतः भवतः लाभः संभविष्‍यति, तत्‌ “कुरबानम्‌“ (अर्थात्‌ परमेश्‍वराय समर्पितम्‌) अस्‍ति। 12तदा स तत्‍क्षणात्‌ एव मातापित्रोः न किम्‌ अपि उपकरिष्‍यति। 13इत्‍थम्‌ स्‍वां परम्‍परां रक्षन्‍तः, प्रभोः वाक्‍यं व्‍यर्थीकुरुथ, एवम्‌ अन्‍याः बहु क्रियाः कुरुथ।”
शुद्धाशुद्धयोः व्‍याख्‍या
(मत्ती 5:10-20)
14ततः सर्वान्‌ पुनः स्‍वसमीपं समाहूय येशुः बभाषे, “यूयं मम वचः श्रुत्‍वा सम्‍यक्‌ निबोधत। 15एतादृशं न हि किंचित्‌ आस्‍ते यत्‌ बाह्‌यात्‌ मनुष्‍यस्‍य अन्‍तरं प्रविश्‍य तम्‌ अपवित्रकर्तुम्‌ शक्‍नुयात्‌। परन्‍तु यत्‌ शरीरात्‌ निःसरति तम्‌ अशुचिम्‌ कुरुते। 16यस्‍य संश्रोतुं श्रोत्रे विद्‌येते असौ इदम्‌ शृणुयात्‌!”
17यदा येशुः जनान्‌ त्‍यक्‍त्‍वा गृहं प्राविशत्‌, तदा शिष्‍याः तं दृष्‍टान्‍तस्‍य आशयम्‌ अपृच्‍छन्‌। 18येशुः जगाद, “किं यूयम्‌ अपि एवं बोधविक्‍लवाः? किं यूयं न अवबुध्‍यध्‍वे, बाह्‌यतः यत्‌ प्रविशति तत्‌ मनुष्‍यम्‌ अशुचिम्‌ न करोति; 19यतः तत्‌ तस्‍य मनसः अभ्‍यन्‍तरं नैव गच्‍छति, किन्‍तु तस्‍य उदरं प्राप्‍य शौचालये निर्गच्‍छति।”
20येशुः पुनः अब्रवीत्‌, “यत्‌ मनुष्‍यतः बहिः आगच्‍छति, तत्‌ एव तम्‌ अशुद्धं करोति। 21यतः कुविचारणा अन्‍तरतः, अर्थात्‌ नरस्‍य मानसात्‌ एव निर्गच्‍छति। व्‍यभिचारः, चौर्यम्‌, हत्‍या, 22परस्‍त्रीगमनं, लोभः, विद्वेषः, ईर्ष्‍या, निन्‍दा, अहंकारः, मूर्खता - 23एताः अखिलाः कुप्रवृत्तयः अभ्‍यन्‍तरात्‌ एव निर्गच्‍छन्‍ति, मनुष्‍यम्‌ अपवित्रं कुर्वन्‍ति च।”
कनानी स्‍त्री
(मत्ती 15:21-28)
24तत्रतः येशुः सोरस्‍य सीमाक्षेत्रे गतवान्‌। तत्र गत्‍वा कस्‍मिंश्‍चिद्‌ गेहे अतिष्‍ठत्‌। सः वात्र्छति स्‍म यत्‌ कोऽपि एतत्‌ न जानीयात्‌। किन्‍तु तत्रापि येशुः अज्ञातः स्‍थातुं न अशक्‍नोत्‌। 25काऽपि नारी, यस्‍याः लघुपुत्रिका अशुद्धेन आत्‍मना आविष्‍टा आसीत्‌, येशुम्‌ आगत्‍य तस्‍य पादयोः पपात। 26सा स्‍त्री यहूदी नासीत्‌, परन्‍तु यूनानीया जात्‍या सुरुफिनीकी आसीत्‌। सा येशुम्‌ प्रार्थयामास यत्‌ सः तस्‍याः पुत्र्याः शरीरतः चिरात्‌ तत्र स्‍थितम्‌ अपदूतम्‌ निःसारयेत्‌। 27येशुः ताम्‌ अब्रवीत्‌, “पूर्वम्‌ बालकाः तृप्‍तिम्‌ आप्‍नुयुः। शिशूनां भक्ष्‍यम्‌ आदाय श्‍वानेभ्‍यः दानं न युज्‍यते।” 28सा अब्रवीत्‌, सत्‍यम्‌ एतत्‌ प्रभो! किन्‍तु कुक्‍कुराः शिशूनां भक्ष्‍यचूर्णकान्‌ मंचस्‍य अधः खादन्‍ति एव। 29ततः येशुः अवदत्‌, “गच्‍छ, तव अनेन वचनेन अपदूतः तव दुहितुः देहतः विनिर्गतः।” 30सा गृहं गत्‍वा अपदूतं पुत्र्याः देहाद्‌ विनिर्गतम्‌ निजपुत्रिकाम्‌ खट्‌वायां शयानां च अपश्‍यत्‌।
बधिरस्‍य मूकस्‍य च स्‍वास्‍थ्‍यलाभः
31-32येशुः सोरप्रान्‍ताद्‌ प्रस्‍थाय सीदोनमार्गतः गच्‍छन्‌ दिकापुलिसप्रान्‍तं तीर्त्‍वा गलीलस्‍य सरसः तटम्‌ आगतवान्‌। जनाः एकं मूकं श्रुतिशक्‍त्‍या विहीनम्‌ एकं नरं तस्‍य अन्‍तिकम्‌ आनयन्‌। ते येशुं प्रार्थयामासुः - “अस्‍य देहे अर्प्‍यतां तव करः।” 33ततः येशुः तं जनसम्‍मर्दात्‌ निर्जनस्‍थलम्‌ नीत्‍वा तस्‍य कर्णयोः अड्‌.गुलीम्‌ स्‍थापितवान्‌, तथैव तस्‍य जिह्‌वायां स्‍वनिष्‍ठीवम्‌। 34स्‍वदृष्‍टिम्‌ ऊर्ध्‍वम्‌ कृत्‍वा निःश्‍वस्‍य च आह, “एफेथा“ अर्थात्‌ “मुच्‍यताम्‌।” 35तत्‍क्षणमेव तस्‍य द्वौ कर्णौ, जिह्‌वा च उन्‍मुक्‍ततां ययुः, येन असौ भाषणे श्रवणे च सम्‍यक्‌ समर्थोऽभवत्‌। 36येशुः तान्‌ आदिष्‍टवान्‌, यूयम्‌ एतत्‌ न हि कत्र्चन ब्रूत। परन्‍तु यावत्‌ चासौ न्‍यषेधीत्‌, तावत्‌ ते तत्‌ अघोषयन्‌। 37लोकाः असीमम्‌ आश्‍चर्यम्‌ प्राप्‍य मिथः अवदन्‌, “यत्‌ एव कुरुते तत्‌ सर्वम्‌ सम्‍यक्‌ एव करोति।” असौ मूकाय वाणीं, वधिराय कर्णौ ददाति।

දැනට තෝරාගෙන ඇත:

मारकुस 7: SANSKBSI

සළකුණු කරන්න

බෙදාගන්න

පිටපත් කරන්න

None

ඔබගේ සියලු උපාංග හරහා ඔබගේ සළකුණු කල පද වෙත ප්‍රවේශ වීමට අවශ්‍යද? ලියාපදිංචි වී නව ගිණුමක් සාදන්න හෝ ඔබගේ ගිණුමට ඔබගේ ගිණුමට පිවිසෙන්න