1
मथिः 9:37-38
सत्यवेदः। Sanskrit NT in Devanagari
शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः। क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।
Palyginti
Naršyti मथिः 9:37-38
2
मथिः 9:13
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
Naršyti मथिः 9:13
3
मथिः 9:36
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्
Naršyti मथिः 9:36
4
मथिः 9:12
यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।
Naršyti मथिः 9:12
5
मथिः 9:35
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
Naršyti मथिः 9:35
Pradžia
Biblija
Planai
Vaizdo įrašai