लूका 13

13
पापानाम्‌ कारणात्‌ पश्‍चात्तापः
1तस्‍मिन्‌ काले केचित्‌ तस्‍मै न्‍यवेदिषुः गलीलियानां वृतान्‍तं, यत्‌ तेषां निजशोणितम्‌ पिलातुसेन यज्ञीयानां पशूनां च रक्‍तेन सह मिश्रितम्‌ इति। एतान्‌ 2येशुः अब्रवीत्‌ - “किं यूयं मन्‍यध्‍वे यत्‌ एते गलीलीनिवासिनः, गलीलिभ्‍यः चान्‍येभ्‍यः अधिकपापिनः आसन्‌? यतः तैरेव दारुणं व्‍यसनम्‌ अनुभूतम्‌? 3अहं युष्‍मान्‌ ब्रवीमि - तत्‌ तादृशं न वर्तते। परन्‍तु पश्‍चात्तापः चेद्‌ युष्‍माभिः न विधीयते यूयं सर्वेऽपि तथैव नष्‍टाः भविष्‍यथ। 4अथवा शिलोहस्‍य मीनारस्‍य पतनेन ये अष्‍टादशजनाः मृत्‍युम्‌ आप्‍तवन्‍तः, किं ते येरुसलेमवासिभ्‍यः अधिकाः अपराधिनः आसन्‌? 5अहं युष्‍मान्‌ ब्रवीमि न तत्‌ तथा वर्तते, किन्‍तु सर्वे अनुतापं चेत्‌ न कुरुध्‍वे, नशिष्‍यथ।”
फलहीनो अंजीरवृक्षकः
6ततः येशुः इदम्‌ दृष्‍टान्‍तं वचनम्‌ अश्रावयत्‌, “कस्‍यचित्‌ मनुष्‍यस्‍य द्राक्षोद्‌याने एकः अंजीरवृक्षः आसीत्‌। उद्‌यानपतिः तस्‍मिन्‌ फलम्‌ अन्‍वेष्‍टुम्‌ आगतः किन्‍तु तेन वृक्षे एकम्‌ फलम्‌ अपि न प्राप्‍तम्‌। 7तदा सः द्राक्षोद्‌यानस्‍य रक्षकम्‌ अवदत्‌, पश्‍य! अहं त्रीणि वर्षाणि यावत्‌ अस्‍मिन्‌ अंजीरवृक्षे फलम्‌ अन्‍वेष्‍टुमायामि, किन्‍तु कित्र्चन न प्राप्‍नोमि। अतः त्‍वम्‌ एनम्‌ अनुच्‍छिन्‍धि निष्‍फलं भूमिपीडकम्‌। 8रक्षकः अवदत्‌ - स्‍वामिन्‌! वृक्षं वर्षम्‌ यावत्‌ स्‍थातुम्‌ अनुजानिहि। अहं तु परितः चैनम्‌ आलवालकम्‌ खनिष्‍यामि। ततः तं उर्वरकेण पूरयिष्‍यामि, 9ततोऽपि नो चेत्‌ फलति तदा एषः उच्‍छेत्‍स्‍यते।”
अवनतायै स्‍त्रियै विश्रामदिवसे स्‍वास्‍थ्‍यलाभः
10येशुः विश्रामस्‍य दिने क्‍वचित्‌ सदसि उपदिशन्‌ आसीत्‌। 11तत्र काचित्‌ स्‍त्री समागता। सा तु अपदूतेन अभिभूता अष्‍टादशवर्षाणि रोगेण पीडिता आसीत्‌। सा रोगेण भूयसा अवनता आसीत्‌। सा सम्‍पूर्णतः ऋजुः स्‍थातुं न अशक्‍नोत्‌। 12येशुः तां दृष्‍ट्‌वा स्‍वपार्श्‍वे आहूय एवं जगाद - “नारि! त्‍वं निजदौर्बल्‍यात्‌ परिमुक्‍ता असि।” 13येशुः ताम्‌ निजपाणिना अस्‍पृशत्‌, तत्‌ क्षणं सा ऋजुः भूत्‍वा परमेश्‍वरस्‍य स्‍तुतिम्‌ अकरोत्‌। 14सभागृहस्‍य अधिकारी दृष्‍ट्‌वा क्रुद्‌धः अभवत्‌, यतः सः विश्रामदिवसे तां निरामयाम्‌ अकरोत्‌। सः जनान्‌ प्राह - “षट्‌ कार्यदिनानि सन्‍ति, अतः स्‍वास्‍थ्‍यलाभाय तेषु षट्‌सु दिनेषु आगच्‍छन्‍तु - न तु विश्रामदिवसे।” 15परन्‍तु येशुः तं प्रत्‍युवाच - “रे दम्‍भिन! किंस्‍वित्‌ युष्‍माकम्‌ एकः क्‍वचित्‌ विश्रामदिवसे अनड्‌वाहं गर्दभं वा गोष्‍ठात्‌ गर्दभगोष्‍ठात्‌ वा मुक्‍त्‍वा स्‍वं गां स्‍वकीयं गर्दभं वा जलं पाययितुं जलाशयम्‌ न नयते? 16इयं नारी, अब्राहमस्‍य सुता, अष्‍टादशवर्षाणि अपदूतेन बद्धा आसीत्‌, विश्रामदिवसे सा चेद्‌ बन्‍धनान्‍मोचिता मया, एतत्‌ कार्यम्‌ युष्‍माकं नोचितं प्रतिभाति किम्‌।” 17येशोः एतैः शब्‍दैः विरोधिनः लज्‍जाम्‌ आप्‍नुवन्‍तः; किन्‍तु समस्‍ता जनता तस्‍य चमत्‍कारं दृष्‍ट्‌वा आनन्‍दिता आसीत्‌।
सर्षपबीजम्‌
(मत्ती 13:31-32; मर 4:30-32)
18येशुः आह, “परमेश्‍वरस्‍य राज्‍यं केन सदृशं वर्तते? केन वा वस्‍तुना तत्‌ समानं कर्तव्‍यम्‌? 19तत्‌ तेन सर्षपबीजेन सदृशम्‌ वर्तते, सद्‌बीजं कश्‍चित्‌ मानवः स्‍वोद्‌याने उप्‍तवान्‌। तत्‌ च वृद्‌ध्‍वा महद्‌ वृक्षः कालेन समजायत। तस्‍य शाखासु व्‍योमचारिणः विहगाः न्‍यवसन्‌।”
किण्‍वस्‍य दृष्‍टान्‍तः
(मत्ती 13:33)
20येशुः पुनः अवदत्‌, “केन वा वस्‍तुना परमेश्‍वरस्‍य राज्‍यम्‌ तुलयामि? 21परमेश्‍वरस्‍य राज्‍यं तेन किण्‍वेन सदृशम्‌ वर्तते, यत्‌ कयाचित्‌ योषिता द्रोणत्रयमितेषु गोधूमचूर्णेषु मध्‍ये मिश्रितवती, येन चूर्णो असौ कृत्‍स्‍नः किण्‍वमयः अभवत्‌।”
संकीर्णमार्गः
(मत्ती 7:13-14,21-23; मर 10:31)
22येशुः प्रतिग्रामं, प्रत्‍येकं नगरं, जनान्‌ उपदिशन्‌ येरुसलेमं प्रति गच्‍छन्‌ आसीत्‌। 23कश्‍चित्‌ तम्‌ अपृच्‍छत्‌, “प्रभो! किम्‌ अल्‍पा एव जनाः मोक्षं प्राप्‍नुवन्‍ति? येशुः तम्‌ अब्रवीत्‌, 24“त्‍वं पूर्णतः संकीर्णेन च द्वारेण प्रवेशाय प्रयत्‍नं कुरु, यतः बहवः प्रवेष्‍टुं यतिष्‍यन्‍ते, किन्‍तु ते नैव शक्ष्‍यन्‍ति। 25यदा गृहस्‍वामी समुत्‍थाय द्वारं पिधाय अन्‍तः स्‍थास्‍यति, यूयं सर्वे तत्र बहिः स्‍थिताः द्वारम्‌ हन्‍तुम्‌ आरभ्‍य गृहाधिपम्‌ वक्ष्‍यध्‍वे, “प्रभो! अस्‍मदर्थम्‌ गृहद्वारम्‌ उद्‌घाटय।” तदा सः युष्‍मान्‌ कथयिष्‍यति, “अहं न जानामि कस्‍मात्‌ स्‍थानात्‌ यूयम्‌ आगताः कुकर्मिणः। मत्तः यूयम्‌ अपसरत।” 26तदा यूयम्‌ इदं वक्‍तुं प्रारप्‍स्‍यध्‍वे - “भवत्‍समक्षम्‌ अस्‍माभिः भुक्‍तं, पीतं तथा भवान्‌ अस्‍माकं चत्‍वरेषु अस्‍मान्‌ उपदिशत्‌।” 27परन्‍तु सः युष्‍मान्‌ कथयिष्‍यति, “अहं न जानामि कुतः यूयं स्‍थ। रे कुकर्मिणः ! सर्वे मत्तः दूरं हि तिष्‍ठत। 28यदा यूयम्‌ अब्रहामम्‌ इसहाकं याकूबं तथैव सर्वान्‌ नबिनः प्रभोः राज्‍ये, आत्‍मनश्‍च बहिः क्षिप्‍तान्‌ वीक्षिष्‍यध्‍वे तदा रोदिष्‍यथ, दन्‍तैश्‍च दन्‍तान्‌ घर्षयिष्‍यथ। 29पूर्वस्‍याः पश्‍चिमस्‍याः, तथैव उत्तरतः दक्षिणस्‍य च दिग्‍भ्‍यः जनाः परमेश्‍वरस्‍य राज्‍ये भोज्‍ये सम्‍मिलिताः भविष्‍यन्‍ति। 30पश्‍यत, एतेषु अन्‍ते ये केचित्‌ आगताः, ते प्रथमं चोपस्‍थिताः, ते अन्‍तिमं स्‍थानं लप्‍स्‍यन्‍ते, ये प्रथमागताः सन्‍ति।
हेरोदेसस्‍य कपटम्‌
31तस्‍मिन्‌ काले केचित्‌ फरीसिनः समागत्‍य तम्‌ उचुः, “दूरं याहि, यतः हेरोदेसः त्‍वां जिघांसति।” 32येशुः तान्‌ अब्रवीत्‌ - “गत्‍वा तं गोमायुं ब्रूत - अहम्‌ अद्यः श्‍वः चापदूतान्‌ निःसारयामि तथा रोगाभिभूतान्‌ च रोगमुक्‍तान्‌ करोमि, तृतीये दिवसे कार्यम्‌ समाप्‍स्‍यति। 33अद्यः, श्‍वश्‍च, परश्‍वश्‍च मया यात्रा विधास्‍यते, यतः कश्‍चित्‌ नबी येरुसलेमनगराद्‌ बहिः मृत्‍युं प्राप्‍नुयात्‌, एतत्‌ कदाचित्‌ न भविष्‍यति।
34अथ असौ येरुसलेमं धिक्‌ कुर्वन्‌ इदम्‌ अब्रवीत्‌, “येरुसलेमनगरि ! त्‍वं नबिनां हत्‍यां कुरुषे, त्‍वदन्‍तिकं प्रहितान्‌ च त्‍वं प्रस्‍तरैः ताडयसि। अहं तु ते शावकानां संग्रहम्‌ कर्तुम्‌ इच्‍छामि, यथा कुक्‍कुटी स्‍वीयान्‌ शावकान्‌ पक्षयोरधः संगृह्‌णाति इति। बहुशः त्‍वं मया उक्‍तः न मन्‍यसे। 35पश्‍य ! तवगृहं तव कृते निर्जनी करिष्‍यते। अहं त्‍वां ब्रवीमि, त्‍वं मां तावद्‌ द्रष्‍टुं न शक्ष्‍यसि यावत्‌ त्‍वया न वक्ष्‍यते, “धन्‍यः असौ यः प्रभोः नाम्‍ना आयाति।”

वर्तमान में चयनित:

लूका 13: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in