प्रेरिता 17
17
थिसुलनीकेनगरे यहूदिनां विरोधः
1तौ अम्फिपुलिसम्, अपुल्लोनियायाः नगरान् च लंघयित्वा थेसलनीकेनगरम् आगच्छताम् यत्र यहूदिनाम् एकं सभागृहमासीत्। 2पौलुसः स्वभावनुसारेण तत्र तेषां समीपे मिलितुम् अगच्छत्। सः त्रीणिविश्रामदिवसानि यावत् तैः सह तर्कं-वितर्कम् अकरोत्। तेन धर्मग्रन्थस्य व्याख्यां कुर्वन् 3प्रमाणितं कृतम् यत् मसीहस्य कृते कष्टानाम् अनुभवः, मृतकेषु पुनरुत्थानं च आवश्यकौ आस्ताम्। तेन इदमपि कथितम्, “अयम् एव येशुः, यस्य प्रचारः अहं भवतां मध्ये करोमि, मसीहः अस्ति।” 4“तेषां मध्यानां केचित् जनाः मसीहे विश्वासम् अकुर्वन्। बहवः ईश्वरभक्ताः युनानिनः अनेकाः प्रतिष्ठितनार्यः च अनुसरणम् अकुर्वन्।
5अनेन कार्येण यहूदिनः ईर्ष्यया ज्वलन्ति सम। ते हाटस्य दुष्टजनैः सह मिलित्वा समूहम् एकत्रीकृत्य नगरे उपद्रवम् अकारयन्। ते पौलुससीलासौ नगरसभायाः पुरतः उपस्थापयितुम् यासोनस्य गृहम् आगच्छन्। 6तौ न प्राप्त्वा ते यासोनेन सह अनेकभ्रातॄन् नगरस्यअधिकारिणां समक्षे बलपूर्वकं नीतवन्तः, दोषारोपणं च कृतवन्तः, “इमौ समस्तसंसारे अशान्तिं प्रसारयित्वा अत्र आगतौ स्तः। 7यासोनः ताभ्यां स्थातुं स्वगृहे स्थानम् अयच्छत्। तौ सम्राजः आदेशं विरोधं कुर्वन्तौ शिक्षयतः, यत् येशुः नाम कोऽपि अन्यनृपः अस्ति।” 8इदं श्रुत्वा जनसमूहेन सह अधिकारिणः व्याकुलाः जाताः। 9ते यासोनम् अन्यान् च शर्तेन सह मुन्न्चितवन्तः।
बिरीयानगरे अपि यहूदिनां विरोधः
10भ्रातरः भगन्याश्च तस्यां रात्रौ पौलुससीलासौ विरीयानगरं प्रेषितवन्तः। तत्र आगत्य तौ यहूदिनां सभागृहम् अगच्छताम्। 11इमे यहूदिनः थिस्सलुनीकेनगरस्य यहूदिभ्यः उदारतराः आसन्। ते उत्सुकाः भूत्वा प्रभोः संदेशं शृण्वन्ति स्म। अस्याः सत्यतायाः परीक्षणाय प्रतिदिनं धर्मग्रन्थस्य परिशीलनं कुर्वन्ति स्म। 12तेषु बहवः विश्वासग्रहणम् अकुर्वन्। अस्य अतिरिक्तः बहुसंख्यकाः प्रतिष्ठिताः अयहूदिनार्यः पुरुषाः च अपि तेषाम् अनुसरणम् अकुर्वन्।
13-14यदा थिस्सलुनीकेनगरस्य यहूदिनः अजानन् यत् पौलुसः बिरीयायाम् परमेश्वरस्य वचनस्य प्रचारं कुर्वन् अस्ति, तदा ते अपि तत्र जनान् तयोः विमुखं कर्तुम् आगतवन्तः। अतएव भ्रातरः भगन्याश्च पौलुसं समुद्रतटे शीघ्रम् अप्रेषयन्, परन्तु सीलसः तिमोथी च तत्र एव अतिष्ठताम्। 15पौलुसस्य मित्राणि तम् अथेनेनगरं यावत् नीतवन्तः तथा पौलुसस्य संदेशं नीत्वा प्रत्यागच्छन्, यत् शीघ्रातिशीघ्रं सीलासः तिमोथी च तस्य समीपे आगच्द्देताम्।
अथेनेनगरे पौलुसस्य धर्मप्रचारः
16यदा पौलुसः अथेनेनगरे तेषां प्रतीक्षते स्म, तदा नगरे देवमूर्तीनाम् आधिक्यं दृष्ट्वा अति क्षुब्धः जातः। 17अतएव न केवलं सभागृहे यहूदिभिः, ईश्वरभक्तैः सह, परन्तु प्रतिदिनम् चतुष्पथे गमनागनं कर्तृभिः सह अपि तेन तर्कः वितर्कः कृतः। 18तत्र केचित् एपिकुरीभिः, (अर्थात् भेगवादीविचारधारायाः जनाः) स्तोइकीभिः (अर्थात् कठोरनैतिकतावादिनः जनाः) दार्शनिकैः सह अपि तस्य सम्पर्कः अभवत्। एकेजनाः अवदन्, “अयं बहुभाषी अस्माभिः सह किं वक्तुम् इच्छति?” अन्याः जनाः अवदन्, “अयं विदेशीदेवतानां प्रचारकः प्रतीयते,” यतः सः येशोः तथा पुनरुत्थानस्य शुभसमाचारं श्रावयति स्म।
19-20अतः ते पौलुसम् अरियोपिगुसपरिषदं नीतवन्तः। ते अवदन्, “कि वयं ज्ञातुं शक्नुमः यत् भवता का नूतना शिक्षा दीयते? भवान् अस्मान् अद्भुतवचनानि श्रावयति। वयं ज्ञातुम् इच्छामः यत् एतेषां वचनानां कः अर्थः।” 21यतः अथेनेनगरस्य सर्वे निवासिनः तत्रस्य विदेशिनः च नूतनवचनानि श्रवणं, श्रावयनस्य वा अतिरिक्तः किमपि कार्यम् न कुर्वन्ति स्म।
अथेनेसभागृहे पौलुसस्य भाषणम्
22पौलुसः अरियोपिगुसस्य परिषदस्य पुरतः स्थित्वा वक्तुम् आरब्धवान्, “अथेनेनगरस्य सज्जनाः! अहं पश्यामि यत् भवन्तः देवतानाम् उपरि श्रद्धयन्ति। 23भवतां मंदिराणां परिभ्रमणसमये मया एकस्यां वेदिकायां अयम् अभिलेखः प्राप्तः - “अज्ञातदेवं, यं भवन्तः पूजयन्ति, अहं तस्य एव देवस्य विषये भवतः श्रावयितुम् आगतोऽस्मि।
24“यः परमेश्वरः विश्वं, तस्मिन् यत् किन्न्चितमपि अस्ति, निर्मितवान् य स्वर्गधरातलयोः प्रभुः वर्तते, सः हस्तैः निर्मितेषु मन्दिरेषु न निवसति। 25कस्यापि वस्तुनः अभावस्य कारणात् मनुष्यानां पूजां स्वीकरोति - इदं कथनम् असत्यमति। सः सर्वेभ्यः जीवनं प्राणैः सह सर्वम् यच्छति। 26सः एकेन मूलपुरुषेण, मानवजात्याः सर्वराष्ट्रानाम् उत्पतिम् कृत्वा तान् समस्त संसारे अस्थापयत्। सः तेषाम् इतिहासस्य युगान्, तेषां क्षेत्राणां सीम्नः निर्धारितवान्। 27अयम् एतदर्थम् अभवत् यत् मनुष्यैः परमेश्वरः अनुसंधानयितव्यः, तम् अन्वेषणं कुर्वन् संभवतः तम् प्राप्नुयुः, यद्यपि वास्तवे सः अस्मासु प्रत्येकात् दूरं नास्ति; 28यतः तस्मिनेव अस्माकं जीवनानि, अस्माकं गतयः, अस्माकम् अस्तित्वश्च निहिताः सन्ति, यथा भवतां कविभिः कथितम्, वयमपि तस्य वंशजाः स्मः। 29यदि वयं परमेश्वरस्य वंशजाः स्मः, अस्माभिः न अवगतन्तव्यम् यत् परमात्मा सुर्वणरजतप्रस्तराणां मूर्त्याः सदृशः अस्ति, यः मनुष्यस्य कलायाः कल्पनायाः वा उत्पत्यते।
30“परमेश्वरः अज्ञानस्य युगानां लेखां गृहीतुं न ऐच्छत; परन्तु इदानीं तस्य आज्ञा इयमस्ति, यत् सर्वत्र सर्वे जनाः पश्चात्तापं कुर्युः 31यतः तेन तत् दिनं निश्चितम् कृतमस्ति, यस्मिन् सः एकेन पूर्वनिर्धारितमनुष्येन समस्त संसारस्य न्यायं करिष्यति। परमेश्वरः तं पुरुषं मृतकेषु पुनरुत्थानं कारयित्वा सर्वेभ्यः जनेभ्यः स्वनिश्चयस्य प्रमाणम् अददात्।”
32मृतकानां पुनरुत्थानस्य विषयं शृण्वन्तः एव केचित् जनाः उपहसन्ति स्म, केचित् अवदन्, “अस्मिन् विषये वयं पुनः भवतः वचनं श्रोष्यामः।” 33अतः पौलुसः तान् मुन्न्चयित्वा तत्रतः अगच्छत्। 34तथापि अनेकाः जनाः तेन सह भूत्वा विश्वासिनः अभवन्, यथा परिषदस्य सदस्यः दियोनिसियुसः, दमरिस इति नामा महिला, अन्याः अनेकाः जनाः अपि च।
Currently Selected:
प्रेरिता 17: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.