लूका 20

20
अधिकारस्‍य प्रश्‍नः
(मत्ती 21:23-27; मर 11:27-33)
1एकस्‍मिन्‌ दिने येशुः मन्‍दिरे उपदिशति स्‍म, शुभसमाचारश्रावणे तत्‍परः आसीत्‌, तदा धर्मवृद्धैः सह महायाजकाः, शास्‍त्रिणः, नेतारश्‍च 2तमुपेत्‍य इदम्‌ अवदन्‌ - “अस्‍मान्‌ ब्रूहि, केनाधिकारेण त्‍वमिदं कुरुषे? एतानि कार्याणि कर्तुम्‌ तुभ्‍यम्‌ कोऽधिकारं प्रदत्तवान्‌।” 3येशुः तान्‌ अब्रवीत्‌, “अहमपि युष्‍मान्‌ प्रति एकं प्रश्‍नं प्रष्‍टुम्‌ इच्‍छामि, मह्‌यम्‌ तस्‍य उत्तरम्‌ दत्त। 4किं योहनस्‍य जलसंस्‍कारः स्‍वर्गतः अथवा मनुष्‍यतः उत्‍पन्नः आसीत्‌?” 5सर्वे विरोधिनः मिथः विचारयामासुः, यदि वदामः सः जलसंस्‍कारः स्‍वर्गतः आसीत्‌, तदा सः वदिष्‍यति, युष्‍माभिः तर्हि तस्‍मिन्‌ विश्‍वासः कथम्‌ न विहितः? 6यदि वयं वदामः सः मनुष्‍यतः उत्‍पन्‍नः, तदा सर्वे जनाः अस्‍मान्‌ प्रस्‍तरैः मारयिष्‍यन्‍ति, यतः योहनस्‍य नबित्‍वे जनाः दृढं विश्‍वसन्‍ति। 7अतः ते उक्‍तवन्‍तः, वयं न जानीमः सः कुतः समुत्‍पन्‍नः आसीत्‌। 8एतत्‌ श्रुत्‍वा येशुः कथितवान्‌, “युष्‍मान्‌ अपि अहं न वक्ष्‍ये केनाधिकारेण सर्वमेतत्‌ अहम्‌ करोमि।”
द्राक्षोद्‌यानम्‌
(मत्ती 21:33-46; मर 12:1-12)
9ततः येशुः जनान्‌ इमं दृष्‍टान्‍तं श्रावयितुम्‌ आरब्‍धवान्‌ - “कश्‍चिद्‌ जनः द्राक्षोद्‌यानं निर्मितवान्‌। एकदा असौ तत्‌ उद्‌यानं करदायिनाम्‌ कृषकाणां हस्‍ते दत्‍वा परदेशं प्रयातवान्‌। 10फलकाले समायाते फलांशानां जिघृक्षया कृषकम्‌ अन्‍तिकम्‌ एकं विश्‍वस्‍तं दासं प्रेषितवान्‌। कृषकाः तु तं ताडयित्‍वा रिक्‍तहस्‍तं विससृजुः। 11पुनश्‍च सोऽपरं दासं प्राहिणोत्‌, किन्‍तु तं दासम्‌ अपि ताडयित्‍वा ते तथैव विससृजुः। 12पुनः सः तृतीयकं दासं अप्रेष्‍यत्‌। ते तमस्‍त्रैः समाहृत्‍य उद्‌यानाद्‌ बहिः अक्षिपन्‌। 13ततः सः द्राक्षोद्‌यानस्‍य पतिः एवम्‌ अभाषत, किं करवाणि? स्‍वं प्रियं पुत्रं तान्‌ कृषकान्‌ प्रति प्रेषयिष्‍यामि। किंस्‍वित्‌ ते तस्‍य समादरं कुर्वन्‍तु। 14एवं विचार्य सः स्‍वसुतं तेषां समीपं प्रेषितवान्‌। कृषकाः तं दृष्‍ट्‌वा मिथः अवदन्‌, अयं द्राक्षोद्‌यानपतेः उत्तराधिकारी अस्‍ति। वयमस्‍य वधं कुर्मः, येन उद्‌यानपतेः इदं सर्वम्‌ रिक्‍थम्‌ उद्‌यानम्‌ अस्‍माकं हस्‍तेषु भवेत्‌। 15ते उद्‌यानपतेः सुतम्‌ उद्‌यानस्‍य बहि भूमौ पातयित्‍वा वधं कृतवन्‍तः। इदानीं द्राक्षोद्‌यानस्‍य पतिः किं करिष्‍यति? 16सर्वान्‌ सः पशुघातं हनिष्‍यति। ततः स्‍वकीयम्‌ उद्‌यानम्‌ अन्‍येभ्‍यः अर्पयिष्‍यति।”
17ते, एतत्‌ निशम्‍य येशुम्‌ अवदन्‌, “एवं न भवेत्‌ इति।” किन्‍तु येशुः तान्‌ स्‍थिरदृष्‍ट्‌या दृष्‍ट्‌वा अवदत्‌, “धर्मग्रन्‍थस्‍य अस्‍य कथनस्‍य कोऽभिप्रायः वर्तते? शिल्‍पिभिः यः पाषाणः अनुपयोगितया निराकृतः सः एव गृहकोणस्‍थप्रस्‍तरः आस्‍ते? 18यः तस्‍मिन्‌ प्रस्‍तरे पतिष्‍यति, सः चूर्णो भविष्‍यति। प्रस्‍तरः यस्‍मिन्‌ पतिष्‍यति तं चूर्णयिष्‍यति।”
19शास्‍त्रिणः महापुरोहिताः तं तस्‍मिन्‌ एव काले धर्तुम्‌ इच्‍छन्‍ति स्‍म, परन्‍तु जनेभ्‍यः बिभ्‍यति स्‍म। ते सम्‍यक्‌ अजानन्‌ यत्‌ येशुः दृष्‍टान्‍तवचनं तान्‌ एवोदि्‌दश्‍य कथितवान्‌।
करदानस्‍य प्रश्‍नः
(मत्ती 22:15-22; मर 12:13-17)
20सर्वे तत्‌ विरोधिनः येशुं ग्रहीतुम्‌ इच्‍छन्‍तः गुप्‍तचरान्‌ अपि प्रेषितवन्‍तः, येन ते येशुम्‌ तस्‍य एव वाक्‌पाशे बद्‌ध्‍वा प्रदेशाधिपतेः करे अथवा देशाध्‍यक्षस्‍य हस्‍तयोः अर्पयेयुः। 21अथ येशुम्‌ पृष्‍टवन्‍तः, “गुरो! वयं जानीमहे यत्‌ त्‍वया सत्‍यं प्रोच्‍यते, सत्‍यमेव शिक्षयते च। मुखं प्रेक्ष्‍य न भाषसे, परन्‍तु सत्‍येन एव प्रभोः मार्गम्‌ शिक्षयसि। 22-23रोमनसम्राजे करदानं कर्तव्‍यमथवा न हि।” येशुः तेषां धूर्ततां ज्ञात्‍वा तान्‌ जगाद्‌, 24“यूयमेकं दीनारं मे हस्‍ते अर्पयत। तत्र कस्‍य मूर्तिः लेखश्‍च वर्तेते?” ते बभाषिरे, “सम्राजः इति।” 25येशुः तान्‌ अवदत्‌, “यद्‌ सम्राजः आस्‍ते, तत्‌ सम्राजे दत्त, यद्‌ परमेश्‍वरस्‍य आस्‍ते, तद्‌ परमेश्‍वराय दत्त।”
26ते सर्वे येशोः एतत्‌ वचः श्रुत्‍वा विस्‍मिताः भूत्‍वा मौनम्‌ आश्रयन्‌। स्‍ववाक्‍पाशे येशुं धर्तुम्‌ ते न अशक्‍नुवन्‌।
मृतकानां पुनरुत्‍थानम्‌
(मत्ती 22:23-33; मर 12:18-27)
27अथः केचित्‌ सदूकिनः येशुम्‌ उपागच्‍छन्‌। तेषां धारणा इयमस्‍ति, यत्‌ मृतकानां पुनरुत्‍थानं न भवति। 28ते अपृच्‍छन्‌, गुरो! मूसाः अस्‍मदर्थम्‌ अलिखत्‌, “जीवितायां यदि कस्‍यचित्‌ भ्राता निरपत्‍यः म्रियते, तदा तद्‌भ्राता तां विधवां परिणयं कृत्‍वा तस्‍यां स्‍वभ्रात्रे सन्‍ततिं जनयिष्‍यति। 29सप्‍तभ्रातरः आसन्‌। प्रथमः अनपत्‍यः मृत्‍युम्‌ आप्‍तवान्‌। 30द्वितीयः ताम्‌ उदूढवान्‌, सोऽपि निरपत्‍यः मृतः। ततः 31तृतीयः तां लेभे। इत्‍थं ते सप्‍त भ्रातरः ताम्‌ उदूढवन्‍तः, परन्‍तु अनपत्‍यां तां त्‍यक्‍त्‍वा मृत्‍युम्‌ उपागताः। 32सा विधवा अपि सर्वेषां पश्‍चात्‌ लोकान्‍तरं गता। 33ब्रूहि पुनरुत्‍थाने कस्‍य भार्या भविष्‍यति? यतः ते सप्‍तभ्रातरः क्रमशः ताम्‌ उपयेमिरे।” 34येशुः तान्‌ अवदत्‌, “अस्‍मिन्‌ लोके पुरुषाः उद्‌वहन्‍ति, तथा उद्‌वाहे स्‍त्रीणां दानं विधीयते। 35परन्‍तु ये परलोकस्‍य तथा पुनरुत्‍थानस्‍य योग्‍याः सन्‍ति, ते न उद्‌वहन्‍ति, न स्‍त्रियः विवाहे प्रदीयन्‍ते। 36ते कदापि न म्रियन्‍ते। ते देवदूतैः सदृशाः, यतः ते पुनरुत्‍थिताः सन्‍ति, ते पुनरुत्‍थानस्‍य सन्‍तत्‍यः, तेन हेतुना परमेश्‍वरस्‍य सर्वे सन्‍तानाः भवन्‍ति। 37मृतकानाम्‌ पुनरुत्‍थानं भवति। मूसा अपि ज्‍वलन्‌ गुल्‍मस्‍य वृत्तान्‍ते अस्‍य संकेतं कृतवान्‌ अस्‍ति, यत्र सः प्रभुम्‌ अब्राहमस्‍य परमेश्‍वरः, इसहाकस्‍य परमेश्‍वरः, याकूबस्‍य परमेश्‍वरः च कथयति। 38सः मृतकानां न, जीवितानाम्‌ परमेश्‍वरः वर्तते, यतः तस्‍य कृते सर्वे जीविताः सन्‍ति।”
39येशोः वचः श्रुत्‍वा केचन शास्‍त्रिणः तम्‌ अवदन्‌, “गुरो! त्‍वया सत्‍यमुक्‍तम्‌।” 40ततः परं तं प्रश्‍नं कर्तुम्‌ कस्‍यापि साहसं नाभवत्‌।
मसीहो दाऊदस्‍य वंशजः
(मत्ती 22:41-45; मर 12:35-37)
41येशुः तान्‌ अवदत्‌, “मसीहः दाऊदस्‍य पुत्रः कथं कथ्‍यते? 42यतः भजनानां ग्रन्‍थे स्‍वयं दाऊदः कथयति -
प्रभुः मम प्रभुम्‌ अकथयत्‌
त्‍वं तावत्‌ मम दक्षिणे उपविश
43यावत्‌ अहं तव शत्रून्‌
तव पादपीठं न करिष्‍यामि
44इत्‍थं दाऊदः स्‍वयं तं प्रभुं कथयति, असौ तस्‍य वंशजः कथं भविष्‍यति।”
शास्‍त्रिणः धिक्‌
(मत्ती 23:1-36; मर 12:38-40)
45सर्वेजनाः शृण्‍वन्‍ति स्‍म यदा येशुः स्‍वशिष्‍यान्‌ अवदत्‌, 46“शास्‍त्रिभिः सह युयं सावधानाः तिष्‍ठत। ते लम्‍बवसनं परिधाय विचरन्‍ति। हट्‌टेषु अभिवादनं श्रोतुम्‌ इच्‍छन्‍ति। सभागृहेषु, भोज्‍येषु प्रथमानि श्रेष्‍ठानि आसनानि अभिवात्र्छन्‍ति। 47ते विधवानां धनग्रासे कुशलाः सन्‍ति। प्रदर्शनार्थम्‌ महतीप्रार्थनां कुर्वन्‍ति। ते कठोरां दण्‍डाज्ञां लप्‍स्‍यन्‍ते।”

वर्तमान में चयनित:

लूका 20: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in