प्रातराशात् परं येशुः सिमोनपतरसं जगाद, “सिमोन! योहनस्य पुत्र! किं त्वम् एभ्यः अधिकं मयि प्रेम कुरुषे? सः तं प्रत्यवादीत्, “प्रभो! भवान् जानाति यत् त्वयि मम प्रेम अविचलः वर्तते। येशुः तमब्रवीत् - “मम मेषशावकान् चारय।” येशुः पुनः द्वितीय वारं तमभाषत - “सिमोन! योहनात्मजः, किं मयि प्रेम कुरुषे? सिमोनपतरसः येशुम् पुनः तथा प्रत्यवोचत् - “प्रभो! भवान् जानाति यत् त्वयि मे प्रेम दृढ़म्।” येशु तम् आह - ”मे मेषान् चारय।” येशुः पुनः तृतीयवारं सिमोनमभाषत - “सिमोन! योहनसुतः किम् मयि प्रेम करोषि?” एवं तृतीयवारं स पृष्टः अतिदुखितः अभवत्। पतरसं तं जगाद - “भवान् सर्वज्ञः वर्तते। भवान् जानाति यत् मम भवति प्रेम सुदृढ़म् वर्तते।” येशुः पुनः तथैवाह - “मम मेषान् चारय।”