यूहन्‍नः 2

2
कानानगरे विवाहः
1तृतीये दिवसे गलीलप्रदेशस्‍य कानानगरे एकः विवाहः आसीत्‌। येशोः माता अपि तत्र आसीत्‌। 2येशुः, तस्‍य शिष्‍याश्‍च तत्र निमन्‍त्रिताः आसन्‌।
3द्राक्षारसस्‍य समाप्‍ते सति येशोः माता तम्‌ अब्रवीत्‌ “पुत्र! द्राक्षारसः तेषां पार्श्‍वे न अस्‍ति। 4येशुः ताम्‌ अवदत्‌, “भद्रे! एतेन तव मे च किम्‌? इदानीं यावत्‌ मम समयः न उपस्‍थितः अस्‍ति।” 5तस्‍य माता सेवकान्‌ अब्रवीत्‌, “एषः युष्‍मान्‌ यद्‌ ब्रवीति तत्‌ अनुतिष्‍ठत।”
6तत्र यहूदिनाम्‌ शुद्‌धीकर्तुम्‌ प्रस्‍तरैर्निमितानि महान्‍ति तोयपात्राणि संरक्षितानि आसन्‌। द्वित्राणि आढकानि जलं प्रत्‍येकं धरति स्‍म। 7येशुः सेवकान्‌ पात्राणि अदि्‌भः परिपूरयत इति अवदत्‌। ते सर्वे तानि पात्राणि तोयेन पर्यपूरयन्‌। पात्राणि पूर्णानि दृष्‍ट्‌वा 8येशुः तान्‌ पुनः अब्रवीत्‌, “साम्‍प्रतम्‌ किंचित्‌ आदाय भोजप्रबन्‍धकं समीपं नयत।” ते यथादिष्‍टं कृतवन्‍तः। 9भोजप्रबन्‍धकः तं द्राक्षारसम्‌ आस्‍वाद्‌य, अवदत्‌, अयं रसः कस्‍मात्‌ आगतः। यैः आनीतं जलं, ते तत्‌ जज्ञिरे। अतः, वरम्‌ आहूय भोजप्रबन्‍धकः तम्‌ अवदत्‌ 10“सर्वैः पूर्वम्‌ उत्तमः द्राक्षारसः परिवेष्‍यते। सकलेषु मत्तेषु सति अनुत्तमः रसः परिवेष्‍यते। त्‍वया इयत्‌ कालं यावत्‌ उत्तमः द्राक्षारसः रक्षितः!”
11येशुः एषः चमत्‍कारः गलीलस्‍य कानानगरे प्रदर्शितवान्‌। 12अथ येशुः स्‍व मात्रा, भ्रातृभिः, शिष्‍यैः सह कफरनहूमं जगाम, तत्र चिरम्‌ अतिष्‍ठत्‌।
मन्‍दिरात्‌ विक्रेतॄणां निष्‍कासनम्‌
(मत्ती 21:12-13; मर 11:15-17; लूका 19:45-46)
13यहूदिनां पास्‍कापर्वणि (फसहपर्वणि) उपस्‍थिते येशुः येरुसलेमं नगरं गतवान्‌। 14मन्‍दिरे तत्र गोमेषकपोतानां विक्रये तथा मुद्राविनिमये व्‍यापृतान्‌ जनान्‌ दृष्‍टवान्‌। 15ततः रज्‍जुभिः कशां निर्माय, असौ वणिजाम्‌ आसनानि च बभंज, 16अथ कपोतानां विक्रेतॄण्‌ च अब्रवीत्‌ - “सर्वम्‌ एतत्‌ शीघ्रं मन्‍दिरात्‌ अपसारयत। मम पितुः गेहं वणिजां गृहम्‌ मा निर्मायत।
17तस्‍य शिष्‍याः धर्मग्रन्‍थस्‍य इदं कथनम्‌ अस्‍मरन्‌, “तव गृहम्‌ मां ग्रसिष्‍यति।
यहूदीधर्मगुरुणाम्‌ आह्‌वानम्‌
18यहूदीधर्मगुरवः येशुम्‌ अवदन्‌, “भवान्‌ कम्‌ चमत्‍कारं दर्शयितुं समर्थः अस्‍ति, येन वयम्‌ जानीमहे यत्‌ भवान्‌ एवं कर्तुम्‌ अधिकृतः वर्तते।” येशुः तान्‌ अब्रवीत्‌, 19“यूयम्‌ एतत्‌ मन्‍दिरं धराशायी कुरुत अहम्‌ पुनः एतत्‌ दिनत्रये उत्‍थापयिष्‍यामि।” 20यहूदिनः तम्‌ अब्रूवन्‌, “अयं मन्‍दिरः षट्‌चत्‍वारिंशत्‌ वर्षेषु निर्मितः। भवान्‌ एतत्‌ दिनत्रये कथम्‌ उत्‍थापयिष्‍यति?” 21येशुः तु स्‍वं देहम्‌ एव मन्‍दिरम्‌ समुदि्‌दश्‍य प्राह।
22यदा येशुः पुनर्जीवितः बभूव, तदा शिष्‍याः अस्‍मरन्‌ यत्‌ सः इदम्‌ प्राक्‌ एव अब्रवीत्‌; अतएव ते धर्मग्रन्‍थे, येशोः वचने च विश्‍वसन्‍ति स्‍म।
23(फसहपर्वणि) पास्‍कापर्वणि येशुः येरुसलेमे आसीत्‌, तदा बहवः जनाः तस्‍य चमत्‍कारान्‌ दृष्‍ट्‌वा तस्‍मिन्‌ विश्‍वासम्‌ अकुर्वन्‌। 24परन्‍तु येशुः तेषु विश्‍वासं न अकरोत्‌, यतः सः सर्वान्‌ जानाति स्‍म। 25अस्‍य आवश्‍यकता न आसीत्‌ यत्‌ कश्‍चित्‌ तं मनुष्‍याणाम्‌ विषये वदेत्‌। सः तु स्‍वयं मनुष्‍यस्‍य स्‍वभावं अजानत्‌।

Markierung

Kopieren

Vergleichen

Teilen

None

Möchtest du deine gespeicherten Markierungen auf allen deinen Geräten sehen? Erstelle ein kostenloses Konto oder melde dich an.