Лого на YouVersion
Икона за пребарување

यूहन्‍नः 13

13
येशुः स्‍वशिष्‍याणां चरणौ प्रक्षालयति
1पास्‍कापर्वणः (फसहस्‍य) पूर्वदिवसः आसीत्‌। येशुः अजानात्‌ यत्‌ तस्‍य अयम्‌ अन्‍तिमः कालः आगतः, तथा पितुः अन्‍तिकम्‌ गमनम्‌ अस्‍ति। अतः ये जगति आत्‍मीया आसन्‌, तथा यान्‌ प्रति असौ सर्वदा प्रेम कृतवान्‌, तान्‌ प्रति स स्‍व अन्‍तिमं कालं यावत्‌ प्रेम कतवान्‌।
2रात्रिभोज्‍यावधिं यावत्‌ भूतेन प्रभावितः, सिमोनइस्‍करियोतीयस्‍य पुत्रयूदसः मनसि ग्राहयितुम्‌ कुविचारः उत्‍पन्‍नः आसीत्‌। 3येशुः जज्ञे यत्‌ पित्रा तस्‍मै सर्वम्‌ समर्पितम्‌, परमेश्‍वरस्‍य सकाशात्‌ आगतः, तस्‍य च अन्‍तिकम्‌ गच्‍छन्‌ अस्‍ति इति विज्ञाय, 4भोजनात्‌ उत्‍थितवान्‌, स्‍व वाह्‌य वस्‍त्राणि मोचयित्‍वा, गात्रमार्जनीं गृहीत्‍वा, च स्‍वकीयां कटिं तेन बबन्‍ध। 5ततः प्रक्षालनभाजनम्‌ तोयेन सम्‍पूर्य, स्‍वयं शिष्‍याणां चरणान्‌ प्रक्षालयितुम्‌ आरब्‍धवान्‌। तथा कट्‌यां निबद्‌धेन मार्जनवाससा स्‍वयं तेषां पादानां मार्जनम्‌ कर्तुम्‌ समारेभे।
6यदा सः सिमोनपतरसस्‍य अन्‍तिकं गतः, पतरसः तम्‌ आह, “प्रभो! भवान्‌ मम पादौ प्रक्षालयति?” 7येशुः तम्‌ प्रत्‍युवाच, “साम्‍प्रतं त्‍वं न बुध्‍यसे, यदहं किं करोमि, पश्‍चात्‌ त्‍वया विज्ञास्‍यते।” 8पतरसः अब्रवीत्‌ “भवान्‌ प्रक्षालयेत्‌ मम पादौ इति अहं भवते कदाचन न अनुमंस्‍ये।” येशुः तम्‌ आह “त्‍वत्‍पादौ चेत्‌ अहं न प्रक्षालयामि, तर्हि मम त्‍वया सह कश्‍चित्‌ संबंधः न वर्त्‍स्‍यति।” 9सिमोनः पतरसः आह, “प्रभो! न केवलं मम चरणौ परन्‍तु मम करौ, मस्‍तकम्‌ अपि प्रक्षालयतु।”
10येशु तम्‌ उवाच, “यः स्‍नातः तस्‍य केवलम्‌ पादौ प्रक्षाल्‍यौ स्‍तः यतः असौ तु सर्वांड्‌.गः शुद्धः वर्तते। यूयं शुचयः स्‍थ, परन्‍तु सर्वे शुचयः न स्‍थ। 11सः ज्ञातवान्‌ आसीत्‌, “कोऽस्‍ति विश्‍वासघातकः।” अतः तेन इदम्‌ उक्‍तं यत्‌ “सर्वे तु न शुचयः स्‍थ।”
12तेषां पादान्‌ प्रक्षाल्‍य, स्‍ववस्‍त्राणि च परिधाय उपविशत्‌, तत्‍पश्‍चात्‌ तान्‌ इदम्‌ अब्रवीत्‌, “यूयं जानीथ किं कार्यं युष्‍मदर्थम्‌ मया कृतम्‌! 13यूयं मां, प्रभुं गुरुं चेति सर्वदा अभिधत्‍थ, सत्‍य वदथ अतः अहम्‌ एवम्‌ अस्‍मि, युष्‍माभिः सत्‍यम्‌ उच्‍यते। 14अहं प्रभुः गुरुश्‍चापि भूत्‍वा यदि युष्‍माकं चरणान्‌ प्रक्षालयामि, तर्हि युष्‍माभिः अपि सर्वदा परस्‍परं पादप्रक्षालनं कर्तव्‍यम्‌। 15मया एतद्‌ दृष्‍टान्‍तरूपम्‌ एव कृतम्‌। यथा युष्‍मदर्थं मया कृतम्‌ तथा युष्‍माभिः क्रियताम्‌। 16अहं युष्‍मान्‌ ब्रवीमि-दासः, स्‍वामितः महत्तरः नास्‍ति, तथैव प्रेषकात्‌, प्रेषितः अपि महत्तरः नास्‍ति। 17एतत्‌ सर्वम्‌ विज्ञाय यदि तथैव युष्‍माभिः आचरणं क्रियते तर्हि यूयं धन्‍याः स्‍थ।”
(यहूदः) यूदसस्‍य विश्‍वासघातस्‍य सड्‌.केतः
(मत्ती 26:20-25; मर 14:17-21; लूका 22:21-23)
18“एतत्‌ सर्वम्‌ अहम्‌ युष्‍मान्‌ प्रति न ब्रूवे। अहं जानामि यत्‌ के के मया वरिताः विद्‌यन्‍ते; परन्‍तु सर्वम्‌ एतत्‌ अभवत्‌, यत्‌ धर्मग्रन्‍थस्‍य इदम्‌ कथनं पूर्णं भवेत्‌ - यस्‍तु मम रोटिकां भुंक्‍ते, स एव विमुखः बभूव। 19अधुना पूर्वमेव अहं युष्‍मान्‌ एतद्‌ ब्रवीमि यत्‌, एवं भूते, मयि युष्‍माकं विश्‍वासः भवेत्‌, यत्‌ स एव अहम्‌ अस्‍मि।” 20अहं युष्‍मान्‌ ब्रवीमि, “यः मया प्रेषितं नरम्‌ गृह्‌णाति, सः तु माम्‌ एव गृह्‌णाति। यः मां गृह्‌णाति, सः तु मम प्रेषकम्‌ गृह्‌णाति।” 21एवं भाषमाणः असौ मनसा व्‍याकुलः अभवत्‌। येशुः पुनः तान्‌ जगाद, “अहं युष्‍मान्‌ ब्रूवे, “युष्‍मासु एकः शत्रूणां हस्‍ते माम्‌ अर्पयिष्‍यति।” 22एतत्‌ समाकर्ण्‍य शिष्‍याः परस्‍परं ददृशुः। ते न जज्ञिरे यत्‌ असौ कम्‌ उदि्‌दश्‍य ब्रवीति। 23येशोः अन्‍यतमः शिष्‍यः, यः सर्वप्रियः आसीत्‌, तस्‍य वक्षोऽभि शिरः कृत्‍वा शयानः अभूत्‌। 24सिमोनपतरसः तं तु संकेतेन उक्‍तवान्‌, “त्‍वं पृच्‍छ, येशुः कं विषयीकृत्‍य भाषते।” 25ततः सः स्‍वशिरः तस्‍य उरसि प्रणिपात्‍य प्रोवाच, “प्रभो! भवान्‌ कस्‍य विषये भाषते?” 26येशुः प्रत्‍युवाच, “सः एवासौ यस्‍मै मया स्‍थाल्‍यां रोटिकाखण्‍डं मज्‍जयित्‍वा प्रदास्‍यते।” ततः सः सिमोनस्‍य सूताय इस्‍करियोतीयाय यूदसाय स्‍थाल्‍यां रोटिकाखण्‍डं मज्‍जयित्‍वा ददौ। 27यूदसः तम्‌ नीतवान्‌, अपदेवः तस्‍मिन्‌ प्राविशत्‌। ततः येशुः अवादीत्‌, “यत्‌ त्‍वया करणीयम्‌ अस्‍ति, तत्‌ शीघ्रमेव कुरु।” 28भोजनाय ये समासीनाः आसन्‌, तेषु कोऽपि न ज्ञातुं शशाक, यद्‌ येशुः तं किमर्थम्‌ इदम्‌ अभाषत। 29यूदसस्‍य हस्‍ते मुद्राकोषः अभवत्‌, अतः केचित्‌ अमन्‍यन्‍त, यत्‌ येशुः स्‍यात्‌ पर्वनिमित्तानि सकलानि वस्‍तुनि क्रेतुं समादिशत्‌, किंवा कित्र्चद्‌ दरिद्रेभ्‍यः दातुम्‌ आदिष्‍टवान्‌। 30रोटिकाखण्‍डम्‌ नीत्‍वा यूदसः सत्‍वरम्‌ बहिः आगच्‍छत्‌। तदा रात्रिः आसीत्‌।
प्रभोः येशोः नूतना आज्ञा
31यूदसे निष्‍क्रान्‍ते येशुः अब्रवीत्‌, “साम्‍प्रतं मानवपुत्रः महिमान्‍वितः सत्र्जातः। तेन परमेश्‍वरः अपि महिमान्‍वितः अभूत्‌। 32परमेश्‍वरस्‍य महिमा तेन चेत्‌ प्रकाशिता अभवत्‌ तर्हि तम्‌ अपि महिमान्‍वितम्‌ परमेश्‍वरः करिष्‍यति। सः शीघ्रम्‌ एव तं महिमान्‍वितं करिष्‍यति। वत्‍साः ! 33अहं तु युष्‍माभिः साद्‌र्धं खल्‍वितः परम्‌ स्‍वल्‍पम्‌ एव समयम्‌ अस्‍मि। युष्‍मान्‌ अहम्‌ एतत्‌ ब्रवीमि - यूयं च माम्‌ अन्‍वेष्‍टुम्‌ यतिष्‍यध्‍वे। यथा मया यहूदीधर्मगुरुवः कथिताः तद्‌ युष्‍मान्‌ अपि ब्रुवे - यदहं यत्र गच्‍छामि तत्र यूयम्‌ आगन्‍तुम्‌ न शक्ष्‍यथ।”
34“अहं युष्‍मभ्‍यम्‌ एकं नवीनम्‌ आदेशं ददामि - युष्‍माभिः परस्‍परम्‌ प्रेम कर्तव्‍यम्‌। यथा युष्‍मान्‌ प्रति मया प्रेम सर्वदा विहितम्‌, तथैव यूयं सर्वे अपि मिथः प्रेम कुरुत। 35एवं परस्‍परं यूयं सदा प्रेम विधास्‍यथ, तदा सर्वे ज्ञास्‍यन्‍ति यद्‌ यूयं मम शिष्‍याः स्‍थ।”
पतरसस्‍य भावी निर्बलता
(मत्ती 26:31-35; मर 14:27-31; लूका 22:31-34)
36सिमोनपतरसः तम्‌ अपृच्‍छत्‌, “प्रभो! भवान्‌ कुत्र गच्‍छति?” येशुः तम्‌ अब्रवीत्‌, “साम्‍प्रतम्‌ यत्र अहं गच्‍छामि, तत्र त्‍वम्‌ अनुयातुं न शक्‍नोषि। त्‍वं तत्र मां पश्‍चात्‌ यास्‍यसि। 37पतरसः तमाह, - “अधुना अहं कथम्‌ अनुगन्‍तुम्‌ न समर्थः? भवतः अर्थम्‌ अहं प्राणान्‌ त्‍यक्ष्‍यामि।” 38येशुः तमाह, ”किं त्‍वं मत्‍कृते प्राणान्‌ त्‍यक्ष्‍यसि? अहं त्‍वां ब्रवीमि, - कुक्‍कुटस्‍यरवात्‌ प्रागेव त्‍वं मां त्रिवारं स्‍वीकारं न करिष्‍यसि।”

Нагласи

Сподели

Копирај

None

Дали сакаш да ги зачуваш Нагласувањата на сите твои уреди? Пријави се или најави се