प्रेरिता 15
15
अंताकियानगरे मतभेदः वादविवादश्च
1केचित् जनाः यहूदाप्रदेशात् अन्ताकियाम् आगत्य भ्रातॄन् शिक्षयन्ति स्म “यत् मूसागताप्रथायाः अनुसारेण लिंगाग्रचर्मछेदनेन विना मुक्तिः न मिलिष्यति।” 2अस्मिन् विषये पौलुसबरनबासयोः, तेषां मध्ये च तीव्रः मतभेदः, वादः विवादः च अभवत्, इदं निश्चितं यत् पौलुसबरनबासौ अन्ताकियायाः केचित् जनैः सह येरुसलेमं गत्वा अस्याः समस्यायाः संबंधे प्रेरितैः धर्मवृद्धैः च सह परामर्शम् करिष्यतः।
3अंताखियायाः कलीसिया तौ प्रेषितवती। तौ फीनीकेप्रदेशं तथा सामरी प्रदेशं लंघयित्वा यात्राम् अकुर्वाताम्। तत्रस्य सर्वभ्रातॄन्, अयहूदिनां धर्मपरिवर्तनस्य विषये श्रावयित्वा अति आनन्दितान् कृतवन्तौ। 4यदा तौ येरुसलेमम् आगतवन्तौ, तदा कलीसिया, प्रेरिताः, धर्मवृद्धाश्च तयोः अभिनन्दनम् चक्रिरे। तौ तान् सर्वान् अकथयताम् यत् परमेश्वरः ताभ्याम् हस्ताभ्याम् कानि कानि कार्याणि चक्रे।
येरुसलेमस्य परिषदः
5फरीसीसमुदायस्य केचित् सदस्याः, ये विश्वासिनः आसन्, उत्थाय वदन्ति स्म, यत् अन्यजात्याः विश्वासिनाम् एतादृशजनानां लिंगाग्रचर्मछेदनं भवितव्यम्। तैः मूसाव्यवस्था पालयितव्या। 6प्रेरिताः धर्मवृद्धाश्च अस्यां समस्यायां विचारयितुम् एकत्राः अभवन्। 7वादविवादे वर्द्धिते सति पतरसः उत्थाय वक्तुम् आरब्धवान्।
“भ्रातरः! भवन्तः जानन्ति यत् परमेश्वरः प्रारम्भात् भवत्सु मध्येषु मां चयनित्वा निश्चितवान् यत् अयहूदिनः मम मुखात् शुभसमाचारस्य वचनं शृणुयुः विश्वासं कुर्युः च। 8परमेश्वरः मनुष्यस्य हृदयं जानाति - सः तेभ्यः अपि अस्माकम् इव पवित्रात्मानम् अददात्। इत्थं सः तेषां पक्षे साक्ष्यं दत्वा 9विश्वासमाध्यमेन तेषां हृदयानि शुद्धयित्वा, अस्मासु तेषु च कोऽपि भेदः न चकार।
10यं भारं न अस्माकं पूर्वजाः, न वयं वोढुं समर्थाः आस्म, तं शिष्यानां स्कन्धेषु स्थापयित्वा भवन्तः अधुना परमेश्वरस्य परीक्षां किमर्थम्ं गृह्णन्ति? 11अस्माकं विश्वासः तु ईदृशः यत् वयं, ते अपि च प्रभोः येशोः कृपया एव मुक्तिं लप्स्यन्ते।”
12सर्वे तूष्णीं भूत्वा पौलुसबरनबासयोः शिक्षाम् अशृण्वन्। तौ तेषां चिन्हानां चमत्कारानां च विषये श्रावयतः स्म यान् परमेश्वरः ताभ्यां अयहूदिनां मध्ये अदर्शयत्।
13तयोः कथिते सति, याकूबेन स्वप्रतिक्रियां व्यक्तवान्, “भ्रातरः! मम वार्ताम् शृणुयुः। 14सिमोनेन कथितं यत् विगतदिनेषु परमेश्वरेण कीदृशः अयहूदिषु स्व नाम्ने “निजजनाः” चयनिताः। 15अयं नबिनां शिक्षायाः अनुसारेण एव अस्ति, यतः लिखितम् -
16अस्य पश्चात् अहं प्रत्यागत्य दाऊदस्य ध्वंसितस्य गृहस्य पुनः निर्माणं करिष्यामि, अहं तस्य अवशेषानां पुनर्निमाणं करिष्यामि। तान् पुनः उत्थापयिष्यामि, 17येन मानवजात्याः शेषजनाः- अर्थात् मया स्वीकृताः सर्वे राष्ट्राः, प्रभोः अन्वेषणे संलग्नाः भवेयुः। 18यः इमानि कार्याणि करोति, पुराकालात् जानाति सैव प्रभुः इमं वदति।
19“अतएव मम विचारः अस्ति यत् ये अयहूदिनः परमेश्वरं प्रति अभिमुखाः भवन्ति, तेभ्यः अनावश्यकभारः न भवेत्, 20परन्तु पत्रं लिखित्वा तेभ्यः आदेशः भवेत् यत् ते देवमूर्तीनाम् अशुद्धतायाः, व्यभिचारात्, हतानां पशूनां मांसात् रक्तात् च परहेजं कुर्युः। 21यत् पुराकालात्, प्रति नगरे मूसाप्रचारकाः विद्यमानाः सन्ति, तथा तस्य व्यवस्था तेषां संहिता प्रतिविश्रामदिवसे सभागृहेषु पठित्वा श्रावयते।
प्रेरितानां पत्रम्
22तदनन्तरं समस्तकलीसियायाः सहमत्या प्रेरिताः धर्मवृद्धाःच निर्णीतवन्तः यत् तेषां मध्येषु केचित् निर्वाचिताः जनाः पौलुसबरनबासाभ्याम् सह अंताकियां गच्छेयुः। भ्रातृषु प्रमुखाः द्वौ निर्वाचितौ - यहूदां यः बरसब्बा कथ्यते स्म, अन्यम् सीलासं, 23तयोः हस्तयोः इदं पत्रं प्रेषितवन्तः-
“प्रेरिताः धर्मवृद्धाश्च भवतां भ्रातरः, अंताकियायाः, सीरियायाः, किलिकियायाः अयहूदिभ्रातॄन् नमस्कारं कुर्वन्ति। 24वयम् अशृणुम अत्रस्य अस्माकं केचित् जनाः अनधिकृतरूपेण भवतः भ्रमितवन्तः। 25अतः सर्वसम्मत्या निर्णीतं यत् अस्माभिः निर्वाचिताः प्रतिनिधयः बरनबासपौलुसभ्यां सह 26यौ अस्माकं प्रभोः येशोः मसीहस्य नाम्नि स्वजीवनम् अर्पितवन्तौ, भवतां समीपे गच्छेयुः। 27अस्माभिः भवतां समीपे यहूदासीलासौ प्रेषितौ। तौ अपि भवतः सर्वम् मौखिकरूपेण कथयिष्यतः। 28पवित्रात्मानम्, अस्मान् च उचितं प्रतीयते स्म, यत् एतेषाम् आवश्यकवचनानां अतिरिक्तः भवत्सु अधिकः भारः न भवितव्यः - 29भवन्तः देवमूर्तिभ्यः अर्पितमांसात्, रक्तस्य भक्षणात्, वधकृताः पशूनां मांसात्, व्यभिचारात् परहेजं कुर्युः। एतेषु भवतां कल्याणः वर्तते। शुभकामना।”
अंताकियानगरे प्रतिनिधिमंडलः
30अलविदां कथयित्वा तौ अंताकियाम् आगच्छताम्, तत्र आगत्य भ्रातॄन् एकत्रीकृत्य तत् पत्रम् अदत्ताम्। 31पत्रस्य सान्त्वनापूर्णवचनं पठित्वा जनाः आनन्दिताः अभवन्। 32यहूदाः तथा सीलासः स्वयं भविष्यवक्तारौ आस्ताम्। तौ चिरकालं यावत् भ्रातॄन् संबोधयित्वा सान्त्वनाम् अदत्ताम्, तेषां विश्वासं दृढ़म् अकुरुताम् च। 33तौ किन्न्चित्कालं यावत् तत्र आस्ताम्। तत्पश्चात् भ्रातॄणां मंगलकामनाः नीत्वा तेषां समीपे आगच्छताम्, ये तौ प्रेषितवन्तः। 34(परन्तु सीलासः तत्र स्थातुं निश्चितवान्, यहूदा एकाकी एव येरुसलेमम् प्रत्यागच्छत्।) 35पौलुसबरनबासौ अंताकियायाम् एव अतिष्ठताम्, तौ अन्यजनैः सह शिक्षाम् अदत्ताम्, प्रभोः वचनं प्रचारितवन्तौ।
पौलुसबरनबासयोः मध्ये मतभेदः
36किन्न्चितकालान्तरस्य पश्चात् पौलुसेन बरनबासः कथितः, “आगच्छतु, आवाभ्यां येषु येषु नगरेषु प्रभोः वचनानि प्रचारितानि, तत्र पुनः गत्वा भ्रातॄभिः सह मिलित्वा द्रक्ष्यावः यत् तेषां कः समाचारः अस्ति। 37बरनबासः ऐच्छत् यत् योहनः, यः मारकुसः कथ्यते, ताभ्यां सह गच्छेत्। 38पौलुसस्य अयं विचारः आसीत्, यतः मारकुसः पम्फुलियायां तौ अमुन्न्चत्, सः तत्र तयोः कार्येषु सहयोगी न आसीत्, अतः तेन ताभ्यां सह न गन्तव्यम्। 39अस्मिन् विषये तयोः एतावत् तीव्रः मतभेदः अभवत् यत् द्वौ पृथकौ अभवताम्। बरनबासः मारकुसेन सह नावा कुप्रुसम् अगच्छत्।
40पौलुसेन सीलासः चयनितः। भ्रातरः तस्मै प्रभोः कृपां याचितवन्तः। 41सः सीरियादेशस्य तथा किलिकियायाः च भ्रमणम् कृत्वा कलीसियाः विश्वासे अवार्धयत। द्वितीयाप्रचारयात्रायाम् तिमोथी अपि सम्मिलितः।
Currently Selected:
प्रेरिता 15: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.