एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।
तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?
ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।