लूका 22

22
यूदसस्‍य (यहूदः) विश्‍वासघातः
(मत्ती 26:26-30; मर 14:22-26)
1बेखमीररोटिकायाः पर्व यत्‌ पास्‍काभिधं पर्व (फसह) कथ्‍यते, प्रत्‍यासन्‍नम्‌ आसीत्‌। 2शास्‍त्रिणः, महापुरोहिताश्‍च येशोः वधं चिकीर्षवः उपायान्‍वेषणे आसन्‌, परन्‍तु ते जनेभ्‍यः बिभ्‍यति स्‍म।
3तस्‍मिन्‌ काले शैतानः यूदसे (यहूदि) प्रविष्‍टवान्‌। यूदसः, इस्‍करियोती कथयते स्‍म, द्वादशेषु एकः आसीत्‌। 4सः महापुरोहितानां, मन्‍दिरस्‍यारिक्षणां नेतॄणां च सन्‍निकटं गत्‍वा तैः सह मन्‍त्रयामास, यत्‌ केनोपायेन सः येशुं तेभ्‍यः समर्पयेत्‌। 5ते अतिप्रसन्‍नाः भूत्‍वा, तस्‍मै रुप्‍यकाणि दातुं प्रतिज्ञां कृतवन्‍तः। 6यूदसः तैः सह सहमतः भूत्‍वा, येशोः अवग्रहे प्रयत्‍नशीलः अभवत्‌।
पास्‍कापर्वणः (फसहपर्वणः) भोजस्‍य प्रबन्‍धः
(मत्ती 26:26-30; मर 14:22-26)
7बेखमीररोटिकायाः दिनम्‌ आगतम्‌, यस्‍मिन्‌ मेषबलेः अर्पणम्‌ आवश्‍यकमासीत्‌ 8येशुः पतरसं योहनं च इत्‍थम्‌ आदिश्‍य प्रेषितवान्‌, “गत्‍वा मदर्थम्‌ पास्‍कोत्‍सवीयभोज्‍यस्‍य प्रबन्‍धं कुरुतम्‌।” 9तौ येशुम्‌ अपृच्‍छताम्‌, “भवान्‌ किम्‌ इच्‍छति? कुत्र असौ प्रबन्‍धः भवेत्‌।” 10येशुः तौ अवदत्‌, “पुरं नगरे प्रविष्‍टे सति कश्‍चित्‌ जलपूर्णम्‌ घटं वहन्‌ एकः नरः युवयोः दृष्‍टिमेष्‍यति। तम्‌ अनुगच्‍छतम्‌ यस्‍मिन्‌ गृहे सः प्रवेक्ष्‍यति। 11तद्‌ गृहस्‍वामिनं कथयतम्‌, गुरुः भवन्‍तम्‌ अवाचयत्‌ - अतिथिशाला कुत्र अस्‍ति, यत्राहं शिष्‍यैः सह पास्‍कोत्‍सवीयभोज्‍यं भोक्ष्‍ये?” 12गृहस्‍वामी ऊर्ध्‍वस्‍थाम्‌ एकां शालां सुसज्‍जिताम्‌ दर्शयिष्‍यति। तत्रैव प्रबन्‍धः कुरुताम्‌। 13उभौ अगच्‍छताम्‌। येशुना यथाकथितम्‌ तथैव प्राप्‍तवन्‍तौ, भोज्‍यस्‍य व्‍यवस्‍था ताभ्‍याम्‌ कृता च।
अन्‍तिमभोज्‍यम्‌
(मत्ती 26:26-30; मर 14:17-25)
14समये आगते, येशुः द्वादशैः प्रेरितैः सह भोजनं कर्तुम्‌ आरब्‍धवान्‌। 15सः तान्‌ इदम्‌ उक्‍तवान्‌, “दुःखभोगात्तु पूर्वं युष्‍माभिः सह पास्‍कोत्‍सवीयं भोजनम्‌ कर्तुम्‌ मम बलवती इच्‍छा आसीत्‌, 16यतः अहं युष्‍मान्‌ ब्रवीमि - यावत्‌ इदम्‌ प्रभोः राज्‍ये पूर्णतां न याति, तावत्‌ अहम्‌ इदं पुनः न भक्षयिष्‍ये।” 17ततः पर येशुः हस्‍ते पानपात्रं गृहीतवान्‌, धन्‍यवादस्‍य प्रार्थनां पठित्‍वा अभाषत, “इदं गृह्‌णीत मिथः विभजध्‍वम्‌। 18यतः अहं युष्‍मान्‌ ब्रवीमि, यावत्‌ परमेश्‍वरस्‍य राज्‍यं न समायाति तावद्‌ पुनः अहं द्राक्षारसं नैव पास्‍यामि।”
19ततः असौ रोटिकाम्‌ आदाय, धन्‍यवादस्‍य प्रार्थनां पठित्‍वा, तां भड्‌.क्‍त्‍वा इदं ब्रूवन्‌ तेभ्‍यः अददात्‌, “अयं मम देहः अस्‍ति, यः युष्‍मभ्‍यम्‌ दीयते, इमं मम स्‍मृतौ कुरुत।” 20इत्‍थं भोजनस्‍य पश्‍चात्‌, इदं कथयन्‌ पानपात्रम्‌ अददात्‌, “इदं पानपात्रं मम रक्‍तस्‍य नूतनं विधानं वर्तते, इदं युष्‍मभ्‍यम्‌ प्रवाह्‌यते।”
यूदसस्‍य (यहूदः) विश्‍वासघातस्‍य संकेतः
(मत्ती 26:21-25; मर 14:11-21; यूह 13:21-30)
21“पश्‍यत, मम विश्‍वासघातिनः हस्‍तः, मम हस्‍तेन सह फलके अस्‍ति। 22मानवपुत्रस्‍य यथा लिखितम्‌, प्रयाति; परन्‍तु धिक्‌ तं नरं यः, तं ग्राहयति।” 23तदा ते मिथः पृष्‍टवन्‍तः, अस्‍मासु को इदं कार्यम्‌ करिष्‍यति?
शिष्‍येषु कः सर्वमहान्‌?
(मत्ती 20:25-27; मर 10:42-44)
24ततः तेषु विवादः अभवत्‌ यत्‌ अस्‍मासु को सर्वश्रेष्‍ठः। 25येशुः तान्‌ अब्रवीत्‌, “संसारे राजानः स्‍व प्रजासु निरंकुशं शासनं कुर्वन्‍ति, सत्ताधारिणः “उपकारिणः” कथयन्‍ते। 26परन्‍तु युष्‍मासु ईदृशः नास्‍ति। यः युस्‍मासु महान्‌ वर्तते, असौ कनिष्‍ठतमः इव वर्तेत, यः अधिकारी अस्‍ति, सः सेवकः यथा आचरेत्‌। 27अस्‍तु, को महान्‌ वर्तते - सः, यः फलके उपविशति, अथवा सः, यः परिवेशयति? सैव, यः फलके उपविशति। परन्‍तु युष्‍मासु मध्‍ये अहं सेवकः यथा अस्‍मि।
प्रेरितेभ्‍यः पुरस्‍कारः
(मत्ती 19:28)
28“यूयं मम विपत्तौ अवस्‍थिताः। 29मे पिता मह्‌यम्‌ राज्‍यं प्रदत्तवान्‌, अतः अहमपि युष्‍मभ्‍यम्‌ इमम्‌ अधिकारं ददामि, 30यत्‌ यूयं सर्वे मम राज्‍ये मम मत्र्चे भोजनं जलपानं च करिष्‍यथ। सिंहासने अधिष्‍ठाय इस्राएलस्‍य द्वादशवंशानां न्‍यायं विधास्‍यथ।
पतरसस्‍य भावि नैर्बल्‍यम्‌
(मत्ती 26:31-35; मर 14:27-31; यूह 13:36-38)
31“सिमोन! सिमोन! दुष्‍टात्‍मने यथा गोधूमः चाल्‍यते तथा अभिचालयितुम्‌ अनुमतिः प्राप्‍ता। 32किन्‍तु मया त्‍वदर्थम्‌ प्रार्थना कृता अस्‍ति, येन तव विश्‍वासः नष्‍टः न भवेत्‌। यदा उचितमार्गे पुनः आगमिष्‍यसि, तदा सर्वान्‌ भ्रात्रृन्‌ त्‍वं स्‍थिरान्‌ करिष्‍यसि।”
33पतरसः तं जगाद, “प्रभो! त्‍वया साद्‌र्धम्‌ अहं कारागारं तथा मृत्‍युं प्राप्‍तुम्‌ उद्‌यतः अस्‍मि।” 34परन्‍तु येशुः तं जगाद, “पतरस! त्‍वामहं ब्रवीमि प्रातरद्‌यः कुक्‍कुटस्‍य रवात्‌ प्रागेव त्‍वं त्रयवारं मां न स्‍वीकरिष्‍यति, यत्‌ त्‍वां मां जानासि।”
भावी संकटम्‌
35येशुः तान्‌ पुनः प्राह- “यदा अहं युष्‍मान्‌ धनकोषं, सोपकारद्रव्‍याधारं उपानहौ विना अप्रेषयम्‌, किं तदा कस्‍यापि वस्‍तुनः अभावः अभवत्‌?” 36ते प्रत्‍युतरन्‌, “कस्‍यापि वस्‍तुनः अभावः न अभवत्‌।” येशुः तान्‌ पुनः अवदत्‌, “यस्‍य पार्श्‍वे साम्‍प्रतम्‌ धनकोषः, सः गृह्‌णातु तं, तथा सोपकारद्रव्‍याधारम्‌। यस्‍य पार्श्‍वे इदानीं मुद्राधारः नास्‍ति, सः स्‍ववस्‍त्रं विक्रीय असिं क्रीणातु, 37यतः अहं युष्‍मान्‌ ब्रवीमि यत्‌ धर्मग्रन्‍थे यत्‌ लिखितम्‌ वर्तते तत्‌ मयि सिद्धं भविष्‍यति तस्‍य गणना कुकर्मिषु अभवत्‌। मम विषये यत्‌ प्रोक्‍तमस्‍ति तत्‌ सर्वम्‌ परिपूर्णम्‌ भविष्‍यति।” 38शिष्‍याः प्रोक्‍तवन्‍तः, “प्रभो! पश्‍य, अत्र असियुग्‍मकम्‌ वर्तते।” परन्‍तु येशुः तान्‌ अब्रवीत्‌, “पर्याप्‍तं वर्तते।”
प्रभोः प्राणपीड़ा
(मत्ती 26:36-46; मर 14:32-42)
39ततः परं स्‍वस्‍वभावानुसारतः निर्गत्‍य जैतूनगिरिं प्रतस्‍थे। शिष्‍याः अपि तम्‌ अनुगमन्‌। 40येशुः तत्र आगत्‍य शिष्‍यान्‌ अवदत्‌, यूयं प्रभुं प्रार्थयत येन यूयं परीक्षायां मा पतेत।” 41ततः स प्रस्‍तरक्षेपस्‍थानं यावत्‌ पृथकः स्‍थितः जानुभ्‍यां भूमौ पतित्‍वा इमां प्रार्थनाम्‌ अकरोत्‌, 42“हे पितः! यदि त्‍वं कामयसे इदं पानपात्रं मत्तः अपसारयितुं चेत्‌, त्‍वम्‌ इदम्‌ अपसार्य। तथापि मे वात्र्छा न इयं तव इच्‍छा एव सिध्‍यतु। (43तदानीं तस्‍मै स्‍वर्गस्‍य कश्‍चित्‌ दूतः अदृश्‍यत, तं भृशम्‌ सान्‍त्‍वयामास च। 44येशुः तु प्राणपीड़ायां प्रार्थनायां निरतः अभवत्‌। तस्‍य स्‍वेदः शरीरात्‌ शोणितविन्‍दुवत्‌ भूमौ अपतत्‌।) 45प्रार्थनातः उत्‍थाय शिष्‍याणां समीपम्‌ आगच्‍छत्‌, शोकात्‌ निन्‍द्राम्‌ उपेयुषाम्‌ दृष्‍ट्‌वा, सः तान्‌ पुनः प्रत्‍यभाषत, 46“यूयं कथं निद्राम्‌ उपागताः? उत्तिष्‍ठत, प्रार्थयध्‍वं, येन यूयं कठिनपरीक्षायां मा पतेत।”
येशोः अवग्रहः
(मत्ती 26:47-56; मर 14:27-31; यूह 13:36-38)
47येशुः एवं भाषमाणः आसीत्‌, तं जनता उपागता। यूदसः द्वादशेषु एकः, अग्रेअब्रजत्‌। सः येशुम्‌ उपागत्‍य तस्‍य चुम्‍बनम्‌ अकरोत्‌। 48येशुः तम्‌ अवदत्‌, यूदस! किम्‌ त्‍वं चुम्‍बनं दत्‍वा मानवपुत्रेण सह विश्‍वासघातं करोषि?
49येशोः केचित्‌ संगिनः इदं दृष्‍ट्‌वा तम्‌ अपृच्‍छन्‌, प्रभो! किं वयम्‌ असिं धराम? 50तेषाम्‌ एकः महापुरोहितस्‍य दासं प्रहृत्‍य तस्‍य दक्षिणं कर्णम्‌ समूलम्‌ अवचिच्‍छेद। 51परन्‍तु येशुः अवदत्‌, “बहु संजातम्‌ इति उक्‍त्‍वा तस्‍य कर्णम्‌ संस्‍पृश्‍य तं निरामयम्‌ चक्रे। 52ततः तं धर्तुम्‌ आयातान्‌, महापुरोहितान्‌ तथा मन्‍दिरारक्षिणः सर्वान्‌ नायकान्‌ च अब्रवीत्‌, “यूयं मां ”दस्‍युः अस्‍ति इति” ज्ञात्‍वा धर्तुम्‌ इच्‍छया दण्‍डान्‌ खड्‌गान्‌ गृहीत्‍वा माम्‌ उपागताः? 53अहं प्रतिदिनम्‌ मन्‍दिरे युष्‍माभिः सह अभवम्‌। युष्‍माभिः मयि हस्‍तः न क्षिप्‍तः। परन्‍तु अयं समयः युष्‍माकं वर्तते। इदानीम्‌ अन्‍धकारस्‍य शासनं विराजते।”
पतरसस्‍य अस्‍वीकरणम्‌
(मत्ती 26:57-58; मर 14:53-54; यूह 18:12-18,25-27)
54ततः ते येशुं गृहीत्‍वा महायाजकसन्‍निधिम्‌ प्रापयन्‌, पतरसः अपि तं दूरादनुयातवान्‌। 55प्राङ्‌गणे अग्‍निं प्रज्‍वाल्‍य तं परितः जनाः समासीनाः आसन्‌। पतरसः चापि उपविष्‍टवान्‌। 56काचिद्‌ दासी अग्‍नेः प्रकाशे पतरसम्‌ उपविष्‍टम्‌ विलोक्‍य, तस्‍मिन्‌ दृष्‍टिं निपात्‍य च, अवदत्‌, “एषः अपि तेन एव साकम्‌ आसीत्‌।” 57पतरसः दास्‍याः वचः अस्‍वीकुर्वन्‌ अभाषत, “अहं तं न जानामि।” 58क्षणात्‌, कश्‍चित्‌ तं दृष्‍ट्‌वा इदम्‌ प्रोक्‍तवान्‌, “त्‍वमपि तेषु एक वर्तते ।” पतरस अब्रवीत्‌ - “भ्रातः! अहं नास्‍मि।” 59प्रायः घटिकानन्‍तरम्‌ कश्‍चित्‌ अपरः अतिदाढयेन व्‍याजहार-“नूनमेषः अपि तेन एव सह आसीत्‌ यतः एषः अपि गलिलीयः अस्‍ति। 60पतरसः प्रत्‍युतरत्‌ “भ्रातः! त्‍वं किं ब्रवीषि इति अहं न जाने।” इत्‍थं पतरसे वदिते, तस्‍मिन्‌ एव क्षणे कुक्‍कुटः रुराव। 61प्रभुः, मुखं परावर्त्‍य पतरसम्‌ दृष्‍टवान्‌। पतरसः प्रभोः वाक्‍यम्‌ अस्‍मरत्‌, यत्‌ अद्यः कुक्‍कुटस्‍य रवात्‌ प्राक्‌ त्‍वं वारत्रयं माम्‌ अस्‍वीकरिष्‍यसि। 62पतरसः बहिः गत्‍वा स्‍फुटम्‌ रुरोद।
अत्‍याचारः
(मत्ती 26:67-68; मर 14:65)
63प्रहरिणः येशोः उपहासम्‌, कुर्वन्‍तः तस्‍मिन्‌ अत्‍याचारान्‌ अपि कुर्वन्‍ति स्‍म। 64तस्‍य अक्षिणी वस्‍त्रेण बद्‌ध्‍वा पृष्‍ठे प्रताड्‌य तं पृष्‍टवन्‍तः त्‍वं चेद्‌ नबी असि, ब्रूहि कः त्‍वाम्‌ अताडयत्‌? 65ते येशुम्‌ अपमानितं कुर्वन्‍तः, अन्‍यानि उपहासवचांसि अकथयन्‌।
धर्ममहासभायाः समक्षम्‌
(मत्ती 26:59-75; मर 14:53-64; 15:1; यूह 18:12-18,25-27)
66ततः सूर्योदये जाते धर्मवृद्धाः, महापुरोहिताः, शास्‍त्रिणश्‍च एकत्राः अभवन्‌। 67ते येशुम्‌ स्‍वधर्मसभायाम्‌ आहूय तमवदन्‌, “त्‍वं मसीहोऽसि चेद्‌ अस्‍मान्‌ ब्रूहि।” 68येशुः तान्‌ अब्रवीत्‌, “यत्‌ अहं वच्‍मि, यूयं न विश्‍वसिष्‍यथ। अहं पृच्‍छामि चेत्‌, यूयं मां न उत्तररिष्‍यथ। 69परन्‍तु इतः परं मानवपुत्रः सर्वशक्‍तिमतः प्रभोः दक्षिणे समासीनः स्‍थास्‍यति।” 70ततः सर्वे प्रोक्‍तवन्‍तः, “तर्हि किं त्‍वं प्रभोः सुतः?” येशुः तान्‌ अवदत्‌, “यूयं सत्‍यं वदत, सः अहमस्‍मि।” 71इत्‍याकर्ण्‍य ते अब्र्रूवन्‌ - “अस्‍माकं किम्‌ अधिकेन साक्ष्‍येण प्रयोजनम्‌ अस्‍ति? अस्‍माभिः स्‍वतः अस्‍य मुखात्‌ श्रुतम्‌।”

वर्तमान में चयनित:

लूका 22: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in