YouVersion Logo
Search Icon

प्रेरिता 14

14
इकोनियुमनगरे धर्मप्रचारः
1इकोनियुमनगरे अपि तौ सभागृहे प्रविश्‍य, ईदृशं भाषणं च दतवन्‍तौ, येन प्रभाविताः भूत्‍वा यहूदिनः युनानिनः च विश्‍वासम्‌ अकुर्वन्‌। 2परन्‍तु ये यहूदिनः तौ अस्‍वीकृतवन्‍तः, ते अयहूदिनः तयोः विरोधे कृत्‍वा तेषां मनस्‍सु भातॄन्‌ प्रति द्वेषं पूरितवन्‍तः।
3पौलुसबरनबासौ किन्न्‍चितकालानन्‍तरं यावत्‌ तत्र स्‍थित्‍वा प्रभोः विश्‍वासं कृत्‍वा निर्भीकतया येशोः मसीहस्‍य प्रचारं कृतवन्‍तौ। प्रभुः अपि तयोः हस्‍ताभ्‍यां चिह्नानि चमत्‍कारान्‌ च दर्शयित्‍वा स्‍व अनुग्रहस्‍य संदेशं प्रमाणितवान्‌।
4अस्‍य परिणामः अभवत्‌ यत्‌ नगरस्‍य अधिकांशजनतासु विभेदः अभवत्‌। केचित्‌ जनाः यहूदिनां, केचित्‌ प्रेरितां पक्षे अभवन्‌। 5तत्‍पश्‍चात्‌ नगरस्‍य शासकानां सहयोगेन अयहूदिनः, यहूदिनः च प्रेरितयोः उपरि दुवर्यवहारं तथा प्रस्‍तरप्रहारं कर्तुम्‌ प्रयासं कृतवन्‍तः। 6इदं ज्ञात्‍वा प्रेरितौ लुकाओनियायाः लुस्‍त्रायां तथा दिरबेनगरे, तयोः प्रतिवेशिषु प्रदेशेषु पलायितवन्‍तौ। 7तत्रापि ते सुसमाचारस्‍य प्रचारं कृतवन्‍तौ च।
लुस्‍त्रायाः खन्न्‍जाय स्‍वास्‍थ्‍यलाभः
8लुस्‍त्रायाम्‌ एकः ईदृशः जनः उपविष्‍टः आसीत्‌ यस्‍य पादयोः शक्‍तिः न आसीत्‌। सः जन्‍मनः खन्न्‍जः आसीत्‌, अतः कदापि चलितुं नाशक्‍नोत्‌। 9सः पौलुसस्‍य प्रवचनं शृण्‍वन्‌ एव आसीत्‌ तत्‌क्षणमेव पौलुसः तं स्‍थिरदृष्‍ट्‌या अपश्‍यत्‌। 10तस्‍य विश्‍वासं दृष्‍ट्‌वा उच्‍चैः अवदत्‌, “उत्तिष्‍ठ! स्‍व पादाभ्‍याम्‌ तिष्‍ठ।” सः उत्‍प्‍लुत्‍य पादाभ्‍याम्‌ अतिष्‍ठत्‌ चलितुम्‌ आरब्‍धवान्‌।
11जनाः चमत्‍कारं दृष्‍ट्‌वा लुकाओनियायाः भाषायाम्‌ अवदन्‌ “देवाः मनुष्‍यरूपे अस्‍माकम्‌ उपरि अवतरिताः सन्‍ति।” 12तेः बरनबासस्‍य नाम ज्‍यूसः, पौलुसस्‍य नाम हिरमेसश्‍च ददिरे, यतः सः प्रमुखः वक्‍ता आसीत्‌। 13नगरस्‍य बहि ज्‍यूसस्‍य मंदिरः आसीत्‌। तत्रस्‍य पुरोहितः स्रजं धारयित्‍वा वनवृषभैः सह प्रतीहारे आगच्‍छत्‌। सः जनताभिः सह प्रेरितयोः सम्‍माने बलिम्‌ अर्पणाय इच्‍छति स्‍म। 14यदा बरनबासः पौलुसौ श्रुतवन्‍तौ, तौ स्‍व वस्‍त्रं विर्दीय जनसंकुले गत्‍वा तारस्‍वरेण अवदताम्‌, 15“भ्रातरः! भवन्‍तः किं कुर्वन्‍ति? आवाम्‌ अपि भवताम्‌ इव सुखदुखस्‍य अनुभवं कर्तारौ मनुष्‍यौ स्‍व। आवाम्‌ इमं शुभसमाचारं दातुं आगतवन्‍तौ यत्‌ इमान्‌ देवतान्‌ त्‍यक्‍त्‍वा यूयं तं जीवन्‍तम्‌ परमेश्‍वरं प्रति अभिमुखं भवत येन नभः, पृथ्‍वी, समुद्रः, तस्‍मिन्‌ यत्‌ किन्न्‍चितास्‍ति, सर्वे सृष्‍टाः। 16यः विगतयुगेषु सर्वराष्‍ट्रेभ्‍यः स्‍वमार्गे चलितुम्‌ अवसरम्‌ अददात्‌। 17तथापि स्‍व वरदानैः स्‍वविषये साक्ष्‍यं ददाति - सः नभसः वृष्‍टिं करोति, पर्याप्‍तम्‌ कृषिफलं ददाति। सः युष्‍मभ्‍यम्‌ नभसः पर्याप्‍तम्‌ अन्‍नं दत्‍वा युष्‍माकं मनांसि आनन्‍दं बहुलं करोति।” 18एभिः शब्‍दैः जनसंकुलं काठिन्‍येन अवारयताम्‌ यत्‌ पुरोहितेन तयोः सम्‍माने बलिः न दातव्‍या।
प्रथमप्रचारयात्रायाः समाप्‍तिः
19तत्‌पश्‍चात्‌ केचित्‌ यहुदिनः अन्‍ताकियायाः इकोनियुमात्‌ च आगत्‍य जनान्‌ स्‍वपक्षे आनीतवन्‍तः। ते पौलुसस्‍योपरि प्रस्‍तरप्रहारान्‌ कृतवन्‍तः, तं मृतम्‌ अवमत्‍य नगरस्‍य बहिः आकर्षन्‌। 20परन्‍तु यदा पौलुसस्‍य शिष्‍याः तं सर्वतः एकत्राः अभवन्‌, सः उत्‍थितवान्‌ नगरं प्रत्‍यावर्तत्‌ च। अन्‍यस्‍मिन्‌ दिने सः बरनबासेन सह दिरबेनगरे अगच्‍छत्‌।
21तौ तस्‍मिन्‌ नगरे शुभसमाचारस्‍य प्रचारभ्‌ अकुरुताम्‌, तयोः अनेकाः शिष्‍याः अभवन्‌। तत्‌पश्‍चात्‌ तौ लुस्‍त्रायां, इकोनियमं च आगत्‍य अंताखियां प्रत्‍यागच्‍छताम्‌। 22तौ शिष्‍येभ्‍यः धर्यं अदत्ताम्‌। इमं वचनं कथयन्‍तौ विश्‍वासे दृढं भवितुं शिष्‍येभ्‍यः प्रोत्‍साहनम्‌ अदत्ताम्‌ यत्‌ बहुनि कष्‍टानि सहित्‍वा अस्‍माभिः परमेश्‍वरस्‍य राज्‍ये प्रवेष्‍टव्‍यमस्‍ति। 23तौ प्रतिकलीसियायां तेभ्‍यः धर्मवृद्धान्‌ नियुक्‍तवन्‍तौ, प्रार्थनायाः उपवासस्‍य च पश्‍चात्‌ तान्‌ प्रभोः हस्‍तयोः समर्पितवन्‍तौ, येषु ते विश्‍वसन्‍ति स्‍म।
24तौ पिसिदियां लंघयित्‍वा पंफुलियाप्रदेशम्‌ आगतवन्‍तौ। 25पेरगेनगरे शुभसमाचारस्‍य प्रचारं कृत्‍वा अत्तालियानगरम्‌ आगतवन्‍तौ। 26तत्रतः नावा अंताकियाम्‌ अगच्‍छताम्‌ !
27तत्रागत्‍य कलीसियायाः सभाम्‌ आहूय तौ श्रावयतः स्‍म, यत्‌ परमेश्‍वरेण ताभ्‍यां कानि-कानि कार्याणि कृतानि, कीदृशः अयहूदिभ्‍यः विश्‍वासद्वारम्‌ उद्‌घाटितानि। 28तौ चिरकालं यावत्‌ तत्र शिष्‍यैः सह अतिष्‍ठताम्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in