लूका 9

9
द्वादशानां प्रेषणम्‌
(मत्ती 10:1-; मर 6:7-13)
1अथ द्वादशशिष्‍यान्‌ आहूय तेभ्‍यः सर्वेषाम्‌ अपदूतानां दमनार्थम्‌, रोगिणाम्‌ रोगान्‌ प्रतीकर्तुम्‌ सामर्थ्‍यम्‌ च प्रदत्तवान्‌। 2तान्‌ प्रेरितान्‌ परमेश्‍वरस्‍य राज्‍यस्‍य शुभसमाचारं श्रावयितुम्‌ तथा निरामयं कर्तुम्‌ प्रेषितवान्‌। 3सः तान्‌ अवदत्‌, “मार्गाय युष्‍माभिः न गृह्‌यताम्‌ - शाणपुटः, यष्‍टिः वा रोटिका अथवा रुप्‍यकम्‌। न तु द्वे वस्‍त्रे। 4यस्‍मिन्‌ गृहे जनाः युष्‍मान्‌ गृह्‌णन्‍ति, तस्‍मिनेव ग्रामात्‌ बहिः गमनम्‌ यावत्‌ तिष्‍ठतु। 5तथा यस्‍य ग्रामस्‍य जनाः युष्‍मान्‌ न गृह्‌णन्‍ति, तस्‍माद्‌ ग्रामात्‌ सत्‍वरम्‌ यूयं स्‍वीयपादेभ्‍यः तत्‌ ग्रामस्‍य रजोऽपि तेषां विरुद्‌धं साक्ष्‍यार्थम्‌ अवधूय अपसरत। 6ते शिष्‍याः येशोः आदेशानुसारं ग्रामं ग्रामं पर्यटन्‍तः शुभसमाचारं श्रावयन्‍तः, जनान्‌ रोगमुक्‍तान्‌ अकुर्वन्‌।
हेरोदेसः अशान्‍तः अभवत्‌
(मत्ती 14:1-12; मर 6:14-29)
7नृपः हेरोदेसः एतद्‌ सर्वम्‌ श्रुत्‍वा अस्‍थिरः अभवद्‌, यतः केचित्‌ वदन्‍ति स्‍म योहनः मृतेभ्‍यः उत्‍थितः इति। 8केचित्तु कथयन्‍ति स्‍म आर्विभूतः एलियाहः; केचित्‌ अवदन्‌ प्राचीनेषु नबिषु कश्‍चित्‌ उत्‍थितः। 9हेरोदेसः अकथयत्‌ - “योहनस्‍य शिरः मया छिन्‍नम्‌, तथापि कः एषः अस्‍ति? यस्‍य विषये एतत्‌ सर्वम्‌ अहम्‌ शृणोमि?” सः येशुम्‌ द्रष्‍टुम्‌ उत्‍सुकः आसीत्‌।
रोटिकानां चमत्‍कारः
(मत्ती 14:13-21; मर 6:30-44; यूह 6:1-14)
10प्रेरिताः प्रत्‍यावृत्‍य यत्‌ कृतवन्‍तः तत्‌ सर्वम्‌ यथावृत्तं येशवे न्‍यवेदयन्‌। सः तान्‌ नीत्‍वा बेथसैदानगरस्‍य समीपस्‍थं गुप्‍तस्‍थानम्‌ आगतवान्‌। 11लोकाः चैतत्‌ समाज्ञाय तेन सार्द्धम्‌ प्रतस्‍थिरे। येशुः तेषां स्‍वागतं कृत्‍वा परमेश्‍वरस्‍य राज्‍यस्‍य विषये तान्‌ अशिक्षयत्‌, रोगान्‌ निरामयान्‌ कृतवान्‌ च।
12दिनस्‍य अवसाने आसन्‍ने शिष्‍याः येशुम्‌ उपाययुः। तं प्रोचुश्‍च-“ये चात्र समुपस्‍थिताः तान्‌ मुत्र्चतु येन सर्वे समीपस्‍थान्‌ ग्रामान्‌ पल्‍लीश्‍च प्राप्‍य भोजनावासयोः रात्रौ सुप्रबन्‍धो कुर्युः। यतः वयम्‌ एकान्‍ते निर्जनस्‍थाने विद्‌यामहे।” येशुः तान्‌ अकथयत्‌, 13“यूयमेव तेभ्‍यः भोजनम्‌ दत्त।” ते अवदन्‌, “अस्‍माकं पार्श्‍वे पंच एव रोटिकाः सन्‍ति, द्वावेव मत्‍स्‍यौ च स्‍तः। भवान्‌ किम्‌ इच्‍छति, अस्‍माभिः गत्‍वा एतेभ्‍यः अपि भोजनम्‌ क्रेतव्‍यम्‌? 14तत्र प्रायः पंचसहस्रपुरुषाः आसन्‌। येशुः स्‍वान्‌ शिष्‍यान्‌ प्राह - “पत्र्चाशत्‌ पत्र्चाशत्‌ कृत्‍वा जनान्‌ उपवेशयत।” 15येशुना यथादिष्‍टं सर्वान्‌ पुरुषान्‌ आसयन्‌। 16तदा येशुः करे पत्र्च रोटिकाः उभौ मीनौ समादाय स्‍वर्गम्‌ प्रति दृष्‍टिं प्रहित्‍य आशीर्वचसा अभिमन्‍त्रितवान्‌, तान्‌ विभज्‍य शिष्‍येभ्‍यो दातुम्‌ आरेभे, ते भक्ष्‍यं पर्यवेषयन्‌। 17सर्वे भुक्‍त्‍वा परां तृप्‍तिं जग्‍मुः। उच्‍छिष्‍टवस्‍तुभग्‍नांशैः द्वादश पिटकाः पूरितवन्‍तः।
पतरसस्‍य विश्‍वासस्‍य घोषणा
(मत्ती 16:13-19; मर 8:27-29)
18कस्‍मिंश्‍चिद्‌ दिवसे येशुः एकान्‍ते प्रार्थनारतः आसीत्‌। तस्‍य शिष्‍याः तस्‍य समीपे आसन्‌। येशुः तान्‌ पृष्‍टवान्‌ “लोकाः मां किं कथयन्‍ति।” 19ते प्रत्‍यूचुः, “योहनजलसंस्‍कारदाता, केचित्‌ कथयन्‍ति - एलियाहः केचित्‌ तु कः अपि प्राचीननबिषु एकः उत्‍थितः।” 20येशुः तान्‌ पुनः अपृच्‍छत्‌, “यूयं किं कथयथ, कोऽहम्‌?” पतरसः प्रत्‍याह, “भवान्‌ मसीहः वर्तते।” 21ततः असौ शिष्‍यान्‌ आदिष्‍टवान्‌, इयं वार्ता कस्‍मैचित्‌ कदापि न कथयत।
दुःखभोगस्‍य प्रथमा भविष्‍यवाणी
(मत्ती 16:20-28; मर 8:30-33)
22येशुः स्‍वान्‌ शिष्‍यान्‌ अब्रवीत्‌, “मानवपुत्रः बहूनि दुःखानि सहिष्‍यति। धर्मवृद्धाः महापुरोहिताः शास्‍त्रिणश्‍च तस्‍य उपहासं करिष्‍यन्‍ति, तं हनिष्‍यन्‍ति, परन्‍तु तृतीयदिवसे सः पुनरुत्‍थापयिष्‍यते।”
23अथः येशुः सर्वान्‌ अब्रवीत्‌, “यः मम अनुसरणं कर्तुम्‌ इच्‍छति सः आत्‍मत्‍यागं करोतु, प्रतिदिनं स्‍वक्रूसम्‌ आदाय माम्‌ अनुव्रजेत्‌। 24यतः यः स्‍वजीवनं रक्षितुम्‌ ईहते, सः तत्‌ नंक्ष्‍यति, यः मत्‍कारणात्‌ स्‍वं जीवनं नाशयिष्‍यति, सः तत्‌ रक्षिष्‍यति। 25मनुष्‍याय अनेन को लाभः? चेत्‌ सः सकलं जगत्‌ प्राप्‍नोति, परन्‍तु स्‍वं जीवनमेव हारयति अथवा सर्वनाशं प्रकुरुते। 26यः मां तथा मम शिक्षां स्‍वीकतुम्‌ लज्‍जते, मानवपुत्रोऽपि तं स्वीकर्तुं त्रपिष्‍यते, यदा असौ स्‍वप्रतापेन, आत्‍मनः पितुः, तथा पवित्रदेवदूतानां प्रतापेन सह पुनः आगमिष्‍यति। 27अहं त्‍वां ब्रवीमि अत्र ईदृशाः नराः विद्‌यन्‍ते ते तावत्‌ न मरिष्‍यन्‍ति, यावत्‌ परमेश्‍वरस्‍य राज्‍यं न द्रक्ष्‍यन्‍ति।”
येशोः रूपान्‍तरग्रहणम्‌
(मत्ती 17:1-8; मर 9:2-8)
28ततो एतेषां वृत्ताणां परं प्रायो दिनाष्‍टके याते, येशुः, पतरसं योहनं तथा याकुबं नीत्‍वा प्रार्थनां कर्तुम्‌ एकस्‍य पर्वतस्‍य उपरि आरूढः। 29प्रार्थनासमये तस्‍य मुखमंडलस्‍य रूपान्‍तरम्‌ अभवत्‌ तथा तस्‍य वस्‍त्राणि अत्‍युज्‍ज्‍वलानि भूत्‍वा विद्‌युत्‌ इव अभासन्‍त। 30तत्र द्वौ पुरुषौ तेन साकं भाषमाणे रतौ आस्‍ताम्‌। तयोः एकः मूसा, अपरः एलियाहः आसीत्‌। 31स्‍वं प्रतापं समाधाय आविर्भूतौ, येरुसलेमे भाविनम्‌, येशोर्मृत्‍युम्‌ उदि्‌दश्‍य भाषमाणौ आस्‍ताम्‌। 32पतरसः तथा सहयोगिनः निद्राभारसमाक्रान्‍ताः आसन्‌। ते येशोः महिमानं तथा तेन सह स्‍थितौ द्वौ पुरुषौ समालोक्‍य परमं विस्‍मयं ययुः। 33तौ प्रस्‍थानोद्‌यतौ अभवताम्‌, इदम्‌ दृष्‍ट्‌वा पतरसः येशुम्‌ प्रत्‍याह - “नाथ! अस्‍माकम्‌ इह अवस्‍थानम्‌ भद्रम्‌ वर्तते। अतः अस्‍माभिः अत्र त्रीणि पटवेश्‍मानि निर्मितानि, एकं तु भवदर्थम्‌ स्‍यात्‌, मूसार्थमपरं भवेत्‌ तृतीयं तु एलियाहाय निर्मितं स्‍यात्‌।” पतरसः किं ब्रुवन्‌ आसीत्‌, इति न अजानत्‌। 34तस्‍मिन्‌ इत्‍थं बु्रवाणे एकः मेघः समुत्‍थितः, तेन सर्वे समाच्‍छन्‍नाः भयेन विह्‌वलाः जाताः। 35ततः मेघस्‍य मध्‍यात्‌ एषा वाणी श्रुतिमागता, “अयं मम प्रियः पुत्रः, यः मया चयनितः अस्‍ति, अस्‍य वचः शृणुत।” 36अस्‍यां वाण्‍याम्‌ विरतायां येशुः एकाकी अविद्‌यत। इमां वाणीं श्रुत्‍वा सर्वे शिष्‍याः तूष्‍णीं समाश्रयन्‌, तत्‌ अखिलं वृत्तं यच्‍च ते तत्र ददृशुः, तद्‌विषये किंचित्‌ कत्र्चन न उवाद।
अपदूतग्रस्‍तः बालकः
(मत्ती 17:14-18; मर 9:14-27)
37अन्‍येद्‌युः तत्‌ पर्वतात्‌ तेषु अवतीर्णेषु एकः विशालः जनसमूहः तं द्रष्‍टुं तस्‍य अन्‍तिकम्‌ आगतः। 38तस्‍मिन्‌ एकः कश्‍चित्‌ नरः उच्‍चैः स्‍वरेण तम्‌ उवाच, “नाथ! भवतां प्रार्थयामि मम एकजाते पुत्रे भवतः कृपादृष्‍टिः भवेत्‌।” 39यदा एनम्‌ अपदूतः गृह्‌णाति, तदा सः भृशम्‌ उत्‍क्रोशति। तथा असौ बालकः फेनायते, तदा सर्वगात्राणि क्षोभयति, कष्‍टात्‌ एनं मुञ्‌चति च। 40मया तु भवतः शिष्‍याः याचिताः अपसारणम्‌ देहात्‌ अस्‍य अपदूतस्‍य, ते तत्‌ कर्तुम्‌ तु न अशक्‍नुवन्‌। 41येशुः तं तर्जयन्‌ प्राह - “अरे अविश्‍वासिन्‌ तथा दुष्‍टवंश! कियत्‌ कालम्‌ अहं युष्‍माभिः साकं वर्तेय, तथा युष्‍मान्‌ सहेय च। स्‍वकं पुत्रम्‌ अत्र आनय।” 42असौ बालः आगच्‍छन्‌ एव आसीत्‌, अपदूतः तं ताडयित्‍वा भूतले पातितवान्‌। येशुः अपदूतम्‌ अतर्जयत्‌, बालकं च स्‍वस्‍थं कृत्‍वा पित्रे असमर्पयत्‌। 43परमेश्‍वरस्‍य माहात्‍म्‍यम्‌ विलोक्‍य सर्वे जनाः विस्‍मयमुग्‍धाः अभवन्‌।
दुःखभोगस्‍य द्वितीया भविष्‍यवाणी
(मत्ती 17:22-23; मर 9:30-32)
सर्वे येशोः कार्यम्‌ दृष्‍ट्‌वा विस्‍मयाः आसन्‌; परन्‍तु सः स्‍वशिष्‍यान्‌ अब्रवीत्‌, 44“युष्‍माभिः मम वचनं सम्‍यक्‌ श्रोतव्‍यम्‌ अवधानतः - “मानवपुत्रः मनुष्‍याणां हस्‍ते प्रदास्‍यते।” 45एतत्‌ वाक्‍यं शिष्‍याणां बुद्धिगोचरतां न गतम्‌। यतः तदानीं तेषां धीः अज्ञानसंवृता आसीत्‌। अस्‍य विषये येशुं प्रति प्रश्‍नं प्रष्‍टुं ते बिभ्‍यति स्‍म।
सर्वेषु महान् कः?
(मत्ती 18:1-5; मर 9:38-40)
46एकदा तस्‍य शिष्‍येषु विवादः अयम्‌ अजायत, अस्‍मासु सर्वश्रेष्‍ठः को नु? 47येशुः तेषाम्‌ अभिप्रायं ज्ञात्‍वा एकम्‌ बालकम्‌ आहूय स्‍वपार्श्‍वे स्‍थापयित्‍वा तान्‌ जगाद - 48“यः कश्‍चित्‌ मम नाम्‍ना इमं बालकं सत्‍करोति, सः मामेव सत्‍कुरुते, तथा यः मां सत्‍करोति, सः तस्‍य स्‍वागतं करोति, यो माम्‌ इह प्रेषितवान्‌। यतो युष्‍मासु सर्वेषु यो लघिष्‍ठो सः महान्‌ वर्तते।”
उदारता
(मर 9:38-40)
49योहनः येशुम्‌ अवदत्‌, “नाथ! कश्‍चित्‌ एतादृशः नरः अस्‍माभिः लक्षितः यः भवतः नाम्‍ना अपदूतान्‌ निःसारयति, किन्‍तु अस्‍मान्‌ न अनुगच्‍छति, अतः अस्‍माभिः सः निवारितः।” 50येशुः तं प्राह, “युष्‍माभिः असौ नैव निष्‍कासितव्‍यः। यः युष्‍माकं विरुद्धे न स्‍थितः, सः युष्‍माभिः सह अस्‍ति।”
येरुसलेमस्‍य यात्रायाः आरंभः
51स्‍वकीये स्‍वर्गारोहणकाले उपस्‍थिते, येशुः येरुसलेमं गन्‍तुं निश्‍चितवान्‌।
एकः समारितनग्रामः येशुं स्‍वीकारं न करोति
52असौ सन्‍देशवाहकान्‌ पुरः प्रेषयामास। ते गत्‍वा समारियायाः एकं ग्रामं प्राविशन्‌। 53किन्‍तु तत्र जनाः तं सत्‍कर्तुम्‌ समुद्‌यताः न आसन्‌, यतो असौ येरुसलेमं गच्‍छन्‌ आसीत्‌। 54एतत्‌ आलोक्‍य याकूबः योहनः च तं प्रोचतुः, “भगवन्‌! भवतः इच्‍छया स्‍वर्गात्‌ अग्‍निवृष्‍टिः भवेत्‌, सर्वान्‌ एतान्‌ च संहरेत्‌।” 55येशुः प्रतावृत्‍य तौ अभर्त्‍सयत्‌, 56तदा येशुः तस्‍य शिष्‍याः च ग्रामान्‍तरं जग्‍मुः।
शिष्‍यस्‍य अर्हता
(मत्ती 8:19-22)
57येशुः शिष्‍यैः सह यात्रां कुर्वन्‌ आसीत्‌, पथि कश्‍चित्‌ आगत्‍य तम्‌ अकथयत्‌, “भवान्‌ यत्र कुत्रचित्‌ गमिष्‍यति, अहं भवता सह तत्र तत्र गमिष्‍यामि।” 58येशुः तम्‌ अवदत्‌, “शृगालानां गर्त्ताः सन्‍ति, खगानाम्‌ कुलायाश्‍च, परन्‍तु मानवपुत्रस्‍य स्‍वीयं स्‍थानं, स्‍वकं शिरः निदधातुम्‌ अपि न अस्‍ति।”
59असौ अपरं जगाद, “माम्‌ अनुव्रज।” सः अब्रवीत्, “पितुः अन्‍त्‍येष्‍टिकर्तुम्‌ मह्यम्‌ अनुमतिं दद्यात्‌।” 60येशुः इत्‍थं जगाद, “मृतकाः स्‍वमृतकान्‌ भूमौ स्‍थापयन्‍तु, त्‍वं तु प्रभोः राज्‍यं प्रचारय।”
61कश्‍चिद्‌ अन्‍यः तं प्रोक्‍तवान्‌, “प्रभो! अहं त्‍वाम्‌ अनुयामि, किन्‍तु पूर्वम्‌ माम्‌ स्‍वगैहिकान्‌ प्रष्‍टुम्‌ अनुजानीहि।” 62येशुः तम्‌ उवाच-लांगलं हस्‍तयित्‍वा यः पश्‍चात्‌ आवृत्‍य अवलोकते सः प्रभोः राज्‍यं न अर्हति।

المحددات الحالية:

लूका 9: SANSKBSI

تمييز النص

شارك

نسخ

None

هل تريد حفظ أبرز أعمالك على جميع أجهزتك؟ قم بالتسجيل أو تسجيل الدخول