यूहन्‍नः भूमिका

भूमिका
सन्‍तयोहनस्‍य अनुसारं शुभसमाचारः प्रभुयेशुं मसीहं परमेश्‍वरस्‍य शाश्‍वतस्‍य “शब्‍दस्‍य” रूपे प्रस्‍तौति। मानवः येशुः सैव “शब्‍दः” वर्तते, यः देहधारणं कृत्‍वा अस्‍माकं मध्‍ये अनिवसत्‌ (1:4)। प्रस्‍तुतंशुभसमाचारस्‍य लेखनस्‍य प्रयोजनं स्‍वयं शुभसमाचारे इत्‍थं कथितमस्‍ति -“येशुः एव मसीहः, परमेश्‍वरस्‍य पुत्रः अस्‍ति” वयं च स्‍वस्‍य विश्‍वासेन तस्‍य नाम्‍ना जीवनं प्राप्‍तुं कर्तुम्‌ शक्‍नुमः (20:31)।
“शुभसमाचारस्‍य प्रथमाध्‍यायस्‍य आरंभिकेषु वाक्‍येषु लेखक्रः अस्‍य देहधारिणः शब्‍दस्‍य विषये अस्‍मान्‌ कथयति यत्‌ अनुग्रहेण सत्‍येन च परिपूर्णः प्रभुः येशुः पितरं प्रकटितवान्‌। शुभसमाचारस्‍य प्रथमभागे (1:19-12:50) सप्‍त आश्‍चर्यपूर्णानाम्‌ चिन्‍हानाम्‌ अथवा महतीनाम्‌ घटनानाम्‌ विवरणम्‌ अस्‍ति, येन प्रकटो भवति यत्‌ प्रभुः येशुः एव जीवनज्‍योतिः मुक्‍तिदाता च वर्तते। सः परमेश्‍वरस्‍य पुत्रः अस्‍ति, यं प्रेषयितुं परमेश्‍वरः प्रतिज्ञां कृतवान्‌ आसीत्‌। एतासाम्‌ घटनानाम्‌ विवरणेन सह प्रभोः येशोः प्रवचनानि सन्‍ति। एतेषां प्रवचनानां माध्‍यमेन आश्‍चर्यपूर्णघटनानाम्‌ अर्थाः उद्देश्‍याः च प्रकटाः कृताः सन्‍ति। प्रथमस्‍य भागस्‍य अन्‍ते पाठेकभ्‍यः कथितम्‌ अस्‍ति यत्‌ एकतः केचन्‌ जनाः प्रभौ येशौ विश्‍वासम्‌ अकुर्वन्‌ तस्‍य अनुयायिनः च अभवन्‌ परन्‍तु केचित्‌ जनाः प्रभोः येशोः विरोधं कृतवन्‍तः, तस्‍मिन्‌ विश्‍वासं च न अकुर्वन्‌ (12:37-50)।
प्रथमभागस्‍य पश्‍चात्‌ अध्‍यायात्‌ 13-17 अध्‍यायं यावत्‌ विस्‍तरेण इदं कथितमस्‍ति यत्‌ प्रभुः येशुः स्‍व बन्‍धनात्‌ पूर्वम्‌ स्‍वशिष्‍यैः सह सत्‍संगं करोति, तान्‌ आगामीघटनाभ्‍यः तेषां धर्यम्‌ दृढ़ं करोति, अनेन शिष्‍यानां धर्यम्‌ वर्द्धते। तान्‌ प्रोत्‍साहितान्‌ करोति यत्‌ यदा जनाः तं क्रूसकाष्‍ठे आरोपयिष्‍यन्‍ति, हनिष्‍यन्‍ति, किन्‍तु महिम्‍नि पुनः सः जीवितः भविष्‍यति, अतः शिष्‍याः निराशाः हतोत्‍साहिताश्‍च न भवन्‍तु।
अंतिमाध्‍यायेषु (18 अध्‍यायात्‌ 20 अध्‍यायं यावत्‌) प्रभोः येशोः बन्‍धनम्‌, दोषारोपणं, क्रूसकाष्‍ठे आरोपणं, तस्‍य मृत्‍युः च शवागारे स्‍थापनम्‌, तृतीये दिवसे पुररुत्‍थानम्‌, शिष्‍येम्‍यः दर्शनम्‌ एतासाम्‌ घटनानां वर्णनम्‌ अस्‍ति, एकविंशत्‍याम्‌ अध्‍याये, परिशिष्‍टस्‍य रूपे एकम्‌ अतिरिक्‍तदर्शनम्‌ अद्‌भुतचिन्‍हं च मिलति, प्रियशिष्‍यस्‍य साक्षीं सत्‍यम्‌ अमन्‍यत च।
साधोः योहनस्‍य अनुसारं शुभसमाचारे, अस्‍मिन्‌ विषये बलं प्रदत्तम्‌ अस्‍ति, यत्‌ प्रभोः येशोः माध्‍यमेन परमेश्‍वरः तस्‍मै विश्‍वासिने शाश्‍वतं जीवनं प्रदते, यः विश्‍वसिति यत्‌ प्रभुः येशुः एव मार्गः सत्‍यम्‌ जीवनम्‌ च अस्‍ति। अस्‍य शुभसमाचारग्रन्‍थस्‍य पठनस्‍य समये अस्‍माकं ध्‍यानम्‌ इदं प्रति अपि आकर्षितम्‌ भवति, यत्‌ लेखकः अस्‍माकं दैनिकजीवने व्‍यवहृतानि वस्‍तूनि “प्रतीकस्‍य चिन्‍हस्‍य वा रूपे“ प्रस्‍तौति, तैः सामान्‍यवस्‍तुभिः आत्‍मिकशाश्‍वतसत्‍यं अभिव्‍यक्‍तं करोति, यथा जलं, रोटिका, ज्‍योतिः, मेषपालकः मेषाः च, द्राक्षालता द्राक्षा च। न केवलम्‌ अस्‍य आध्‍यात्‍मिकदृष्‍टिकोणस्‍य कारणात्‌, अपितु येरुसलेमस्‍य तीर्थपर्वसु केन्‍द्रितस्‍य स्‍व विशिष्‍टस्‍य घटनाक्रमस्‍य कारणात्‌ अपि अयं चतुर्थः शुभसमाचारः अन्‍येम्‍यः त्रिभ्‍यः सहदर्शिभ्‍यः शुभसमाचारेभ्‍यः पृथकः, एकस्‍य महत्‍वपूर्णस्‍य साक्षिणः रूपेः प्रकटः अभवत्‌।
विषयवस्‍तुनः रूपरेखा
प्राक्‌कथनम्‌ - 1:1-18
योहनजलसंस्‍कारदातुः साक्षी, प्रभोः येशोः प्रथमाः शिष्‍याः- 1:19-51
प्रभोः येशोः सेवाकार्याणि- 2:1—12:50
येरुसलेमनगरे अन्‍तिमाः शिक्षाः जीवनदानम्‌ च- 13:1—19:42
पुनरुत्‍थानम्‌ शिष्‍येभ्‍यः दर्शनम्‌ च- 20:1-31
उपसंहारः गलीलप्रदेशे शिष्‍येभ्‍यः दर्शनम्‌ च- 21:1-25

Áherslumerki

Deildu

Afrita

None

Want to have your highlights saved across all your devices? Sign up or sign in