1
मत्ति 18:20
Sanskrit New Testament (BSI)
यतः यत्र कुत्र अपि द्वौ जनौ वा त्रयः मम नाम्नि समुपस्थिताः भवन्ति, तत्र तेषां मध्ये अहं तिष्ठामि।”
तुलना
खोजें मत्ति 18:20
2
मत्ति 18:19
“अहं युष्मान् इदम् अपि ब्रवीमि - युष्मासु द्वौ नरौ यदि पृथिव्यां एकमतौ भूत्वा किंचित् वस्तु याचेथे, तत् ताभ्यां मम स्वर्गस्थात् पितृतः अवश्यमेव लप्स्यते
खोजें मत्ति 18:19
3
मत्ति 18:2-3
एतद् श्रुत्वा येशुः एकं बालकम् आहूय, तेषां मध्ये तं स्थापयित्वा अब्रवीत्, “अहं युष्मान् सत्यं वदामि, यूयं चेत् लघुबालकाः यथा पुनः न भवथ तर्हि यूयं स्वर्गराज्ये प्रवेशं न प्राप्स्यथ।
खोजें मत्ति 18:2-3
4
मत्ति 18:4
अतः यः कश्चित् आत्मानं लघुबालकं मन्यते, सः एव नरः स्वर्गराज्ये सर्वमहान् खलु।
खोजें मत्ति 18:4
5
मत्ति 18:5
यः कश्चित् तु मदीयेन नाम्ना ईदृशम् बालकं स्वागतं करोति, सः तु मम स्वागतं करोति।”
खोजें मत्ति 18:5
6
मत्ति 18:18
“अहं युष्मान् ब्रवीमि - युष्माभिः यस्य भूतले निषेधः करिष्यते, सः स्वर्गलोके अपि निषेत्स्यते। तथैव पृथिव्यां यं जनम् अनुमतिं दास्यथ स्वर्गलोके अपि तस्य अनुमतिः भविष्यति।”
खोजें मत्ति 18:18
7
मत्ति 18:35
यदि युष्मासु हृदयेन प्रत्येकं स्वं भ्रातरं अपराधं न क्षमते, तर्हि मे स्वर्गस्थः पिता स्वभ्रात्रृन् प्रति युष्माभिः यथा व्यवहारः कृतः तथैव युष्मान् प्रति अपि व्यवहारं करिष्यति।”
खोजें मत्ति 18:35
8
मत्ति 18:6
ये मयि विश्वासं प्रकुर्वन्ति, लघवः बालकाः, यदि कश्चन तेषु कस्यचित् एकस्य कृतेऽपि पापस्य हेतुः भवति, तर्हि तस्मै उचितं भवेत्, पेषणीबन्धनं कंठे कृत्वा समुद्रे च निमज्जनम्।
खोजें मत्ति 18:6
9
मत्ति 18:12
युष्माकं कः विचारः वर्तते - कस्यचित् पुरुषस्य चेत् शतमेषाः भवन्तु, तेषु एकः अपि भ्रान्तः भवेत्, तदा किं सः एकोनशतं मेषान् गिरौ त्यक्त्वा, भ्रान्तं मेषम् अन्वेष्टुं न प्रयतिष्यते?
खोजें मत्ति 18:12
होम
बाइबिल
योजनाएँ
वीडियो