लूका 14
14
विश्रामदिवसे आतिथ्य-सत्कारः
1अथ एकदा येशुः विश्रामदिवसे कस्यचित् मुख्यफरीसिनः भवने भोक्तुम् अगच्छत्। सर्वे फरीसिनः तं प्रतीक्षन्ते स्म। 2येशुः सम्मुखं जलोदरेण रोगेण पीडितं जनं दृष्ट्वा सर्वान् फरीसिनः अपृच्छत् - 3“विश्रामदिवसे रोगः प्रतिकार्यः अथवा न।” 4ते मौनीभूताः। येशुः रोगिणं स्पृष्ट्वा नीरोगं व्यदधात्। ततो तं विसृज्य भूयः असौ तान् फरीसिनः प्राह - 5“किम् युष्माकं मध्ये कश्चित् एतादृशः जनः अस्ति, यः कूपे स्वकं पतितं पुत्रं, गर्दभं, वृषभं वा दृष्ट्वा विश्रामदिवसे अपि तत्क्षणम् न उद्धरिष्यति?” 6येशोः प्रश्नस्य उत्तरम् दातुम् तेषु कश्चित् न अशक्नोत्।
मुख्यस्थानम् अतिथ्यश्च
7येशुः अतिथीः मुख्यस्थानानि चिन्वतः दृष्ट्वा इमं दृष्टान्तम् अश्रावयत्, 8विवाहस्योत्सवे निमन्त्रिताः यूयम् अग्रिमं स्थानं मा गृह्णीत। युष्मत् अधिकाः प्रतिष्ठिताः उत्सवे निमन्त्रिताः आयान्ति चेत्, तदा असौ निमन्त्रकः युष्मान् वक्ष्यते - 9श्यम् एतेषां कृते शीघ्रं स्वीयस्थानानि मुत्र्चत। ततस्तु यूयं लज्जिताः पृष्ठस्थानानि प्राप्स्यथ। 10अतः निमन्त्रणं प्राप्य सर्वपृष्ठेषु स्थानेषु उपविशत। येन निमन्त्रकः युष्मान् आगत्य सादरं ब्रूयात्, बन्धवः! अग्रिमं स्थानं गृह्णीत। एवं सहभोजिषु युष्माकं प्रतिष्ठा भविष्यति। 11यतो यः कश्चिद् आत्मानं सर्वोच्चम् अभिमन्यते, सः नीचीक्रियते, यस्तु आत्मानं लघीयांसं मन्यते, तस्यैव उच्चतमं स्थानं जनमानसे भविष्यति।”
परोपकारस्योपदेशः
12ततः येशुः निमन्त्रकम् अब्रवीत्, “यदा मध्याहि्नकम् अथवा सांयाहिनकम् भोज्यं ददासि, तदा तस्मिन् स्वमित्राणि, स्वबान्धवान्, कुटुम्बिनः स्वकीयान् वा धनिनः प्रतिवेशिनः मा निमंत्र्य। नो चेत् त्वां तेऽपि भोज्ये निमन्त्र्य भोजयिष्यन्ति। 13अतः यदा महाभोज्यं त्वं करोषि, तदा खत्र्जान्, दरिद्रान् हीनांगान् अन्धान् च निमन्त्रय। 14एवं कृते तु त्वं धन्यो भविष्यसि। यतः प्रतिदानस्योपायः तेषां पार्श्वे न विद्यते। धार्मिकाणां पुनरुत्थानसमये तुभ्यम् प्रतिदानं विधास्यते।”
महाभोज्यस्य दृष्टान्तः
(मत्ती 22:2-10)
15तदा सहभोजिषु कश्चित् एतां वार्ताम् आकर्ण्य येशुम् अब्रवीत्, “सः धन्यः यः “प्रभोः राज्ये भोक्ष्यते।” 16येशुः तमुवाच्, “एकदा कश्चित् महाभोज्यम् आयोजयत्, बहवः जनाः निमन्त्रिताः। 17भोज्यकाले सः दासं प्रेष्य सर्वान् निमन्त्रितान् प्रत्युवाच, आगच्छत-यतः सर्वम् व्यवस्थितम्। 18किन्तु तेषु कोऽपि जनः भोक्तुम् नैव प्रववृते, ते सव्याजं याचितुं क्षमाम् आरब्धवन्तः। प्रथमः उवाच, मया क्षेत्रं क्रीतम्, तदहं वीक्षितुं यामि, मम अनुपस्थितिम् क्षाम्यतु। 19द्वितीयः अवदत्, मया अधुना पत्र्च गोयुग्मानि क्रीतानि, अहं तानि परीक्षितुम् गच्छामि। त्वां प्रार्थये, गत्वा स्वं स्वामिनं मेऽसमर्थताम् दर्शयन् मह्यम् क्षमां प्रार्थयस्व। 20अपरः च एवम् अब्रवीत्, मया परिणयः कृतः, ततो गन्तुं न शक्यते। 21ततो निवृत्य असौ दासः स्वस्वामिनं गत्वा सर्वम् अनिवेदयत्। गृहस्वामी क्रुद्धः भूत्वा तं सेवकं समादिशत्, सत्वरं नगरं गत्वा तत्र ट्टक्पथमागतान् दरिद्रान्, खत्र्जान्, अन्धान्, बुभुक्षितान् रथ्याभ्यः चत्वरेभ्यः च सर्वान् आनय। सः दासः तमाह, प्रभो! 22यदाज्ञप्तं त्वया तत् मया अनुष्ठितम्, तथापि स्थानं तु अद्यापि वर्तते। 23प्रभुः तं दासम् अब्रवीत्, त्वं नगरात् बहिः गच्छ राजमार्गसमीपस्थान्, वृक्षस्याधः स्थितान् जनान् क्षिप्रमत्र आनय, येन एतत् मम गृहं पूर्णम् भवेत्। 24अहं त्वां ब्रवीमि - ये नराः अत्र निमन्त्रिताः आसन्, तेषु न कश्चित् मे भोज्यम् आस्वादयिष्यति।”
आत्मत्यागः
(मत्ती 10:38; मर 8:34)
25येशुना सह एकः विशालजनसमूहः गच्छन् आसीत्। सः परावृत्य तं जगाद, 26“यः मम अन्तिकम् आयाति सः चेत् स्वपितरौ, भार्यां, सन्ततिं भ्रातॄन्, भगिनीः तथा स्वजीवनं प्रति वैरं न करोति, सः मम शिष्यः भवितुं न शक्नोति। 27यस्तु स्वकं क्रूसम् समादाय मां नानुसरति सोऽपि मम शिष्यः भवितुं नैव शक्नोति।
28“युष्मासु को यो मीनारं निर्माणयितुमिच्छति, किन्तु उपविश्य प्रथमं व्ययं न गणयति? तथा निर्माणकार्यम् साधयितुं क्षमः वर्तते न वेत्यादि पूर्वम् न चिन्तयते। 29किंस्वित् न एवं भवेत् गेहमूले सुस्थापिते, निर्माणकार्यम् पूर्णं कर्तुम् असमर्थः, इदं दृष्टवा द्रष्टारः तस्य उपहासं कुर्युः वदेयुः च, यत् 30अनेन निर्माणम् आरब्धम् परन्तु न समापितम्।”
31“अथवा कः ईदृशः नृपः भवेत्, यः अपरेण भूपेन सह युद्धं कर्तुम् गच्छेत्, परन्तु पूर्वमेव न विचार्यते यदयं प्रतिपक्षः मम विरुद्धं विंशतिसहस्रैः सैनिकैः सह अभिवर्तते, तमहं दशसहस्रैः एव सैन्यैः प्रतिरोद्धुम् न समर्थोऽस्मि ! 32यदि असौ समर्थः न अस्ति तर्हि यावत् यः भूपतिः योद्धुम् अभ्यागतः दूरे वर्तते, तावदेव सः युद्धात् विमोक्तुम् तस्य अन्तिकम् दूतं सम्प्रेष्य सन्ध्यर्थम् प्रस्तावं संविधास्यति।
33तथैव कश्चिद् युष्मासु यावत् सर्वस्वम् आत्मनः न विजहाति, तावत् सः मम शिष्यः न भविष्यति।
लवणस्य दृष्टान्तः
(मत्ती 5:13; मर 9:50)
34“लवणं साधु वस्तु अस्ति, यदि विस्वादं जायते, तत् केन विधिना स्वादयुक्तं भविष्यति? 35मृत्तिकायां न, भोज्यवस्तुषु च कस्मिन् अपि कर्मणि तस्य उपयोगः भवति, जनैः तत् बहिः क्षिप्यते। यस्य श्रोतुम् कर्णौ स्तः सः शृणोतु।”
Currently Selected:
लूका 14: SANSKBSI
Tõsta esile
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.