मारकुस 13:35-37
मारकुस 13:35-37 SANSKBSI
यतः यूयं न जानीथ गृहस्वामी कदा आयाति - सायंकाले, अर्धरात्रौ वा कुक्कुटारवे वा प्रभाते आयास्यति। तस्मात् जागृत सर्वदा। कदाचित् एतत् न भवेत् यत् अकस्मात् समागतः गृहस्वामी युष्मान् सर्वान् सुप्तान् विलोकयेत्। यद् युष्मान् अहं ब्रवीमि तत् सर्वान् ब्रवीमि - “जागृत।”