यूहन्‍नः 7

7
येशोः भ्रातॄणाम्‌ आग्रहः
1अतः परं येशुः गलीलप्रदेशे भ्रमणं कृतवान्‌। सः यहूदाप्रदेशे भ्रमितुम्‌ न ऐच्‍छत्‌, यतः यहूदीधर्मगुरवः तं हन्‍तुम्‌ इच्‍छन्‍ति स्‍म।
2-3यहूदिनाम्‌ मण्‍डपपर्व आसनम्‌ आसीत्‌, अतः तस्‍य भ्रातरः तम्‌ ऊदुः “एतत्‌ स्‍थानम्‌ परित्‍यज्‍य यहूदाप्रदेशे याहि, यतः यानि सुकार्याणि त्‍वया क्रियन्‍ते, तानि सर्वाणि तत्रत्‍याः तव शिष्‍याः पश्‍यन्‍तु। 4यतः यः ख्‍यातिं वात्र्छति, असौ गुप्‍तं नैव आचरति। यदि त्‍वया एतानि कार्याणि विधीयन्‍ते, तर्हि आत्‍मानं संसारे प्रत्‍यक्षं कुरु। 5तस्‍य केचन भ्रातरः अपि तस्‍मिन्‌ न विश्‍वसन्‍ति स्‍म। 6येशुः तान्‌ उवाच, “अधुना अपि मम कालः न उपस्‍थितः अस्‍ति। युष्‍माकं समयः तु सर्वदा उपस्‍थितः अस्‍ति। 7संसारः युष्‍मान्‌ द्‌वेष्‍टुं न शक्‍नोति, किन्‍तु मां द्वेष्‍टि, यतः अहं तस्‍य विषये साक्ष्‍यं ददामि, यत्‌ तस्‍य कार्याणि दुष्‍टानि सन्‍ति। 8यूयं पर्वणि भागं ग्रहीतुम्‌ गच्‍छत। अहम्‌ अस्‍मिन्‌ पर्वणि सम्‍मिलितः न भविष्‍यामि। मदीय समयः नाधुना पूर्णतां गतः।” 9इदम्‌ उक्‍त्‍वा येशुः गलीलप्रदेशे एवम्‌ अतिष्‍ठत्‌। 10किन्‍तु यदा तस्‍य भ्रातरः सर्वे तत्‍पर्वार्थे प्रतस्‍थिरे तदा प्रकटरूपे न, परन्‍तु गुप्‍तरूपे उत्‍सवाय येशुः अपि प्रस्‍थितवान्‌।
मण्‍डपपर्वणि येशोः प्रवचनम्‌
11यहूदीधर्मगुरवः येशुम्‌ अन्‍विष्‍यन्‍तः ऊचिरे, “असौ कुत्र वर्तते।” 12जनतासु तस्‍य विषये महान्‌ विवादः अजायत। केचित्‌ उचुः “सः भद्रः अस्‍ति, केचित्‌ उचुः, “सः तथा न।” 13तथापि धर्मगुरुणाम्‌ भयात्‌ कारणात्‌, कश्‍चित्‌ तस्‍य विषये प्रकट रूपे नावदत्‌।
14तस्‍य पर्वणः अद्‌र्धदिवसे समाप्‍ते, येशुः मन्‍दिरं गत्‍वा शिक्षाम्‌ दातुम्‌ आरब्‍धवान्‌। 15यहूदीधर्मगुरवः विस्‍मिताः भूत्‍वा अवदन्‌, एषः अपठित्‍वा अपि कथं ज्ञानवान्‌ वर्तते? 16येशुः तान्‌ प्रत्‍युवाच, “मम शिक्षा मदीया नास्‍ति, इयं तस्‍य शिक्षा वर्तते, येन अहं प्रेषितोऽस्‍मि। 17यदि कश्‍चित्‌ तस्‍य इप्‍सितम् पूर्णकर्तुम्‌ संकल्‍पते, तर्हि सः ज्ञास्‍यते, मम इयं शिक्षा परमेश्‍वरस्‍यास्‍ति, अथवा अहम्‌ स्‍वतः भाषे। 18यः स्‍वतः भाषते, सः स्‍वीयं सम्‍मानम्‌ अभिवात्र्छति। किन्‍तु यः तस्‍य सम्‍मानं कर्तुम्‌ वात्र्छति येन सः प्रेषितोऽस्‍ति, स एव सत्‍यः तथा निष्‍कपटः अस्‍ति।
19किं मूसाः युष्‍मभ्‍यम्‌ व्‍यवस्‍थां न दत्तवान्‌ अस्‍ति? तथापि युष्‍मासु कोऽपि व्‍यवस्‍थां न मन्‍यते।
यूयं किमर्थम्‌ मां हन्‍तुम्‌ इच्‍छथ? 20जनाः अब्रुवत, “कस्‍त्‍वां जिघांसति? त्‍वम्‌ भूताविष्‍टः असि।” 21येशुः तान्‌ अवदत्‌, ”मया एकं कार्यं कृतम्‌, यूयं सर्वे विस्‍मिताः स्‍थ। 22मूसाः युष्‍मभ्‍यं लिंगस्‍याग्रचर्मछेदस्‍य नियमं दत्तवान्‌ - यद्‌यपि सः नियमः मूसः न, परन्‍तु पितृभ्‍यः प्रवर्तितः - यूयं लिंगस्‍याग्रचर्मछेदविधिं विश्रामवासरे विधत्‍थ। 23मूसाकृत व्‍यवस्‍थायाः उल्‍लंघनं न भवेत्‌, एतत्‌ अर्थम्‌ मनुष्‍यस्‍य लिंगस्‍याग्रचर्मछेदः चेत्‌ विधीयते, विश्रामदिवसे यदहं कत्र्चन मानवम्‌ स्‍वस्‍थम्‌ अकुर्वि, तर्हि किमर्थम्‌ यूयं मां क्रुध्‍यथ? 24विचार्य कार्यं कुरुत, अविचार्य न।”
किम्‌ अयं मसीहः अस्‍ति? 25केचित्‌ येरुसलेमवासिनः प्रोक्‍तवन्‍तः, “किं न हि सो ऽयम्‌ अस्‍ति यम्‌ अस्‍माकं नेतारः जिघांसन्‍ति? 26पश्‍यत, एष व्‍यक्‍तं सम्‍भाषते, तैः च कित्र्चित्‌ न प्रोच्‍यते। एष एव मसीहः अस्‍ति“ किम्‌ एतत्‌ तैः स्‍वीकृतम्‌। 27तथापि वयं जानीमः “कुतः एषः समुत्‍पन्‍नः।” यदा मसीहः तु लोके आविर्भूतः भविष्‍यति, तदा एतत्‌ केनापि विज्ञातम्‌ न भविष्‍यति यतः मसीहः कुतः समुत्‍पन्‍नः अस्‍ति।
28ततः धर्मगृहे येशुः उच्‍चैः जगाद, “यूयं मां च विजानीथ, इदम्‌ अपि जानीथ, अहं कुतः तु इति। अहं स्‍वेच्‍छया ना आगतः अस्‍मि यः मां प्रेषितवान्‌ सः सत्‍यः वर्तते। यूयं तं न जानीथ। 29अहं तं जानामि, यतः अहं तेन प्रेषितः अस्‍मि। 30एतत्‌ श्रुत्‍वा ते येशुं ग्रहीतुं समुद्‌यताः, किन्‍तु कोऽपि जनः तस्‍मिन्‌ स्‍व करम्‌ न अर्पयामास, यतः तदानीं तस्‍य कालः न उपस्‍थितः आसीत्‌।
31जनेषु बहवः येशौ विश्‍वासम्‌ अकुर्वन्‌। ते अवदन्‌, “यदा मसीहः आगमिष्‍यति, किं सः अस्‍मात्‌ अपि अधिकानि चमत्‍कारपूर्णकार्याणि करिष्‍यति? 32यदा फरीसिभिः श्रुतः यत्‌ जनेषु येशोः विषये इदृशी वार्ता भवति, तदा येशुं ग्रहीतुं पदातीन्‌ प्रेषयामासुः।
33येशुः तान्‌ उवाच, साम्‍प्रतम्‌ युष्‍माभिः सह स्‍वल्‍पकालमेव स्‍थास्‍यामि। ततः तमुपयास्‍यामि येन अहम्‌ प्रेषितः अस्‍मि। 34यूयं मा अन्‍विष्‍यथ परन्‍तु नैव लप्‍स्‍यध्‍वे। अहं यत्र अस्‍मि, तत्र यूयं गन्‍तुं न शक्ष्‍यथ। 35एतद्‌ श्रुत्‍वा यहूदीधर्मगुरवः ऊचिरे, “अनेन कुत्र गन्‍तव्‍यम्‌, यत्‌ एषः अस्‍माभिः न आप्‍स्‍यते? किं अयं युनानिनां मध्‍ये निवसन्‍तः यहूदिनाम्‌ समीपं प्राप्‍य तेभ्‍यः युनानिभ्‍यः उपदेशं दास्‍यति? 36तस्‍य कथनस्‍य अर्थः किमस्‍ति? यूयम्‌ अन्‍वेष्‍यथ परन्‍तु न प्रापस्‍यथ, अहं यत्र विद्‌ये तत्र गन्‍तुं न शक्ष्‍यथ।”
संजीवनजलस्‍य प्रतिज्ञा
37उत्‍सवस्‍य प्रमुखे अन्‍तिमदिवसे च येशुः उत्‍थाय इत्‍थं जगाद, “यदि कश्‍चिद्‌ पिपासुः चेत्‌, मम अन्‍तिकं समागत्‍य स्‍विकाम्‌ पिपासां शमयेत्‌। 38यस्‍य मयि विश्‍वासः, सः माम उपैतु। यथा धर्मग्रन्‍थे लिखितमस्‍ति, तस्‍य अन्‍तस्‍तलात्‌ संजीवनजलस्‍य सरितः प्रस्रविष्‍यन्‍ति। 39सः तस्‍य पवित्रआत्‍मनः संबंधे एतत्‌ प्रभविष्‍यति वाचम्‌ उवाच, यम्‌ तस्‍मिन्‌ विश्‍वासिनः जनाः प्राप्‍नुवन्‍ति। तदानीं यावत्‌ पवित्रात्‍मा न आसीत्‌, यतः येशुः स्‍वयं महिमान्‍वितः न आसीत्‌।
येशोः विषये मतभेदाः
40येशोः वचः श्रुत्‍वा केचित्‌ जनाः एतद्‌ उचुः, ”सत्‍यम्‌ एषः नबी अस्‍ति यः आगन्‍ता आसीत्‌।” 41अपरे अवदन्‌, “अयं मसीहः वर्तते।” किन्‍तु अन्‍ये ऊचिरे, “किम्‌ मसीहः गलीलप्रदेशात्‌ आगमिष्‍यति? 42किम्‌ धर्मग्रन्‍थे लिखितं न वर्तते, यत्‌ दाऊदस्‍य वंशात्‌, दाऊदस्‍य बेथलेहमग्रामात्‌ मसीहः आगमिष्‍यति?” 43इत्‍थं येशुविषये जनेषु मतभेदः अभवत्‌। 44तेषु केचित्‌ येशुं बलेन ग्रहीतुम्‌ ऐच्‍छन्‌, तथापि कश्‍चन्‌ तस्‍मिन्‌ हस्‍तं न उत्‍थापयत्‌।
निकोदेमुसः येशोः पक्षधरः
45यदा सैनिकाः महापुरोहितानां फरीसिनाम्‌ च पार्श्‍वे पुनः प्रत्‍यागच्‍छन्‌, तदा ते तान्‌ अब्रुवत, “येशुम्‌ किमर्थम्‌ न आनयत?” 46सैनिकाः तान्‌ ऊचिरे “यादृशः सः भाषते, तादृशः कोऽपि न इतः पूर्वम्‌ अभाषत।” 47ततः फरीसिनः तान्‌ ऊचिरे, “किं यूयमपि तेन उन्‍मार्गगामिनः कृताः स्‍थ? 48किं अस्‍माकं अधिकारिणः नेतारः फरीसिनः वा तस्‍मिन्‌ विश्‍वसन्‍ति? 49लोकानां तु समूहस्‍य कथा एव अन्‍या वर्तते। सः व्‍यवस्‍थया अनभिज्ञः शापितश्‍च अस्‍ति।”
50तेषु अन्‍यतमः कश्‍चित्‌ निकोदेमुसनामकः, यः पूर्वम्‌ येशोः अन्‍तिकम्‌ आगतवान्‌ आसीत्‌ तान्‌ अभाषत, 51“मनुष्‍यस्‍य मुखात्‌ यावत्‌ वाक्‍यं संश्रूयते न, यावत्‌ च न इदं ज्ञायते, तेन किं क्रियते इति, तावत्‌ किं व्‍यवस्‍था कत्र्चित्‌ सदूषणम्‌ विदधाति?“ 52ते तम्‌ उचुः, भवान्‌ किंस्‍वित्‌ गलीली वर्तते? शास्‍त्राणाम्‌ अनुसन्‍धाय पश्‍य गलीलप्रदेशे कश्‍चित्‌ नबी न उत्‍पद्‌यते। 53ततः सर्वे समुत्‍थाय स्‍वं स्‍वं गृहं जग्‍मुः।

वर्तमान में चयनित:

यूहन्‍नः 7: SANSKBSI

हाइलाइट

शेयर

कॉपी

None

Want to have your highlights saved across all your devices? Sign up or sign in