प्रेरिता 19:11-12

प्रेरिता 19:11-12 SANSKBSI

परमेश्‍वरः पौलुसेन असाधारणचमत्‍कारान्‌ प्रदर्शयति स्‍म। यदा जनाः तस्‍य शरीरस्‍य वस्‍त्रखण्‍डं, गात्रमार्जनीं च रोगिनाम्‌ शरीरे उपस्‍थापयन्‍ति स्‍म, तदा रोगिनः, निरोगाः अभवन्‌, दुष्‍टात्‍मानः तेषां शरीरेभ्‍यः निर्गच्‍छन्‍ति स्‍म।