मारकुस 14
14
येशोः वधस्य अभिसन्धिः
(मत्ती 26:2-5; लूका 22:1-2)
1पास्कायाः (फसहस्य) बेखमीरस्य रोटिकानां च उत्सवस्य समारम्भे दिनद्वयम् आसीत्। महापुरोहिताः शास्त्रिणश्च येशुं धर्तुम् तथा छलेन हन्तुं समुद्यताः। 2तथापि ते अवदन्, “न एतत् पर्वणि सम्भवम्।” कुत्रचित् इत्थं न भवेत् जनतासु आन्दोलनं भवेत्।
बेतनियाहग्रामे अभ्यंजनम्
(मत्ती 26:6-13; यूह 12:1-8)
3यदा बेतनियाहग्रामे येशुः सिमोनकुष्ठिनः गृहे भोजनं करोति स्म, तदा काचित् महिला स्फटिकनिर्मिते पात्रे प्रकृतायाः जटामांस्याः बहुमूल्यकं सुगन्धितं तैलम् आदाय येशोः अन्तिकम् आगता। सा तैलपात्रं भित्त्वा तत् तैलं तस्य मस्तके अस्रावयत्। 4तत् दृष्ट्वा केचित् रुक्षत्वम् आगताः मिथः प्रोचुः, “कथं हि अस्य तैलस्य अपव्ययः? इदं सुगन्धितैलं शतत्रयात् दीनाराणाम् अधिकेन अपि मूल्येन विक्रयार्हम् अवर्तत। तत् विक्रयमूल्यम् दीनेभ्यः च प्रदातुम् अशक्यत।” सर्वे तां कटुवाग्भिः अभर्त्सयन्। 5-6येशुः अवदत्, “इमां त्यजत। यूयं किमर्थम् इमां योषितां प्रपीडयथ? मदर्थम् एषा शोभनं कर्म अकरोत्। 7दरिद्राः खलु युष्माभिः सह सर्वदा स्थास्यन्ति। यदा इच्छथ तान् उपकर्तुम् शक्नुथ। किन्तु अहं युष्माभिः सह सर्वदा न स्थास्यामि। 8अनया यत् साध्यम् आसीत्, तत् सर्वम् कृतम्। इयं तु मत्समाध्यर्थम् मद्देहे पूर्वमेव तैलस्य अनुलेपनम् चकार। 9अहं युष्मान् ब्रवीमि - समस्तसंसारे यत्रापि शुभसमाचारस्य प्रचारः करिष्यते, तत्र अस्य स्मृतौ अस्याः कार्यम् कीर्तयिष्यते।”
यूदसस्य (यहूदः) विश्वासघातः
(मत्ती 26:14-16; लूका 22:3-6)
10द्वादशशिष्येषु एकः, यूदसइसकारयोती महापुरोहितानाम् सन्निधौ गत्वा तेभ्यः येशुम् अर्पयितुं प्रस्तावं स्वयम् कृतवान्। 11ते इमं प्रस्तावं समाकर्ण्य प्रसन्नाः अभवन्। ते तस्मै मुद्राः दानाय प्रतिज्ञाम् अकुर्वन्। यूदसः येशुं समर्पयितुम् यत्नवान् अभवत्।
पास्काभोज्यस्यायोजनम् (फसहस्य)
(मत्ती 26:17-19; लूका 22:7-13)
12बेखमीरस्य पूपानां प्रथमे दिवसे, पास्कायाः मेषवत्सस्य बलिदानं विधीयते, शिष्याः येशुमभाषन्त, “भवान् किम् इच्छति? भवत्कृते कुत्र गत्वा पास्काभोज्यम् उपकल्प्येत। 13येशुः द्वौ शिष्यौ नगरं प्रति प्रेषयन् जगाद, “युवां नगरं प्रयातम्। तत्र जलपूर्णंम् घटं वहन् एकः मानवः दृष्टिम् एष्यति। 14अनुयातं तम् एव असौ यत् गृहं प्रवेक्ष्यति, तस्य गृहस्य स्वामिनं वदतम्, यत् अस्माकं गुरोः इयम् जिज्ञासा यत् तस्य कृते कुत्र अतिथिभवनं निर्मितम्, यत्र पास्कापर्वणः भोजनम् शिष्यवृन्दसमेतः असौ करिष्यति। 15युवां सः एकमूर्ध्वस्थं सर्वसौविध्यसंयुतम् कक्षं दर्शिष्यति, तत्र अस्माकं कृते व्यवस्था भवेत्।” 16तौ शिष्यौ नगरं गत्वा, येशुना तौ यथा उदितौ, तत् सर्वम् तथैव दृष्ट्वा भोज्यप्रस्तुतिम् चक्रतुः।
यूदसस्य (यहूदः) विश्वासघातस्य संकेतः
(मत्ती 26:14-16; लूका 22:3-6)
17सन्ध्यायां येशुः द्वादशभिः शिष्यैः सह आगतः। 18तेषु भोजनं कुर्वत्सु येशुः शिष्यान् अवोचत्, “अहं ब्रवीमि युष्मासु एव कश्चन, यः मया साद्र्धम् भुड्.क्ते, सः मां ग्राहयिष्यति।” 19ते अतिदुःखताः प्रत्येकः तं पृष्टवान्, “किम् अहम् असौ एव अस्मि?” 20येशुः तान् उवाच, “युष्मासु द्वादशस्वसौ कश्चित् एकः अस्ति, यो स्थाल्याम् मया सह भुड्.क्ते। 21मानवपुत्रस्तु याति, यथा तस्य विषये लिखितमस्ति; परन्तु धिक् तं नरम् यः मानवपुत्रं ग्राहयिष्यति। यदा लोके तस्य नरस्य जन्म चेत् न अभविष्यत्, अयं तस्य हिताय अभविष्यत्।”
प्रभुभोजनस्य (परमप्रसादस्य) स्थापना
(मत्ती 26:17-19; लूका 22:7-13)
22तेषां भोजनकाले येशुः करे रोटिकां गृहीत्वा, प्रार्थनाम् आशिषः कृत्वा तथा रोटिकाम् भड्.क्त्वा यूयं गृह्णीत “एतत् मम देहः वर्तते,“ भाषमाणः तां तेभ्यः शिष्येभ्यः प्रदत्तवान्। 23ततः चषकम् आदाय धन्यवादस्य प्रार्थनाम् कृत्वा असौ तद् तेभ्यः ददौ, तेन ते सर्वे पपुश्च। 24येशुः तान् उवाच “एतत् हि मे रक्तं खलु वर्तते, विधानस्य तत् रक्तम्, यत् लोकेभ्यः स्राव्यते। 25अहं युष्मान् ब्रवीमि यावद् प्रभोः राज्ये अहम् नवं रसं न पास्यामि, तावत् द्राक्षारसं पुनः न पास्यामि।”
शिष्याणां विषये भविष्यवाणी
(मत्ती 26:30-35; लूका 22:31-34; यूह 13:36-38)
26भजनगानस्य पश्चात् येशुः जैतूनपर्वतम् आगतवान्। 27येशुः शिष्यान् अवदत्, “यूयं सर्वे विचलिष्यथ। यतः लिखितमस्ति - “अहं पशुचारकं मारयिष्यामि, मेषान् विकीर्णताम् गमिष्यन्ति। 28-29किन्तु मम पुनरुत्थानस्य पश्चात् युष्माकं पुरतः गलीलप्रदेशं गमिष्यामि।” पतरसः अवदत्, “सर्वे विचलेयुः चेद् अहं न विचलिष्यामि।” 30येशुः तम् अवदत्, “अहं त्वां ब्रवीमि, अद्यः रात्रौ, कुक्कुटस्य रवात् द्वितीयात्, प्राक् एव त्रिवारं त्वं मां न स्वीकरिष्यसि।” 31परन्तु असौ दाढ्र्येन ब्रुवन् आसीत्, “भवेत् मे भवता सह मृत्युरेव कथं नहि, अहं तु भवतः त्यागः कदाचन न करिष्यामि।” सर्वे शिष्याः इदमेव बभाषिरे।
गेतसेमनीवाटिकायां प्राणपीडा
(मत्ती 26:36-46; लूका 22:39-46)
32येशुः गेतसेमनीम् जगाम। स्वशिष्यान् अवदत्, “यूयं अत्र तिष्ठत अहं तावत् प्रार्थनां करिष्यामि।” 33असौ याकूबं योहनं तथा पतरसं निन्ये। 34सः भयेनार्तः व्याकुलश्च अभवत् तान् अवदत् - “मे आत्मा शोकेन पीडितः अस्ति। मया अनुभूयते यत् मे मृत्युकालः उपस्थितः। अत्र तिष्ठन्तः यूयं जागृत।” 35अथ किंचित् अग्रे गत्वा असौ मुखेन भुवि न्यपतत्, प्रार्थनाम् अकरोत् च, “यदि संभवः वर्तते, तर्हि इयं घटिका मत्तः शीघ्रमेव अपगच्छतु। सः आह, - 36“मत्पितः! भवतः कृते सर्वम् संभवः। इदं पानपात्रं मत्तः अपसरतु। तथापि मम न, भवतः इच्छा एव पूर्णतामेतु।”
37अथ स्वशिष्याणामन्तिकम् सः जगाम। तान् सुप्तान् दृष्ट्वा सः पतरसं कथितवान्, “सिमोन! कथंत्वं शेषे? किं त्वं मया सह घटिकाम् एकामपि जागर्तुम् न अशक्नोः? 38जागृत, प्रार्थयध्वं च नो चेद् यूयं परीक्षायां न पतत। आत्मा तु तत्परः किन्तु शरीरं तु अतिदुर्बलम्।” 39ततो गत्वा स तेनैव वाक्येन पुनः प्रार्थनां कृतवान्। 40प्रत्यावृत्य पुनः शिष्यान् निद्रावशान् अपश्यत्। तेषां नेत्राणि निन्द्राभारनतानि आसन्। तस्मै किम् उत्तरं देयम् इति ते न अजानन्।
41येशुः तृतीयवारं च पुनः शिष्यान् अन्तिकं जगाम। असौ तान् अब्रवीत् - “किम् इदानीम् अपि निद्रायाम् एव तिष्ठथ? इदानीम् अपि विश्रामं कुरुथ? अलम् एतेन, असौ कालः आगतः पश्यत! मानवपुत्रः पापिभ्यः अर्पयिष्यते। 42उत्तिष्ठत, व्रजामः, मम विश्वासघातकः मम समीपम् आगतः अस्ति।
येशोः अवग्रहः
(मत्ती 26:47-56; लूका 22:47-53; यूह 18:3-12)
43येशुः एवं कथयन् एव आसीत्, द्वादशानां मध्यतः एकः यूदसः आयातः। तेन सह खड्गान् लगुडान् धृतानां जनानां समूहः आसीत्। ते सर्वे महापुरोहितैः शात्रिभिः धर्मवृद्धैश्च सम्प्रेषिताः आसन्। 44विश्वासघाती तेभ्यः संकेतं दत्वा उक्तवान्, “यस्य चुम्बनं करिष्ये, स एव असौ वर्तते। तम् एव धृत्वा यूयं सर्वे अवधानतः नयत।” 45-46ततः येशुम् उपेत्य असौ तम् उवाच, “गुरो!” तस्य चुम्बनं चक्रे च। तदा येशुं गृहीत्वा ते तस्य समर्पणम् चक्रुः।
47एतत् सर्वम् समालोक्य येशोः सखासु कश्चन असिम् आकृष्य तत्रस्थं महापुरोहितस्य सेवकम् आहत्य तस्य श्रवणं मूलतः चिच्छेद। 48येशुः जनानां समूहम् इदम् उक्तवान्, “यूयं मां दस्युं वित्थ किं? येन दंडान् असीन् च समादाय मां गृहीतुं सर्वे समागताः? 49अहं तु प्रत्यहं युष्मत्सकाशम् अस्मिन् मन्दिरे युष्मान् उपदिशन् आसम्, किन्तु युष्माभिः न धृतः। एतत् सर्वम् जायते येन यत् धर्मशास्त्रेषु लिखितं तत् तथा सिद्धिं व्रजतु।”
50तदा येशुं परित्यज्य सर्वे शिष्याः पलायिताः। 51कश्चित् नग्नकायः युवा केवलं येशुम् अनुगच्छत्। जनसमूहेन सः धृतः, 52किन्तु उत्तरीयं त्यक्त्वा सः नग्नः एव पलायितः।
धर्ममहासभायाः समक्षम्
(मत्ती 26:57-68; लूका 22:54-55,63-71; यूह 18:19-24)
53ते येशुम् प्रधानमहापुरोहितस्य सकाशं नीतवन्तः। सर्वे महापुरोहितः, धर्मवृद्धाः, शास्त्रिणः एकत्राः आसन्। 54पतरसः किंचिदेव दूरतः येशुम् अनुव्रजत्। सः महायाजकस्य हर्म्यस्य अभ्यन्तरं प्रविवेश, दासानां मध्य एव उपविश्य तैः एव साद्र्धम् अग्नेः तापम् असेवत।
55महापुरोहिताः कृत्स्ना महासभा च येशोः जिघांसया तस्य विरुद्धं साक्ष्यम् ऐषिषुः, किन्तु किमपि साक्ष्यं न लेभिरे। 56बहवः जनाः विरुद्धं साक्ष्यं दत्तवन्तः, परन्तु साक्ष्याः परस्परविरुद्धाः आसन्। 57ततः केचन् समुत्थाय मृषा साक्ष्यम् अददुः - 58“अस्माभिः एषः पुरुषः इदं वाक्यम् बु्रवन् श्रुतः - अहं हस्तनिर्मितम् मन्दिरं भड्.क्त्वा दिनत्रये अन्यमन्दिरं निर्मास्ये, तत् हस्तनिर्मितं न भविष्यति।” 59परन्तु तेषाम् अत्र अपि साक्ष्यम् असंगतम् जातम्।
60तदा प्रधानः महापुरोहितः सभामध्ये उत्थाय येशुं पृष्टवान् - “इमे यत् साक्ष्यं त्वद्विरुद्धं ददति, किम् एतस्य उत्तरं तव पार्श्वे न वर्तते?” 61येशुस्तु मौनम् आलम्ब्य किंत्र्चिन न प्रत्युवाच।
ततः प्रधानमहापुरोहितः येशुं पृष्टवान्, “किं त्वं मसीहः, परमस्तुत्यस्य पुत्रः असि?” 62येशुः प्रत्युवाच, “अहम् अस्मि स एव हि। भवन्तः मानवपुत्रं सर्वशक्तिमतः प्रभोः दक्षिणे समुपासीनं व्योम्नि मेघरथेन समायान्तं द्रक्ष्यथ।” 63एतत् श्रुत्वा महापुरोहितः स्ववस्त्रं विदीर्य च उवाच, “अधुना अस्माकं साक्ष्येण न प्रयोजनमस्ति। 64भवद्भिः ईशनिन्दा श्रुता। भवतां विचारः को नु वर्तते?” ततः मिलित्वा तैः विनिर्णीतम् यत् एषः प्राणदंडस्य योग्यः अस्ति। 65केचित् निष्ठीवन् तस्मिन्, केचित् तस्य च नेत्रे वस्त्रेण दृढ़म् आच्छाद्य मुष्टिभिः तं प्राहरन् पृष्टवन्तश्च “ब्रूहि त्वं सत्यमेव नबी यदि, केन हतोऽसि।” सेवकाः अपि चपेटिकाप्रहारेण तम् अजध्नुः।
पतरसस्य अस्वीकरणम्
(मत्ती 26:69-75; लूका 22:56-62; यूह 18:17-18,25-27)
66तदानीं पतरसः नीचैः प्रांगणे स्थितः आसीत्। प्रधानमहापुरोहितस्य एका सेविका तम् उपागता, 67पतरसम् अग्नितापस्य सेवने निरतं दृष्ट्वा, सुगंभीरं दृष्टिपातं कृत्वा तम् उवाच, “त्वं चापि येशुना नासरतेन सह आसीत्।” 68किन्तु असौ दासीं प्रत्यभाषत “नाऽहं वेदि्म न बोधामि त्वं किम् एतत् ब्रवीषि माम्।” ततः तत्प्राड्.गणस्य असौ बहिः द्वारम् उपासरत्। तस्मिन्नेव क्षणे कुक्कुटः प्रथमं रवम् चक्रे। 69सेविका तं दृष्ट्वा तत्र स्थितान् सर्वान् अभाषत, “अयं नरः तेषु नरेषु एकः वर्तते।” 70प तरसः तु पुनः तथैव अस्वीकारं कृतवान्।
ततः क्षणात् परं तत्र स्थिता सर्वे अवदन्, “निश्चयमेव त्वं तेषामेव कश्चन वर्तसे - त्वं गलीलप्रदेशस्य असि।” 71पतरसः आत्मानं निन्दन् शप्त्वा तान् व्याजहार, “युष्माभिः यः नरः वर्ण्यते, तम् अहम् न जानामि।” 72तदा द्वितीयवारं कुक्कटः रुराव। पतरसः येशोः वचनम् अस्मरत्, “यत् त्रिवारं कुक्कुटरवात् द्वितीयात् पूर्वम् त्वया अहं प्रत्याख्यास्ये, असौ अतिदुःखितः अरोदत्।
Currently Selected:
मारकुस 14: SANSKBSI
Tõsta esile
Share
Kopeeri
![None](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapi.com%2F58%2Fhttps%3A%2F%2Fweb-assets.youversion.com%2Fapp-icons%2Fet.png&w=128&q=75)
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.