यूहन्नः 6
6
पत्र्चसहस्रजनेभ्यः भोजनदानम्
(मत्ती 14:13-21; मर 6:32-44)
1ततः गलीलस्य सरोवरस्य, अर्थात् तिबेरियसस्य सरोवरस्य पारं गतवान्। 2एकः विशालः जनसमूहः तम् अनुजगाम। यतः लोकैः चमत्कारपूर्णकार्याणि, रोगिषु येशुना कृतानि चिन्हानि तानि दृष्टानि। 3येशुः शिष्यैः सह गिरिम् आरुह्य समुपाविशत्। 4यहूदिनाम् पास्कापर्व (फसहपर्व) निकटम् आसीत्।
5येशुः नेत्रे ऊर्ध्वम् अकरोत्, अपश्यत् च एकः विशालः जनसमूहः तं प्रति आगच्छति। तेन फिलिपः उक्तः, “वयम् एतेषां भोजनार्थम् कुत्रतः रोटिकाः क्रेष्यामः?” 6फिलिपं परीक्षमाणः येशुः एतद् वाक्यम् अभाषत। यतः सः स्वयम् अजानत् किम् असौ करिष्यति इति। 7फिलिपः तं प्रत्युतरत्, “द्विशत दीनारमूल्यारोटिकाः अपि पर्याप्ताः न सन्ति, उपस्थितानाम् एकैकः स्तोकं स्तोकं च प्राप्नुयात्।” 8तदा तदीय शिष्यानाम् एकः अन्द्रेयासः, सिमोनपतरस्य भ्राता अभाषत, 9“अत्र एकस्य बालकस्य पार्श्वे पत्र्च रोटिकाः तथा मीनयुग्मं सन्ति, परन्तु एतावत् एतेषां कृते किं नु भविष्यति? 10येशुः तं प्रत्युवाच, “एतान् भोजनाय उपवेशय।” तत्र शष्पबाहुल्यम् आसीत्। जनाः उपविशन्। प्रायः पत्र्च सहस्राणि पुरुषाः उपस्थिताः आसन्। 11ततः येशुः रोटिकाः समादाय, धन्यवादस्य प्रार्थनां पठित्वा, शिष्येभ्यः ताः प्रदत्तवान्। शिष्याः तत्र उपविष्टेभ्यः यथेच्छं रोटिकाः ददुः। तथैव ते तेभ्यः यथेष्टं मत्स्यान् अपि ददुः। 12लोकेषु तृप्तेषु येशुः शिष्यान् अभाषत, यूयं भग्नांशान् सर्वान् अवशिष्टान् चिनुत, येन कित्र्चदपि न नश्यतु। 13शिष्याः भग्नांशान् सत्र्चित्य द्वादश डल्लकान्, तैरेव भग्नांशैः अवशेषितैः पूरयामासु। 14लोकाः येशोः चमत्कारमेतं दृष्ट्वा मिथः अब्रुवन्, “निश्चयम् एषः नबी अस्ति, यः लोके आगन्ता अस्ति।” 15येशुः एतत् द्रुतम् ज्ञातवान् यत् अत्र उपस्थिताः जनाः मां राजानं चिकीर्षन्तः, ग्रहीष्यन्ति, अतः पुनः एकाकी एव गिरिम् अश्रयत्।
येशुः समुद्रोपरि व्रजति
(मत्ती 14:22-33; मर 6:45-52)
16सन्ध्याकाले समायाते शिष्याः सरोवरस्य तटं ययुः। 17नावम् आरुह्य सर्वे कफरनाहुमं प्रति सरोवरं लंघयन्तः आसन्। तदानीं रात्र्याः समयः आसीत्, येशुः तेषां समीपे न आगतः आसीत्। 18सरोवरः महावातघातेन 19क्रोशान् क्षोभम् आप्तवान्, प्रायशः पत्र्च षट् क्रोशान् यावत् नौदंडेन संचालनस्य पश्चात् तदा ते सर्वे येशुं समुद्रोपरि आगच्छन्तम् अपश्यन्। नावः निकटम् आगच्छन् येशुं दृष्ट्वा शिष्याः अबिभयुः। 20परन्तु येशुः तान् प्रत्यभाषत, “अहम् एव अस्मि मा बिभीत।” 21ततो ते नावि येशुं ग्रहीतुम् ऐच्छन्, किन्तु तत्क्षणम् एव नौः सरोवरस्य तटम् उपजगाम।
कफरनहूमे स्वर्गीयरोटिकायाः प्रतिज्ञा
22ये नराः सरोवरस्य तस्मिन् पारे स्थिताः आसन्, ते अपश्यन् तत्र एका नौः आसीत्, तस्यां येशुः शिष्यैः सह न आसीत्। 23अन्येद्युः तिबेरियसात् अन्यनावः तत् स्थानम् आगताः, यत्र येशोः प्रार्थनायाः पश्चात् जनाः रोटिकाः अभक्षयन्। 24तत्र न तु ते येशुम् अपश्यन् न तस्य शिष्यान्। ततः नौकारूढाः जनाः येशुम् अन्वेषन्तः कफरनहूमं प्रति 25सरोवरपारं जग्मुः। समुद्रपारं गत्वा ते येशुं प्राप्य तम् अब्रुवन्, “गुरो! भवान् कस्मिन् काले अत्र उपस्थितः अभवत्? 26येशुः तान् प्रत्युवाच इत्थम्, “यूयं चमत्कारं द्रष्टुं मां न अन्वेष्यथ परन्तु रोटिकाः खादित्वा तृप्तिम् अभवत। 27नश्वरं भोजनं प्राप्तुं श्रम मा कुरुत परन्तु तस्मै भोजनाय यत्नध्वम्, यत् अनन्तकालं यावत् तिष्ठति, यत् च मानवपुत्रः तुभ्यम् दास्यति यतः पितापरमेश्वरः तस्मै इमम् अधिकारम् अयच्छत्। 28जनाः तम् अपृच्छन्, परमेश्वरस्य इच्छां पूर्णं कर्तुम् अस्माभिः किं कर्तव्यम्? 29येशुः तान् अब्रवीत्, “परमेश्वरस्य इयम् इच्छा वर्तते -” सः यं प्रेषितवान् तस्मिन् विश्वासं कुरुत।”
30जनान् तम् उचुः, त्वम् अस्मान् कां चमत्कृतिम् दर्शयिष्यसि, यां दृष्ट्वा त्वयि विश्वासं कुरवामहै? त्वम् किम् कर्तुम् शक्नोषि? 31अस्माकं पूर्वपुरुषाः मरुभूमौ मन्नाम् खादितवन्तः। यथा लिखितमस्ति - “सः भोजनार्थम् स्वर्गात् रोटिकाम् ददौ।” 32येशुः अब्रूत, “अहं युष्मान् ब्रूवे - “मूसा स्वर्गसमुत्पन्नं भक्ष्यम् युष्मभ्यम् न दत्तवान्। 33मम पिता परमेश्वरः स्वर्गस्य रोटिकां दत्ते, या स्वर्गात् आगत्य संसारे जीवनम् यच्छति।”
जीवनस्य रोटिका अहम् अस्मि
34जनाः ऊचिरे, “प्रभो! अस्मभ्यम् ताः एव रोटिकाः देहि।” 35सः तान् उवाच, “जीवनस्य रोटिका अहम् अस्मि। यः मत्समीपम् आयाति, तं क्षुधा नैव बाधते। यश्च मयि विश्वसिति सः तृषार्त्तः न भविष्यति। 36तथापि अहं युष्मान् अब्रवम्, यूयं मां दृष्ट्वा अपि विश्वासं न कुरुथ। 37पिता मह्यम् यं ददाति, सोऽवश्यं माम् उपेष्यति। मत्समीपं यः आयाति तमहं न निष्कास्यामि। 38यतः अहम् स्वाम् इच्छां न, परन्तु येनाहं प्रेषितः अस्मि, तस्य इच्छायाः अनुवर्तनम् कर्तुम् स्वर्गात् समायातः अस्मि। 39येनाहं प्रेषितः तस्य अभीष्टम् एतत् वर्तते, यत् तेन ये मह्यम् अर्पिताः, मत्तः त्राणम् आप्नुयुः। अहं तान् अन्तिमदिने पुनरुज्जीवितान् करिष्यामि। 40मम पितुः इयम् इच्छा वर्तते यत् यः पुत्रं दृष्ट्वा तस्मिन् विश्वसिति, तस्मै शाश्वतजीवनं लभेत।
41येशुः अब्रूत, “स्वर्गलोकात् अवतीर्णा रोटिका अहम् एव अस्मि।” इति आकर्ण्य यहूदिनः मिथः अब्रूवन्, 42“किमयं यूसुफस्य पुत्रः नास्ति? वयम् अस्य पितरौ जानीमः, तदा एषः कथं वदति, स्वर्गतः अवतीर्णः अस्मि?“ 43येशुः तान् अब्रूत, “अलं मिथः विवादेन। 44कश्चित् मम पार्श्वे तावत् आगन्तुम् न शक्नोति, यावत् पिता, यः मां प्रेषितवान्, तेन न आकृष्यते। तमहम् अन्तिमदिने 45पुनरुज्जीवयिष्यामि। यतः नबिनां ग्रन्थेषु इदं लिखितमस्ति - ते सर्वे परमेश्वरेण शिक्षां लप्स्यन्ते। य परमेश्वरस्य शिक्षां शृणोति, गृह्णाति च, सः मत्समीपम् आयाति।
46युष्माभिः न अवगन्तव्यम्, कश्चित् पितरं दृष्टवान्, यः प्रभोः आगतः अस्ति, सैव पितरम् दृष्टवान्। 47अहं युष्मान् ब्रवीमि, यः विश्वसिति, सः अनन्तजीवनम् लभते। 48जीवनस्य रोटिका अहमेव अस्मि। 49युष्माकं पूर्वजाः मरुभूमौ मन्नां भुक्तवन्तः अम्रियन्त च। 50अहं यां रोटिकां ब्रवीमि, सा स्वर्गात् अवतीर्णा, यः ताम् अश्नाति, सः सदा जीवितः स्थास्यति। 51यां रोटिकाम् अहं दास्यामि, सा संसारस्य जीवनाय मम देहः अस्ति। 52ततः यहूदिनः विवदमानाः मिथः ऊचिरे, अयं भोजनार्थं कथं स्वदेहम् अस्मभ्यम् दास्यति? 53अतः येशुः तान् अब्रूत, ”यदि यूयं मानवपुत्रस्य देहम् नाश्नीथ, तथैव तस्य रक्तम् न पिबथ, तदा यूयम् अनन्तंजीवनम् न लप्स्यध्वे। 54यः मम मांसम् अश्नाति, तथा शोणितम् पिबति, तस्मै अनन्तजीवनम् प्राप्तम् अस्ति, अहं च अन्तिमे दिने तं पुनरुज्जीवितम् करिष्यामि; 55यतः मम देहः सत्यं भोजनम् अस्ति, भदीय शोणितम् सत्यं पेयं वर्तते। 56यः मे देहमश्नाति, मदीय शोणितम् च पिबति, सः मयि निवसति, अहं तस्मिन् निवसामि। 57यथा जीवन्तः पिता मां प्रेषितवान्, अहं पित्रोः जीवनं लभे, तथैव, यः माम् अश्नाति, सः मत्तः जीवनं लप्स्यते। 58इयमेव सा रोटिका या स्वर्गात् अवतीर्णा वर्तते। इयं रोटिका तस्याः रोटिकायाः सदृशा नास्ति, यां युष्माकं पूर्वजाः अभक्षयन्, ते अम्रियन्त। परन्तु यदि कश्चित् इमां रोटिकां भुंक्ते सः अनन्तकालं यावत् जीविष्यति।”
बहूनां शिष्याणां येशोः परित्यागः
59येशुः कफ़रनहूमस्य सभागृहे जनान् शिक्षयन् एतत् सर्वम् अब्रूत। 60तस्य केचन शिष्याः येशोः वचः श्रुत्वा अब्रुवत, “इयं तु अति दुर्ग्रहा शिक्षा अस्ति। इमां कः स्वीकर्तुम् शक्नोति?” 61इद्ं ज्ञात्वा यत् शिष्याः अस्मिन् विषये विवदन्ते, येशुः तान् उवाच, “किं यूयम् अनया शिक्षया विचलिताः भवथ? 62यदा यूयं मानवपुत्रं तत्र आरोहणं कुर्वन् द्रक्ष्यथ, यत्र सः पुरा आसीत्, तदा किं कथयिष्यथ? 63आत्मा एव जीवनं ददाति, शरीरेण को लाभः न भवति। अहं यां शिक्षां तुभ्यम् ददे, सा आत्मा तथा जीवनमस्ति। 64तथापि युष्मासु अनेकाः न विश्वसन्ति।” येशुः तु आरम्भतः वेत्ति स्म के न विश्वसन्ति, कः तं वत्र्चयिष्यति। 65सः पुनः उवाच, अतएव अहम् अब्रुवि, “मत्समीपं कोऽपि तावत् आगन्तुं न शक्नोति, यावत् तस्मै पित्रा वरः न प्राप्तः अस्ति।
66ततः परं बहवः शिष्याः तम् परित्यक्तवन्तः। 67अतः येशुः द्वादशप्रेरितान् अपृच्छत्, “किं यूयमपि मां त्यक्त्वा गन्तुमिच्छथ? 68सिमोनपेत्रुसः तं प्रत्युवाच, “प्रभो! त्वां परित्यज्य कं लोकम् आश्रयितुं गच्छेम? भवतः उक्तिषु अनन्तजीवनस्य सन्देशः अस्ति, 69वयं विश्वसामः, जानीमश्च यत् भवान् परमेश्वरेण प्रेषितः परमपावनः पुरुषः विद्यते।” 70येशुः तमुवाच, “किं यूयं द्वादश मया न निर्वाचिताः? तथापि युष्मासु एकः शातनः अस्ति।” 71इदं सः शिमोनइस्करियोतीपुत्रं यूदसम् उदि्दश्य कथितवान्। सः एव द्वादशेषु विश्वासघातकः आसीत्।
Valið núna:
यूहन्नः 6: SANSKBSI
Áherslumerki
Deildu
Afrita
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.