मत्ति 6:19-21

मत्ति 6:19-21 SANSKBSI

“भूतले स्‍वकृते धनम्‌ संचित्‍य मा रक्ष, यतः कीटानुविद्‌धं तत्‌ निश्‍चयं क्षयम्‌ एष्‍यति। कुड्‌यं भित्‍वा धनं चौराश्‍च अपहरिष्‍यन्‍ति। अतो स्‍वकृते स्‍वर्गे कुरू धनसंचयम्‌। तत्र कीटः कलंकः वा न क्षिणोति हि तत्‌ धनम्‌। चौराश्‍चापि कुड्‌यं न भिन्‍दन्‍ति न हि तत्‌ मुष्‍णन्‍ति। यतो यत्र हि युष्‍माकं धनम्‌ आस्‍ते, युष्‍माकं हृदयमपि तत्रैव ध्रुवम्‌ स्‍थास्‍यति।